________________
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
स्यान्मतम् - अविकल्पं दर्शनं यद्यपि क्षणक्षयादौ विसंवादकं ' तथापि नीलादिसुखादौ संवादकमिति भागाऽसिद्धो हेतुरिति । एतदेव पेर: दर्शयन्नाह - ननु इत्यादि । ननु इति वितर्के । अविकल्पं च सुखादिनीलादिनिर्भासिज्ञानम् अविसंवादकम् । तत्रोत्तरमाह - न च इत्यादि । न च नैव तत् सुखादिनीलादिनिर्भासिज्ञानम् अविसंसादकं निर्विकल्पकम् । किं तर्हि तत् ? इत्य५ त्राह - अपि तु विकल्पकमेव इति । कुत एतत् ? इत्यत्राह - व्यवसायात्मकत्वात् । वस्तुसत्सामान्यविशेषात्मकार्थनिर्णयात्मकत्वात् । न चान्यस्यै अविसंवादकत्वधर्मः अन्यस्य इति परिकप्य भागासिद्धता हेतोः परिकल्पयितुं शक्या, अन्यथा क्वचित् शब्दादौ सामान्यादिप्रसिद्धम् असत्त्वादिकं परिकल्प्य तथा तदपि भागाऽसिद्धम् उद्भावनीयं भवेत् । तद् विकल्पकमिति कुतोऽवगम्यते इति चेत् ? अत्राह - तद् इति । तस्य सुखादिनीलादिनिर्भासस्य अविसंवादिनः प्रत्यक्षस्य १० निर्विकल्पकत्वे अङ्गीक्रियमाणे क्षणक्षयादिनिर्भासवत् साधनान्तरमपेक्षते 'प्रत्यक्षम् ' इ विभक्तिपरिणामेन सम्बन्धः । कुत एतत् ? इत्यत्राह - [ अ ] निश्चयादिवत् ( दिति) सुखादि[९३क] स्वभावस्य प्रत्यक्षेण अनिश्चयादिति । न च तदपेक्षते ततो वि [कल्प ] कमेवेति ।
ननु यदि नाम साधनान्तरमपेक्षते अविकल्पकं दर्शनं नैतावता विसंवादकं साधनान्तरानुग्रहेण सुतरामविसंवादकत्वसिद्धेः आगमवत् । कल्पनापोढाऽभ्रान्तदर्शनमिति चेत् ; अत्राह१५ कल्पनापोढम् इत्यादि । कल्पनापोढमभ्रान्तमपि । अपिशब्दः संभावनार्थ उभयत्र सम्बन्धनीयः । दर्शनेऽपि * " तथा च सति स्वार्थ" [सिद्धिवि० १।२३] इत्यादिना कल्पनायाः *“अन्तःस्वलक्षणस्य द्वयनिर्भासप्रतीतेः " [सिद्धिवि० ] इत्यादिना च विभ्रमस्य व्यवस्थापितत्वात् दर्शनं विसंवादयत्येव । कुत एतत् इत्यत्राह-यथा [दर्शनमिति ] दर्शनाऽनतिक्रमेण यथादर्शनम् निर्णयस्य अयोगात् । यदि यथादर्शनं निर्णयः स्यात् तर्हि तदनुग्रहात् तद्विसंवादकं नितरां भवेदिति युक्तम्, न चैवमस्ति इति मन्यते । नचैर्तन्निर्विकल्पकमविसंवादकम् इति । अत्रैव युक्त्यन्तरमाह - विशेष इत्यादि । विशेषाकारेण सजातीयेतर विलक्षणाकारण चक्षुरादिबुद्धीन् (बुद्धौ ) अर्थानां सुखादिनीलादीनाम् अनवभासनात् कारणात् न चैतत् निर्विकल्पकमविसंवादकम् इति संबन्धः अपि तु विकल्पकमेव इत्यत्रापि तदाह - सामान्य इत्यादि । सामान्याकारेण, च शब्दः विशेषाकारेण इत्यस्य समुच्चयार्थः, व्यवसायाऽनिर्णयात् चक्षुरादिबुद्धौ अर्थानाम् अपि तु 'विकल्पकमेव ' इति पघटना [९३ख] ।
२०
ननु 'अविकल्पकं च सुखादिनीलादिनिर्भासिज्ञानम् अविसंवादकम्' इत्यस्य साधिकां परस्य युक्तिं प्रदर्श्य दूषयन्नाह - यथाप्रतिपत्रभिप्रायम् इत्यादि । प्रमाणस्य लक्षणम् अविसंवादकत्वम् *"प्रमाणमविसंवादि ज्ञानम्" [ प्र०वा० १।२] इति वचनात् । कथंभूतं तत् ? इत्यत्राह-यथाप्रतिपत्रभिप्रायम् दृश्यप्राप्ययोर्ने कत्वम्, अन्यथा दृश्यमेव प्राप्यमेव वा स्यात् । तथापि तयोरेकत्वाध्यवसायाद् 'यदेव दृष्टं तदेव प्राप्तम्' इति प्रतिपतॄणाम् अभिप्रायः तस्य
३०
२५
११०
(१) क्षणिकांशे समारोपव्यवच्छेदाभावात् । (२) बौद्धः । (३) विकल्पस्य । ( ४ ) निर्विकल्पक - दर्शनस्य । (५) साधनान्तरापेक्षणमात्रेण । (६) दर्शनम् । (७) चेतनेतराणाम् । (८) "केवलं दृश्यविककीकरणमात्रेण व्यवहारमात्रमेतत् । " - प्र० घार्तिकाल० पृ० ३९८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org