________________
१०५
११२४
निर्विकल्पकनिरासः यत्पुनः-*"यत्रैव जनयेदेनाम् अनुमानबुद्धिं तत्रैवास्य प्रमाणता" इति व्याख्यानम् ; तदप्यतेन निराकृतम् ; भाविमरणसंबन्धिविषाकारविशेषलिङ्गदर्शनस्य सजातीय[९१ख]स्मरणस्य च अनुमानहेतोः अत्रापि कदाचिद् भावात् अनुमानजननादपि प्रमाणं स्यात् । न चैवम् , अतो विषदर्शनवदज्ञस्य सर्व[मवि] कल्पकदर्शनमप्रमाणमिति । ननु कल्पनात्मकमपि विषस्य अन्यस्य च अभ्यासदशायो दर्शनं प्रमाणं दृश्यते, ततः सर्वं दर्शनमप्रमाणमिति वदतो दृष्टबा- ५ धनमिति चेत् ; अत्राह-अविसंवादहानितः इति । अभ्यासदशायां प्रतिपरमाणुनियतं दर्शनं प्रमाणम् इति यः अविसंवादः अविप्रतिपत्तिः तस्य हानितः सर्वं दर्शनं न प्रमाणमिति । यदि वा, दृष्टस्य परमाणुमात्रस्य अप्राप्तेः तद्धानितः इति व्याख्येयम् ।
विषदर्शनं सोपहासं व्यतिरेकमुखेन विवृण्वन्नाह-विषम् इत्यादि । विषम् आलोक्य दर्शनविषयीकृत्य तत्र प्रमाणयति प्रमाणमाचष्टे। किम् ? इत्यत्राह-अज्ञ इव इति । अज्ञो व्याख्यातः १० स इव अव्युत्पन्नः अव्युत्पत्तिसंशयविपर्यासः (यस्तः) सौगत इत्यभिप्रायः । तत्र चोक्तं दूषणम् । किं पुनर्न प्रमाणयति ? इत्यत्राह-न पुनः इत्यादि । व्यवसायात्मकं प्रमाणं प्रमाणयति न पुनः। कथम्भूतं तत् ? इत्यत्र (बाह-) 'अविसंवादकम्' इति । *"प्रमाणमक्सिंवादिज्ञानम्" [प्र०वा० १।३] इति एवं लक्षयति च अवधारयति च इति हेतोः विपरीतलक्षणप्रज्ञो देवानाप्रियः। यत् प्रमाणं तदविसंवादकं न भवति, [९२क] यच्च अविसंवादकं तत् प्रमाणं न वेत्ति इलि १५ मन्यते । मा भूत् तर्हि विषदर्शनं प्रमाण व्यवसायात्मकं वा ज्ञानमविसंवादकमपि सुंदकमपि (?) तु दर्शनमिति चेत् ; अत्राह-सर्वमेव इत्यादि । अनेन शेषमन्वयमुखेन व्याचष्टे-सर्वमेव निरकशेषमेव दर्शनम् । कथम्भूतम् ? अविकल्पकम् अज्ञस्य संबन्धि । केन प्रकारेण ? कथं प्रत्यक्ष प्रमाणं न [कथं] चित् । पुनरपि कथम्भूतम् ? इत्यत्राह-विसंवादकं विसंवादकत्वात्' इति गम्यते यथा 'सद् अनित्यम्' इत्युक्ते सत्त्वादिति । कस्य किमिव तत्तथाषिधम् ? इत्यत्राह- २० अज्ञस्य विषदर्शनमिव इति । तथा च प्रयोगः-सर्वमेव अविकल्पं दर्शनं न प्रमाणं विसंवादकत्वाद् अज्ञस्य विषदर्शनवत् इति यदुक्तं परेण-*"विवादगोचरमविकल्पं दर्शनं प्रत्यक्षं प्रमाणम् अविसंवादकत्वात्" इति; तत्र हेतोविरुद्धतां दर्शयन्नाह-व्यवसायात्मकस्यैव इत्यादि। व्यवसायात्मकस्यैव नान्यस्य इति एवकारार्थः । निगदितं विना अविसंवादकत्वोपपत्तेः ।
____ ननु यदुक्तं 'सर्वमेव' इत्यादि; तत्र असिद्धो हेतुः; तथाविधदर्शनस्यैव अविसंवादभावा- २५ दिति चेत् ; अत्राह-तद् इत्यादि । तस्य व्यवसायात्मनो विज्ञानस्य य इतरः अन्यः तस्य विसंवादात् । केन कृत्वा ? इत्यत्राह-अव्यवसायात्मकत्वेन अवस्तुनिरंशैकान्तगोचरत्वेन ।
ननु 'अव्यवसायात्मकं दर्शनं विसंवादकम् अव्यवसायात्मकत्वेन' [९२ख] इत्युच्यमाने 'अनित्यः शब्दः शब्दत्वात्' इत्यादिवत् प्रतिज्ञाताथैकदेशाऽसिद्धो हेतुरिति चेत् ; आस्तां तावदेतत् , उत्तरत्र अस्य विचारयिष्यमाणत्वात् ।
(6) अज्ञस्य विषदर्श नेऽपि । (२) अविसंवादहानितः । (३) 'तु दकमपि' इति पुनलिखित निरर्थकञ्च।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org