________________
१२२४]
निर्विकल्पकनिरासः अनतिक्रमेण यथाप्रतिपत्रभिप्रायम् न पारमार्थिकम् इत्यभिप्रायः । अथवा, मरीचिकाजलवत् सत्याभिमतमपि जलं न परमार्थसत् , तथापि अत्र वासनादायन चिरं प्रतिभासानुगमेन 'सत्यमेतत् जलम् अर्थक्रियाकारित्वात् नेतरद् विपर्ययात्' इति तेषामभिप्रायः, तस्य अनतिक्रमेण यथाप्रतिपत्रभिप्रायम् । यदि वा, जाग्रद्दशावत् स्वप्नदशानामपि (दशायामपि) दृष्टस्य प्राप्तिः अविसंवादोऽस्ति इति तज्ज्ञानमपि प्रमाणं प्रसक्तम् , तथापि न तैया जातपरितोषा जन्तवो जायन्ते ५ इति न सा अर्थप्राप्तिः, जाग्रहशायां तु विपर्ययाद् भवति इति तेषामभिप्रायः तस्य अनतिक्रमण यथाप्रतिपत्रभिप्रायम् इति । नन्वेवमपि विकल्पकमविसंवादकं प्राप्तम् , तत्रैवास्य सद्भावादिति चेत् अत्राह-प्रमाणान्तराबाधितविषयम् इति । प्रमाणान्तरेण [९४क] अबाधितो विषयो यस्य तत् तथोक्तम् प्रमाणलक्षणम् इति । तत् पुनः अविकल्प एव संभवि न विकल्पे, सामान्यादेः प्रमाणान्तरेण बाधनादिति; तत्र दूषणमाह-अयुक्तम् इति । एतदपि प्रत्यक्षलक्षणमयुक्तम् । कुत १० एतत् ? इत्यत्राह-स्वमतव्याघातात् । 'अन्तर्बहिश्च सर्व क्षणिकं निरंशम्' इति बौद्धस्य स्वम् अत्मीयं मतं तस्य व्याघातात् । न हि क्षणिका निरंशाः परमाणवो दृष्टाः प्राप्ता वेति प्रतिपतॄणामभिप्रायोऽस्ति, यतः तस्यै अनतिक्रमेण तल्लक्षणं युक्तं भवेत् । यदि च यथाप्रतिपत्रभिप्रायं न पारमार्थिक तल्लक्षणं कुतः *"क्षणिकाः सर्वसंस्काराः" इत्यादिकस्य *"नान्योऽनुभाव्यो बुद्ध्यास्ति' इत्यादिकस्य च परमार्थतः सिद्धिः समयान्तरवत् ? प्रतिभासाद्वैतस्य निषिद्धत्वात् १५ निषेत्स्यमानत्वाच्च अनन्तरमेव । प्रमाणान्तराबाधितविषयत्वं च प्रमाणमविकल्पदर्शनमेवेति च चिन्तितम् ।
उपसंहारमाह-तस्मात् नायम् अविकल्पोऽनुभवः। कथंभूतः ? स्वलक्षणग्राही यथार्थनिर्भासम् अर्थनिर्भासाऽनतिक्रमेण व्यवसायपितु व्यवसायं कर्तुं न समर्थः अविसंवादको नाम किन्तु विसंवादक एव । ननु न व्यवसायकरणाद् अविसंवादकः अपि तु स्वलक्षणग्रहणात् । २० व्यवसायोऽपि "तद्ग्रहणात् नाऽपरः, जात्यादिप्रतिभासस्य इन्द्रियज्ञाने निषेधादिति चेत् ; अत्राहन च इत्यादि । न च नैव अविकल्पितेन अनिश्चितेन [९४ख] स्वभावेन स्वरूपेण स्वलक्षणस्य व्यवस्थापनं युक्तम् उपपन्नम् । अत्र दृष्टान्तमाह-अद्वैतवत् इति । पुरुषाद्वैतम् इह अद्वैतं
() “यत्र वासनादाढ्यं स जाग्रत्प्रत्ययः । (पृ०७२) झटित्येव स्वप्नदृष्टं नश्यति । वासनादायमेतत् न त्वर्थ एव साधयितुं शक्यः ।"-प्र. वार्तिकाल. पृ० ३६० । (२) स्वमज्ञानमपि । (३) स्वप्ने दृष्टप्राप्त्या। (४) अभिप्रायस्य । (५) प्रत्यक्षलक्षणम् । (६) "तत्रेदमुक्तं भगवता-"क्षणिकाः सर्वसंस्काराः स्थिराणां कुतः क्रिया । भूतियेषां क्रिया सैव कारक सैव चोच्यते ॥"-तत्त्वसं० प.पृ०११। बोधिच. प.पृ० ३७६ । तन्त्रवा० पृ० १२० । "क्षणिकाः सर्वसंस्काराः विज्ञानमात्रमेवेदं भो जिनपुत्राः यदिदं त्रैधातुकम्"-सन्मति० टी० पृ. ७३१ । (७) "नान्योऽनुभाव्यस्तेनास्ति तस्या नानुभवोऽपरः । तस्यापि तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते ॥-प्र. वा. २१३२७ ।" "बुद्ध्यास्ति'"ग्राह्यग्राहकवैधुर्यात् स्वयं..." ति पाठभेदेन उद्धृतोऽयम्-प्रश. व्यो. पृ० ५२५। न्यायम. पृ. ५४० । त. श्लो. पृ. १२७। आप्तप. पृ० ४७ । अष्टस. पृ० ११०। मी० श्लो० टी० पृ० २७५। शास्त्रदी० पृ० १९५। प्रमेयक. पृ. ९० । न्यायकुमु० पृ. १३३ । न्यायवि०वि० प्र० पृ. २५१ । सन्मति० टी० पृ०४८३ । स्या. रत्ना० पृ० १५० । स्या० म० पृ० १३९। सर्वद० सं० पृ. ३१ । शास्त्रवा० टी० पृ. १७४ । (6) मतान्तरवत् । (९) मास्तु सिद्धिः, प्रतिभासाद्वैतोपगमादित्युक्ते प्राह । (१०) स्वलक्षणग्रहणात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org