________________
११६
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः ततोऽप्रतिपन्नमपि प्रत्यक्षेण भावि प्रतिपन्नमिच्छन् तमेव' आश्रित्य वर्तमानं तत्कारणं प्रत्यक्षमिच्छन्तं न सहते इति प्राकृतबुद्धिः ।
अथवा, यदुक्तम्-'गवि सन्निहिते गोबुद्धिं विनिवर्त्य तदा अश्वकल्पनायामपि गोरेव विनिश्चियात्' इति; तत्र प्रवृत्तौ 'इदं वाक्यम् , तत्र अनुस्मृत्यादेविरोधात् । अनुस्मृत्य तद्भेदान ५ प्रवर्तते पूर्वव्यवस्थापितनिक्षेपादिषु प्रवृत्त्यर्थम् । 'प्रत्यभिज्ञाय तद्भेदान् तु प्रवर्तते' इत्येतत् पुनः 'तदेवेदं तेन सदृशम्' इति वा अनुसन्धानमात्रेण प्रवृत्तौ । 'चिन्तयन् तरेदान् प्रवर्तते' इतीदम् अदृश्यमेरुमकार( मकराकर )वाडवाग्निविवेकविनिश्चयेन देशाद्यन्तरवृत्तौ । 'आभिमुख्येन तद्भदान विनिश्चित्य प्रवर्तते' इत्येतत् 'अकस्माद् धूमदर्श
नात् पावकोऽत्र इति प्रवृत्तौ । 'चिन्तयन् आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते' १० [ इत्येतत् 'अनित्यः शब्दः श्रावणत्वात्' इत्याद्यनुमानात् प्रवृत्तौ । समुदितं तु वाक्यम् 'वह्नि
रत्र, धूमात् , यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसादौ, धूमश्चात्र' इत्येवमाद्यनुमानात् प्रवृत्तौ। तत्र अक्षज्ञानैः [९८क] पूर्वमनयोः सम्बन्धे गृहीते सति पुनस्तैरेव कचित् धूमे विषयीकृते पूर्वसंस्कारप्रबोधः, ततः स्मृतिः, तस्याः प्रत्यभिज्ञा, पुनः तर्कः, अतोऽनुमानं [ततः ] प्रवृ
त्तिरिति । १५ कारिकां विवृण्वन्नाह-स्पर्शन इत्यादि । स्पर्शनरसनघ्राणचक्षुःश्रोत्रमनांसि । किम् ?
इन्द्रियाणि । मनः सर्वज्ञसिद्धौ निरूपयिष्यते । तैः स्पर्शनादिभिः का (क) रणभूतैः स्वविषयाणां स्पशादीनां ग्रहणं तद्ग्राहकं यज्जन्यते ज्ञानम् । तत् किं नाम ? इत्यत्राह-मितिः इति । (मतिरिति) । किमात्मिका सा ? इत्यत्राह-अवग्रह इत्यादि । अवग्रहादयो वक्ष्यमाणकाः तदात्मि
का इति । केषां सा ? इत्यत्राह-बहु इत्यादि । बहु च युगपत् समानजातीयानां बहूनां ग्रहणम् , २० बहुविधं च भिन्नजातीयानाम् , क्षिप्रं च झटिति, अनिःसृतं च आलोकाद्यनपेम (पेक्षम्) अनुक्त
च पानकादौ गुडादिरसविशेषस्य अकथितं च।ध्र वं च दृढतया कालान्तरस्मरणकारणम् तेषाम् । कथंभूतानाम् ? सेतरप्रकाराणाम् सह इतरप्रकारैः अबलादिभिः वर्तमानानाम् । तथा च सति किं सिद्धम् ? इत्यत्राह-अत एव इत्यादि । यत एव तैः स्वविषयाणां ग्रहणमेवंविधम् , अत एव
अनेकान्तसिद्धिः। २५ ननु आगमादेव केवलात् सर्वमेतत् सिद्धं नान्यतः अनुपलक्षणात् , ततो भवत आंगमि
कत्वमिति चेत् ; अत्राह-नहि इत्यादि । नहि संवित्तेः इन्द्रियमतेः सम्बन्धिन्यः बहुबहुविधप्रभृत्याकृतयः स्वयम् आत्मना असंविदिता एव अज्ञाता एव उदयन्त उत्पद्यन्ते [९८ख] व्ययन्ते विनश्यन्ति वा यतो यस्माद् असंविदितोदयव्ययात् सत्योपि अनुपलक्षिताः स्युः। अत्र परप्रसिद्धं दृष्टान्तमाह कल्पनावत् इति । यथा *"नहि इमाः कल्पना" इत्यादि वचनात्
(१) व्यवहारमेव । (२) 'अक्षज्ञानैः तद्भेदान् विनिश्चत्य प्रवर्तते' इति । (३) इति वाक्यं तु । (४) "अवग्रहहावायधारणाः ।"-त. सू० ११५। (५) "बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतराणाम् ।"-त० सू० ११६ (६) आगमानुसारित्वम् । (७) सौगतप्रसिद्धम् । (6) “तदाह-न चेमाः कल्पना अप्रतिसंविदिता एवोदयन्ते व्ययन्ते चेति।" प्र. वा० स्व० टी० पृ० १२७ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org