________________
११२
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः गृह्यते न प्रतिभासाद्वैतं तत्र बौद्धस्य विवादाभावात् , तस्य इव तद्वदिति । ननु अद्वैत-स्वलक्षणयोः अप्रतिभासेतरकृतो विशेषोऽस्ति अतः 'अद्वैतवत्' इत्ययुक्तमिति चेत् ; अत्राह-भेदाऽभावात् इति। भेदस्य विशेषस्य अभावात् स्वलक्षणस्यापि अप्रतिभासनादिति मन्यते । ततः सूक्तम्-'अद्वैतवत्' इति । अथ मतम्-तदद्वैतं यदि सुखादिनीलादिप्रतिभासात्मकं तर्हि साकारे सौगतदर्शने पुरुष इति ५ नाम कृतं भवेत् , अन्यथा अचेतनं नावभासते इत्यसत् , सुखादिनीलादिसत्त्वे च न तदद्वैतम् , तदसत्त्वे प्रकृतेऽपि तदस्तु इति; तत्रोत्तरमाह-विकल्पानाम् इत्यादि । विकल्पानां सुखादिनीलादिभेदानां भेदै कान्तेऽपि निरंशस्वलक्षणैकान्तेऽपि न केवलम् अद्वैते निःस्वभावतोपपत्तेः असत्वोपपत्तेः, अन्यथाप्रतिभासस्य तत्रापि भावादिति भावः, अन्यथा अनेकान्तसिद्धिः इत्युक्तम् ।
इदमपरं व्याख्यानम्-निरंशस्वलक्षणदर्शनानन्तरभाविनां विकल्पानां यथा स्थूलादिदू२० रादिभेदा विषयाः तथा निःकलपुरुषदर्शनानन्तरभाविनां तेषां सुखादिनीलादिभेदा विषयाः, तेषां
च विकल्पानां भेदैकान्तेऽपि निःस्वभावतोपपत्तेः । स्वः [९५क] आत्मीयः सौगतकल्पितो भावः पदार्थः तस्मानिष्क्रान्तानां भावः तत्र तस्या उपपत्तेः भेदाऽभावादिति सम्बन्धः । ततः सूक्तम्-'अविसंवादकज्ञानं विकल्पकमेव' इति ।
भवत्वेवं तथापि न तेत् प्रत्यक्षम् ; मानसत्वेन वैशद्यविरहात् , तथा चोक्तम्१५ *"न विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासिता ।
स्वप्नेऽपि स्मयते स्मात न च तत् ताहगर्थम् ॥"[प्र०वा० २।२८३] इति चेत् ; अत्राह-न चैतद् इत्यादि ।
[न चैतद् व्यवसायात्मप्रत्यक्षं मानसं मतम् ।
प्रतिसंख्याऽनिरोध्यत्वादर्थसन्निध्यपेक्षणात् ॥२५॥ २० न हीदं स्वार्थव्यवसायात्मकं मानसं प्रत्यक्षम्, गवि सन्निहिते मानसीं गोबुद्धि
विनिवर्त्य तदा अश्वकल्पनायामपि गोरेव विनिश्चयात् । स पुनः निश्चयः विकल्पान्तरवदर्थसनिधि नापेक्षेत । तस्मादिदं स्पष्ट व्यवसायात्मकं ज्ञानं स्वार्थसन्निधानान्वयव्यतिरेकानुविधायि प्रतिसंख्यानिरोध्यविसंवादकं प्रमाणं युक्तम् । ]
एतत् सुखादिनीलादिनि सिज्ञानम् । कथंभूतम् ? व्यवसायात्म निर्णयात्मकं मानसं २५ मनोनिमित्तम् न च नैव मतम् । कुत एतत् ? इत्यत्राह-प्रत्यक्ष (क्षम्) इति । प्रत्यक्षं विशदम्-इन्द्रियाश्रितं वा यत इदं तन्न मानसमिति । तदाश्रितं च अक्षान्वयव्यतिरेकानुविधायित्वात् अन्वादा (अन्धादा)वभावात् । तथापि मानसत्वे अस्य द्विचन्द्रदिज्ञानस्यापि मानसत्वमिति व्याहतमेतत्
*"किञ्चेन्द्रियं यदक्षाणां भावाभावानुरोधि चेत् । ३०
तत्तुल्यम् ।" [प्र. वा० २।२९६] इति । (१) पुरुषाद्वैतम् । (२) विकल्पकम् । (३) मानसो हि विकल्पो रागादिरूपः प्रतिसंख्यानेन प्रतिपक्षतत्त्वज्ञानेन निवर्त्यते । (४) विकल्पस्य । (५) "विक्रियावच्चेत् सैवेयं किन्निषिध्यते” इति शेषः ।
..
(१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org