________________
सिद्धिविनिश्वयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
नुमानानुदयात् ] कुतः स्वयं तत्त्वमवबुध्येत परं वा बोधयेत् ? स्वसंवेदनाध्यक्षस्य अनंशस्य विवादगोचरापन्नत्वात् । तदयं भाव्यनुमानम् अप्रतियन्नपि लिङ्गस्य तद्धेतुतामवैति न पुनः तथाविधं सुखादिकम् अप्रतिपन्नौदनादे: (अप्रतियन् ओदनादेः) तद्धेतुतामि [च्छती ]ति स्वेच्छावृत्तिः । कथं प्रवर्त्तते इति चेत् ? अत्राह - सङ्कर इत्यादि । [ ९१क ] यस्य प्राप्तिः तस्य परिहारः यस्य परिहारः ५ तस्य प्राप्तिः इति सङ्करः, प्राप्तिविषये परिहारः परिहारविषये च प्राप्तिरेव व्यतिकरः, तयोः व्यतिरेकेण अभावेन यतो यस्मात् ततः 'यतः प्रभृति' इत्यादि सुस्थम् ।
अत्र अपरः सौगतः प्राह - * " यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता " इति धर्मोतरस्य मतमेतत् । तच्च ययैव युक्त्या अस्माभिर्निरस्तं तयैव जैनैः इति सिद्धोपस्थायित्वं तेषाम्, दर्शनं तु विकल्पनिरपेक्षं प्रमाणम् । यद्यप्रमाणं विकल्पः कथं दर्शनेन अपेक्ष (क्ष्य) ते ? प्रमाणत्वे * १० प्रमाणसंख्याव्याधात इति । तत्रोत्तरमाह - विषदर्शनवद् इत्यादि ।
१०८
विषमालोक्य तत्र अज्ञ इव प्रमाणयति न पुनः व्यवसायात्मकं प्रमाणमविसंवादकमिति लक्षयति चेति विपरीतलक्षणप्रज्ञो देवानांप्रियः । सर्वमेव दर्शनमविकल्पकं कथं १५ प्रत्यक्षं विसंवादकं अज्ञस्य विषदर्शनमिव । व्यवसायात्मकस्यैवाविसंवादकत्वोपपत्तेः । तदितरस्याव्यवसायात्मकत्वेन विसंवादात् । ननु अविकल्पकं सुखादिनीलादिनिर्भासिज्ञानमविसंवादकम् ; न च तदविसंवादकम् अपि तु विकल्पकमेव व्यवसायात्मकत्वात् । तदविसंवादिनः प्रत्यक्षस्य निर्विकल्पकत्वे क्षणक्षयादिवत् साधनान्तरमपेक्षते अनिश्चयादिति। कल्पनापोडमभ्रान्तमपि दर्शनं विसंवादयत्येव यथादर्शनं निर्णयायोगात् । विशेषाका - २० रेण अर्थानामनवभासनात् सामान्याकारेण च व्यवसायानिर्णयात् । यथाप्रतिपत्रभिप्रायं प्रमाणलक्षणमविसंवादकत्वं प्रमाणान्तराबाधितविषयमयुक्तं स्वमतव्याघातात् । तस्मान्नायमविकल्पोऽनुभवः स्वलक्षणग्राही यथार्थनिर्भासं व्यवसाययितुं समर्थोऽविसंवादको नाम । न चाविकल्पितेन स्वभावेन स्वलक्षणव्यवस्थापनं युक्तमद्वैतवदिति भेदाभावात् । विकल्पानां भेदैकान्तेऽपि नि:स्वभावतोपपत्तेः । ]
२५
[ विषदर्शनवदज्ञस्य दर्शनमविकल्पकम् । न स्यात्प्रमाणं सर्वमविसंवादहानितः ||२४||
अज्ञानस्य (अज्ञस्य) विषे अव्युत्पत्तिसंशय विपर्यासोपेतस्य संबन्धि यत् विषदर्शनं स्वानुभूते वस्तुनि संशयविपर्ययकारि अकिञ्चित्करं वा तदिव विषदर्शनवत् इति, सर्वं चतुर्विधमपि, यदि वा सर्वम् अनभ्यासजमिव अभ्यासजमपि दर्शनं न प्रमाणं स्यात् भवेत् । कथम्भूतम् ? अविकल्पकम् * “अभिलापसंसर्गयोग्यप्रतिभासा प्रतीतिः कल्पना " [ न्यायवि० १।५] तदात्मकं न भवति निरंशार्थविषयमित्यर्थः । अत्रायमभिप्रायः - यदि विकल्प३० निरपेक्षं स्वतन्त्रं दर्शनं प्रमाणम् ; हन्त तर्हि विषाऽज्ञस्य विषदर्शनं तथाविधमनिवारितमिति तदपि प्रमाणं स्यात् । तथा च सति सन्देहादेः न कस्यचिद् विषे प्रवृत्तिः इति ।
(१) अनुमानकारणताम् । (२) बौद्धविशेषैः । (३) जैनानाम् । (४) विकल्पस्य । (५) कल्पनारहितम् ।
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International