________________
१।२७ ]
व्यवसायात्मकप्रमाणक्रमः उपसंहारार्थमाह-तत इत्यादि । यत एवं ततो व्यवसाय एव निर्णये एव अविसंवादनियमः अधिगमः स्वार्थग्रहणं च निश्चेतव्यः। कुत एतत् ? इत्यत्राह-तत्रैव व्यवसाय एव अन्तयोः ( तयोः) अविसंवादनियम-अधिगमयोः भावात् । एतदपि कुतः ? इत्यत्राहतद्वशादेव व्यवसायादेव तत्प्रतिष्ठानात तयोः प्रतिष्ठानात् ।
एवं व्यवसायात्मकमविसंवादिज्ञानं प्रमाणं व्यवस्थाप्य साम्प्रतं ततः प्रवृत्तिक्रमं दर्शयति ५ अनागतमर्थं च सूत्रयति-'अक्षज्ञानैः' इत्यादिना ।।
[अक्षज्ञानैरनुस्मृत्य प्रत्यभिज्ञाय चिन्तयन् ।
आभिमुख्येन तद्भेदान् विनिश्चित्य प्रवर्तते ॥२७॥ स्पर्शनरसनघाणचक्षुःश्रोत्रमनांसि इन्द्रियाणि। तैः स्वविषयग्रहणम् अवग्रहाद्यात्मिका मतिः बहुबहुविधक्षिप्रानिःसृतानुक्तध्रु वाणां सेतरप्रकाराणाम् । अत एवानेकान्तसिद्धिः। १० नहि संवित्तेः बहुबहुविधप्रभृत्याकृतयः स्वयमसंविदिता एवोदयन्ते व्ययन्ते वा यतः सत्योऽप्यनुपलक्षिताः स्युः कल्पनावत् तथेखराकृतयः। स्वलक्षणसामान्यलक्षणकान्ते पुनः संवेदनाकृतीः न पश्यामः तथैवापश्यन्तः कथमात्मानमेव विमलभामहे । तदेवं परमार्थतः सिद्धिः अनेकान्तात् । मन्यते [मननं वा इति मतिः, स्मरणं स्मृतिः, संज्ञानं संज्ञा, चिन्तनं चिन्ता, अभिनिबोधनमभिनिबोध इति] तथामनन्ति त स्वार्थ सूत्र का रा:- १५ *"मतिः स्मृतिः संज्ञाचिन्ताभिनिबोध इत्यनान्तरम्" [त० सू० १।१३] इति । मतिस्मृत्यादयः शब्दयोजनामन्तरेण न भवन्तीत्येकान्तो न यतस्तत्रान्तर्भाव्येरन् । तदेकान्ते पुनः न क्वचित् स्युः तन्नामस्मृतेरयोगात् अनवस्थानादेः] ___ अतो निबन्धनस्थानाद् वाक्यान्तराणि उपप्लवन्ते–'अक्षज्ञानैः तद्भेदान् विनिश्चित्य प्रवर्तते' इत्येकं वाक्यम् , 'अनुस्मृत्य तद्भदान् प्रवर्तते' इति द्वितीयम् , प्रत्यभिज्ञाय २० तद्भेदान् प्रवर्तते' इति तृतीयम् , 'चिन्तयन् वितर्कयन् तद्भेदान् प्रवर्तते' इति चतुर्थम् , आभिमुख्येन तद्भदान् विनिश्चत्य प्रवर्तते' इति पञ्चमम् , चिन्तयन्नाभिमुख्येन तद्भ दान्विनिश्चित्य प्रवर्तते' इति षष्ठंसमुदितम् । तत्र अक्षाणि चक्षुरादीनि इन्द्रियाणि तेषां कार्यभूतैः ज्ञानैःतदभेदान् हिताहितार्थविशेषान् विनिश्चित्य प्रवर्तते पुरुषः । अयं च प्रवृत्तिक्रमः अभ्यासदशायां द्रष्टव्यः । नहि तस्यां प्रवर्त्तमानो नियमेन सजातीयानुस्मरणा- २५ दिकमपेक्षते जनः तथाऽप्रतीतेः [९७ख] अमुमेवार्थमाश्रित्य *"अभ्यासे भाविनि प्रवर्तकत्वात् प्रत्यक्षं प्रमाणम्" इति । तत्सर्वं युक्तम् , इदं तु अयुक्तम् प्र ज्ञा क र गुप्ते नोक्तम्'भाविनि' इति ; दाहादिकारणे पावकादौ लोकस्य प्रवृत्तिदर्शनात् । दाहाद्यदर्शने कथं 'तत् तत्कारणम्' इति प्रतीयते इति चेत् ? अभ्यासात् किन्न जायते ? स्वयं च व्यवहारमाश्रित्य
(१) उद्धृतोऽयम्-त० श्लो० पृ० १८९ । न्यायवि० वि० द्वि. पृ०४१ । (२) "वर्तमानेऽतिमात्रेण वृत्तावध्यक्षमानता । यत्रात्यन्ताभ्यासादविकल्पयतोऽपि प्रवर्तनं तत्र प्रत्यक्ष प्रमाणम्"-प्र० वार्तिकाल. पृ०२१८ । (३) “तस्माद् व्यवहारमात्रप्रसिद्धानुमानाश्रयेण प्रसिद्धं सम्बन्धमाश्रित्य तदेत. ' दर्थक्रियासाधनमिति दर्शनेन स्पृश्यादिसाधनस्य प्रतिपत्तौ प्रवर्तते। पश्चादभ्यासानुमानमन्तरेणापि प्रतिभासमात्रादेव वृत्तिरिति प्रत्यक्षमपि प्रवर्तकत्वात् प्रमाणम् । अत उच्यते प्रामाण्यं व्यवहारेणेति ।"प्र. वार्तिकाल. पृ. २५ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org