________________
११४
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः कानुविधायि प्रतिसंख्या निरोध्यविसंवादकं प्रत्यक्षं प्रमाणं युक्तम् । अथ तस्य स्वार्थसन्निधानान्वयव्यतिरेकानुविधायित्वं चेत् ; अर्थकार्यता, इति ल घी य व ये तत्प्रतिषेधो विरुध्यते इति ; तन्न ; नोत्पत्तौ तदन्वयव्यतिरेकानुविधायित्वम्, अपि तु व्यापारो (रे), अर्थे सद्ग्रहणे व्याप्रियते नान्यथा इति आचार्याभिप्रायात् । कुत एतदवगम्यत इति चेत् ? स्वग्रहणात् । नहि ५ किञ्चित् स्वोत्पत्तौ स्वान्वयव्यतिरेकानुविधायि, विप्रतिषेधात् । ततः सर्व सुस्थम्
स्यान्मतम्-माभूत्तन्मनसमपि त्वेन्द्रियं तथेन्द्रियं (तन्मानसमपि त्वैन्द्रियं तथापि) भ्रान्तमस्तु । न च [९६ख] इन्द्रियविभ्रमाः प्रतिसंख्यानेन निवर्त्यन्ते 'चन्द्रमेकम्' इति भावयतोऽपि द्विचन्द्रप्रतिभासानिवृत्तेरिति । तत्रोत्तरमाह-तच्चेद् इत्यादि ।
[तच्चेदवस्तुविषयमप्रमाणं यतोऽन्यतः।
निर्णयात्मकत्वात्सिद्धेः अर्थसिद्धरसंभवात् ॥२६॥ दर्शनसिद्धिप्रतिज्ञायां विप्रतिपत्तिविषयस्य साधनान्तरप्रतीक्षस्य सिद्धेरनुपपत्तेः । अधिगतिरित्यपि निर्णीतिरेव । तथा च अनिश्चिताथनिश्चयेन अविसंवादकं ज्ञानं स्पष्टप्रतिभासमन्यद्वा प्रमाणं नापरम् । ततो व्यवसाय एव अविसंवादनियमोऽधिगमश्च निश्चेतव्यः तत्रैव तद्भावात् , तद्वशादेव तत्प्रतिष्ठानात् । ]
तद् अनन्तरोक्तं चेत् यदि अप्रमाणम् । कुत एतत् ? अवस्तुविषयं यतः । सामान्यविशेषात्मकतत्त्वम् अवस्तु विषयो यस्य तत् तथोक्तम् । किं तर्हि प्रमाणम् ? न किञ्चिद् इत्यर्थः । 'अविकल्पकं दर्शनम्' इति चेत् ; अत्राह-अन्यतः इत्यादि । अन्यतः मिथ्यैकान्तवादिकल्पितात् प्रमाणाद् अर्थसिद्धिः (द्धः) अत्यन्तम् असंभवात् । ननु सिद्धिः
अधिगतिमात्रं ततोऽपि संभवति इति चेत् ; अत्राह-सिद्धेः निर्णयात्मकत्वात् । २० अस्याऽनभ्युपगमे दूषणमाह-दर्शन इत्यादि । दर्शनम् अर्थसाक्षात्करणं निरंशादर्थात् 'तदाकारात्मलाभ इति यावत् , तदेव सिद्धिः इति या सौगतस्य प्रतिज्ञा तस्यां च क्रियमाणायां सिद्धेः ज्ञप्तेः अनुपपत्तेः दर्शनस्य, सिद्धः निर्णयात्मकत्वम् इति । कथंभूतस्य ? विप्रतिपत्तिविषयस्य । पुनरपि कथंभूतस्य ? साधनान्तरप्रतीक्षस्य साधनान्तरे प्रतीक्षा यस्य इति । अनेन
दर्शनाऽभावात् [न] तत्सिद्धिः इत्युक्तं भवति । २५ यत्पुनरेतत्-*"अधिगतिस्तत्फलम्" इति ; तद् अर्थतो निराकृतम् , शब्दतो निराकुर्व
नाह-अधिगतिः इत्यपि न केवलमन्या अपि तु अधिगतिरित्यपि या सिद्धिः परस्य सापि निर्णीतिरेव । निर्णीतिपर्यायः अधिगतिशब्दः इति मन्यते । ततः किं जातम् ? इत्याह-तथा च इत्यादि । तथा च तेन च प्रकारेण अनिश्चितस्य अर्थस्य यो निश्चयः न दर्शनमात्रम्, तेन अविसंवादकं ज्ञानं स्पष्टप्रतिभासम् अन्यद्वाऽस्पष्टप्रतिभासं प्रमाणं नापरम् इति युक्तं पश्यामः ।
(१) प्रत्यक्षस्य । (२) ज्ञानस्य अर्थकार्यतानिषेधः। “अन्वयव्यतिरेकाभ्यामर्थश्चेत्कारणं विदः । संशयादिविदुत्पादः कौतस्कुत इतीक्ष्यताम् ॥५४" इत्यादिना क्रियमाणः । (३) अर्थान्वयव्यतिरेकानुविधानम् । (४) तत्वज्ञानेन । (५) अविकल्पादपि । (६) "स्वसंवित्तिः फलं चात्र"-प्र० समु. १।१०। “फलं स्ववित्"-प्र०वा. २१३३६ । “विषयाधिगतिश्चात्र प्रमाणफलमिष्यते । स्ववित्तिर्वा..."-तत्त्वसं० श्लो. १२४४ । (७) बौद्धस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org