________________
११३
१।२५ ]
निर्विकल्पकप्रामाण्यनिरासः अत्रैव युक्तयन्तरमाह-प्रतिसंख्या इत्यादि। प्रतिसंख्यया प्रतिविकल्पेन अनिरोध्यत्वाद् अनिराक्रियमाणत्वात् । तथा च प्रयोगः-एतद् विवादगोचरापन्नं ज्ञानं न मानसम् , प्रतिसंख्याऽनिरोध्यत्वात् , यत् पुनर्मानसं न तत् प्रतिसंख्याऽनिरोध्यं यथा गवि सन्निहिते 'गौरयम्' इति मानसो विकल्पः । पुनरपि तदन्तरमाह-अर्थ इत्यादि । अर्थस्य घटादेः सन्निधिः योग्यदेशाद्यवस्थानं तदपेक्षणात् ।
कारिकां विवृण्वन्नाह-नहीदम् इत्यादि । इदं विवादा[९५ख]स्पदीभूतं ज्ञानम् । कथंभूतम् ? स्वार्थव्यवसायात्मकम् । तत्किम् ? मानसम् इति युक्तम् । नहि न खलु । कुत एतत् ? प्रत्यक्षं विशदम् अक्षाश्रितं वा यतः । इतश्च न मानसम् ; इत्याह-गवि इत्यादि। गवि पशुविशेषे । कथंभूते ? सन्निहिते । गोबुद्धिम् गौरयं महान् शुक्लः दीर्घः अन्यथा वा इत्यादि परामर्शात्मिकां मानसीं विनिवित्य (विनिवर्त्य) तदा तद्विवर्तनकाले गोरेव विनिश्चयात् । १० कस्यां सत्याम् ? इत्याह-अश्वकल्पनायामपि न केवलं तदकल्पनायाम् । एतदुक्तं भवति-यद्ययं स्थिरस्थूलसाधारणाकारे गोनिश्चयः प्रकृतगोबुद्धिवत् मानसः; तर्हि तद्वद् अश्वकल्पनायां विनिवर्तेत । न चैवम् , तन्न मानसः । 'विनिश्चयात्' इत्यनेन एतद्दर्शयति । तत्कल्पनाकाले गोदर्शनं यदि अविकल्पकम् ; तर्हि क्षणक्षयदर्शनवत् तद्वयवहारो न भवेत् तद्विकल्पानुत्पत्तः, युगपद् विकल्पद्वयानभ्युपगमात् । तस्मात् निश्चयात्मकमिति । एवकारेण पुनः एतत् कथयति- १५ दर्शनमात्रात् तथा गोव्यवहारे क्षणक्षयादिव्यवहारोऽपि भवेद् विशेषाभावात् । न चैवमिति ।
ननु यदा गोविनिश्चयो न तदा अश्वविकल्पना, जैनस्य युगपद् उपयोगद्वयाऽनुत्पत्तरिति चेत् ; मानसं सममुपयोगद्वयं युगपन्नेष्यते न इन्द्रियमानसे", कथमन्यथा न्या य वि निश्च ये*"सहभुवो गुणाः" इत्यस्य*"सुखमाह्लादनाकारं विज्ञानं मेयबोधकम् । [९६क ।
२० शक्तिः क्रियानुमेया स्यात् यूनः कान्तासमागमे ॥” इति निदर्शनं स्यात् ?
एतेन 'अक्षणिकज्ञानलक्षणसमारोपव्यवच्छेदात् क्षणिकानुमानं प्रमाणम्' इति निरस्तम् ; अक्षणिकज्ञानस्य समारोपत्वाऽसिद्धः, अश्वकल्पनायामपि तन्निवृत्स्यसिद्धेः इति । युक्त्यन्तरमाहस पुनः इत्यादि। सः अनन्तरोक्तः पुनः इति युक्त्यन्तरसूचकः, निश्चयः गोव्यवसायः विकल्पान्तरवद् ईश्वरादिविकल्पवत् यदि मानसः स्यात् तथा (तदा) अर्थस्य सन्निधिं योग्यदेशाद्य- २५ वस्थितिं न अपेक्षेत । अपेक्षते च, तन्न मानसमिति । अनेन 'अर्थसन्निध्यपेक्षणात्' इत्येतत् व्यतिरेकमुखेन व्याख्यातम् । उपसंहारार्थमाह-तस्मात् इत्यादि । यत एवं तस्माद् इदम् अनन्तरोक्तम् स्पष्टं विशदं व्यवसायात्मकं ज्ञानम् । कथंभूतम् ? स्वार्थसन्निधानान्वयव्यतिरे
(6) "अशुभाद्यालम्बना रागादिप्रतिपक्षभूता प्रज्ञा प्रतिसंख्यानम्"-तत्वस० ५० पृ० ५४७ । "तेम प्रज्ञाविशेषेण प्राप्यो निरोधः इति प्रतिसंख्यानिरोधः।"-स्फुटार्था०पृ०१६ । (२) अश्वकल्पनाकाले । (३) गोव्यवहारो। (१) गोविकल्पानुत्पत्तेः । (५) एकमिन्द्रियजन्यमपरं च मानसमिति । (६) "गुणपर्ययवद्व्यं ते सहक्रमवृत्तयः ।"-न्यायवि० १११११ (७) "यथोक्तं स्याद्वादमहार्णवे-सुखमाहलादनाकारम्..."-न्यायवि. वि. प्र. पृ० ४२८ । अष्टस. पृ० ७८ । न्यायकुमु० पृ० १२९ । सन्मति. टी० पृ० ४७८ । स्या. रत्ना० पृ. १७८ । प्र. रत्नमा० ४।८।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org