________________
११२३]
निर्विकल्पकनिरासः
१०७
तर्कः, ततोऽपि 'इत्थं चेदं तस्मात् पूर्ववत् विवक्षितकार्यकारि' इत्यनुमानम्, अतः 'पुरुषस्य प्रवृत्ति: ' इति । वक्ष्यते चैतदत्रैव-* " अक्षज्ञानैरनुस्मृ [त्य" ] [ सिद्धिवि० १।२७] [३] त्यादिना ।
यत्पुनरेतत्- 'प्रवृत्तेः फलभावेन असत्त्वान्न कस्यचित् कुतश्चित् प्रवृत्तिः' इति; तद् युगपदिव च क्रमेणापि चित्रकज्ञान [ ९०क] संभवेन प्रत्यक्षबाधितमिति । ननु मृगतृष्णादिजलज्ञानादपि पुरुषप्रवृत्तिरस्तीति तस्यापि मुख्यतः प्रमाणत्वोपपत्तिः स्यादिति चेत्; अत्राह - - प्रेक्षापूर्विका इति । प्रकृष्टा संशयादिरहिते [क्षा ] दर्शनं पूर्व कारणं यस्याः सा तथोक्ता सम्यग्ज्ञानपूर्विका इति यावत्, विभ्रमसर्वविकल्पातीतत्वाद्ये कान्तनिषेधात् ।
५
ननु निर्विकल्पकदर्शनादेव तथा पुरुषप्रवृत्तिः, अतः तस्यैव मुख्यतः प्रमाणतोपपत्तिः ।
तदुक्तम्
*" तद्दृष्टावेव दृष्टेषु संवित्सामर्थ्यभाविनः ।
स्मरणादभिलाषेण व्यवहारः प्रवर्त्तते ।।" [प्र० वार्तिकाल० पृ० २४ ]
इति चेत् ; अत्रा - स्वेक्षित इत्यादि । स्वेक्षिते स्वानुभूते वस्तुनि अन्यानपेक्षस्य व्यव - सायात्मनो विज्ञानस्य, अंत एव स्मरणादिः नान्यत इति मन्यते । उक्तं चैतदत्रैव - " व्यवसायात्मनो दृष्टेः " [सिद्धिवि० १।४] इत्यादिना ।
स्यान्मतम्-भवतु व्यवसायात्मनो विज्ञानाद् आदितः प्रेक्षापूर्विका पुरुषप्रवृत्तिः तथापि १५ न तस्यै मुख्यतः प्रमाणतोपपत्तिः अवस्तुसामान्यविषयत्वेन विसंवादकत्वात् । तदुक्तम्- "विकपोऽवस्तुनिर्मासो विसंवादादुपप्लवः ।" इति चेत ; अत्राह - अविसंवाद इत्यादि । अविसंवादस्य एकम् अन्यनिरपेक्षं भवनं यस्मात् तस्य विकल्पविषयस्य च तत्त्वतो वस्तुत्वादिति भावः । एतदर्थमेवेदं स्वेक्षित इत्यादि ।
अत्र चोद्यते-व्यवसायात्मनो नातीते पुरुषप्रवृत्तिः तस्य अनुभूतत्वात्, न वर्तमाने [अनु- २० भूयमानत्वात् ] । नहि सुखादौ अनुभूयमाने कश्चित् प्रवर्त्तते "प्रवृत्तेरनवस्थाप्रसङ्गात् । न भाविनि; प्रत्यक्षतः तदप्रतिपत्तेः न [ ९०ख ] क्वचित् पुरुषप्रवृत्तिरिति । तत्रोत्तरम् - यतोऽयम् इत्यादि । अयं चोद्यकारः प्रज्ञा कर गुप्तः अन्यो वा प्रवर्त्तेत तथा विचारं कुर्वन्नपि न तिष्ठेत् । कथम्भूतः ? अस्खलद्वृत्तिः । एतदुक्तं भवति - यद्ययं प्रेक्षाकारी नियमेन प्रवृत्तिविषयं नास्ति इति पश्येत् न तत्र नित्यवद् अस्खलद्वृत्तिः प्रवर्त्तेत, न चैवं । सुपरीक्षक विचारं कुर्वन्नपि न तिष्ठेत् २५ कथंभूतः अस्खलद्वृत्तिः । एतदुक्तं भवति । सुपरीक्षकस्यापि जलादौ प्रवृत्तिदर्शनात् अतः तत्कारी तद्वेषी चेति उपेक्षामर्हति इति । क्व प्रवर्त्तेत इति चेत् ? अत्राह - हित इत्यादि । निमित्तयोः द्विवचनमेतत् तेन हितस्य ओदनादेः प्राप्तौ प्राप्तिनिमित्तम् अहितस्य विषादेः परिहारे परिहारनिमित्तम्। न चैतञ्च्चोद्यम्-सुखदुखयोरप्रतिपत्तौ न तँत्कारि हितमहितं वा ज्ञातुं शक्यत इति; तथा अनुमानाऽप्रतिपत्तौ न लिङ्गस्य तद्धेतुत्वं प्रतीयते इति न तदर्थी तंत्रापि प्रवर्त्तेत तोनुदयात् [ अतोऽ- ३०
1
(१) प्रेक्षापूर्विका । (२) व्यवसायात्मकज्ञानादेव । (३) व्यवसायस्य । (४) उद्घृतोऽयम् - प्रश० कन्द० पृ० १९० । प्रमेयक० पृ० ३१ | सन्मति० टी० पृ० ५०० । स्यायवि० वि० प्र० पृ० ३१४ । स्या० रत्ना० पृ० ३२ । धर्मसं० पृ० १३४ । ( ५ ) प्रवृत्तिरपि अनुभूयमाना, अतस्तत्रापि प्रवृत्तिर्भवेदिति प्रवृत्यनवस्था । (६) ९ एतदन्तर्गतः पाठो द्विर्लिखितः । (७) सुखकारि । (८) अनुमानार्थी । (९) लिङ्ग ।
For Personal & Private Use Only
१०
Jain Education International
www.jainelibrary.org