SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ १०६ सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः ननु मा भूत् नैयायिकादिदर्शनं प्रत्यक्षं सत् प्रमाणं स्वग्रहणसामर्थ्यवैधुर्येण घटादिवदचेतनत्वात्' न सौगतदर्शनं तंत्सामर्थ्यभावेन चेतनत्वादिति [चेत् ; अत्राह-] चेतनत्वेऽपि इत्यादि। अपि[:] संभावनायाम् , भावतः तत्र चेतनत्वासिद्धेः, तस्मिन्नपि । 'स्वयमनुभूतस्यापि सर्वथा [८९क] 'अननुभूतकल्पत्वात्' इति सम्बन्धः । अत्र निदर्शनमाह-सुषुप्तादिवत् ५ इति । चिन्तितमेतत् । ननु भावत एव तत्र चेतनत्वे कुतः कारणादुच्यते-'चेतनत्वेऽपि' इत्येतदिति चेत् ; अत्राह-स्वविषयीकृत इत्यादि । स्वेन आत्मना विषयीकृते अनुभूते वस्तुनि क्षणिकादिनीलादिरूपे परकल्पिताद् दर्शनप्रमाणात् अनुमानं विकल्पश्च तदन्त तदपेक्षित्वात् कारणात् 'चेतनत्वेऽपि' इत्युच्यते इति । ननु प्रमितिसाधकं प्रमाणम् , सी च नीलादौ दर्शनादेव जातेति तत्र विकल्पः प्रमाणमेव न भवति किमुच्यते तदन्तरम्' १० इति चेत् ; अत्राह-तद् इत्यादि । तदपेक्षणीयस्यैव क्षणिकत्वादौ अनुमानस्यैव नीलादौ विकल्पस्यैवं प्रमाणं (प्रामाण्यं) प्रमितिं प्रति साधकतमत्वोपपत्तेः । तस्यैव 'प्रामाण्यम्' इति मन्यते। अथ प्रमितिं प्रति साधकतमस्य विकल्पस्य हेतुत्वाद् दर्शनमपि तां प्रति साधकतममुच्यते । तदुक्तम् अर्च टे न-*"पक्षधर्मतानिश्चयः प्रत्यक्षाज्जायते इति पक्षधर्मतानिश्चयः प्रत्यक्षत इत्युच्यते" इति । तत्रोत्तरमाह-तत्कारणत्वेऽपि इत्यादि। *"अभेदात् सदृशस्मृत्याम्" १५ [सिद्धिवि० १।६] इत्यादिवचनात् दर्शनस्य विकल्पकारणत्वं नास्ति, अत एव 'तत्कारणत्वेऽपि' इति, अपिशब्दः संभावनायाम् । सन्निकर्षादेरिव तद्वत् मुख्यतः प्रमाणतानुपपत्तेः [न] अविकल्पदर्शनं प्रमाणम् । उपचारतः तदुपपत्तिः स्यादिति चेत् ; अत्राह-उपचारत इत्यादि । उपचारात् सन्निकर्षादेः [८९ख] 'प्रमाणम्' इति प्रकारेण व्यपदेशाविघातात् । ननु व्यवहारे अन्यत् प्रत्यक्षं प्रमाणं नास्ति, अविकल्पदर्शनस्यैव मुख्यतः प्रमाणतोपपत्तिः २० इति; अत्राह-यतः इत्यादि । प्रभृतिशब्दोऽयम् आद्यर्थो रिसंज्ञिसंज्ञः (घिसंज्ञः) । ततोऽयमर्थः यतः [प्रभृति] यस्मात् आदितः विज्ञानात् पुरुषस्य प्रवृत्तिः तस्य व्यवसायात्मनः विज्ञानस्य मुख्यतः प्रमाणत्वोपपत्तिः नाऽविकल्पदर्शनं प्रमाणम् इति प्रभृतिशब्देन एतद्दर्शयति-पूर्वमकस्मात् सुखहेतोः दुखहेतोर्वा दर्शने ततः सुखाद्यनुभवने च [न] पुरुष एवमवगच्छति इदं मे सुख साधनं दुःखसाधनं वा । २५ यत्पुनरत्रेदं चोद्यम्-सुखादिसाधनदर्शनकाले न सुखादिवेदनम् , तत्काले च न तत्साधन वेदनम् , तत् कुतः सुखादिसाधनयोः हेतुफलभावप्रतीतिरिति ? तत् *"प्रतिभासैक्यनियमे" [सिद्धिवि० १११०] इत्यादिना निरस्तम् । ततः "तदवगमात् तस्य संस्कारः, पुनः कालान्तरे तस्य तज्जातीयस्य वा दर्शनात् संस्कारप्रबोधे तत्र स्मृतिः, ततः 'तदेवेदं तत्सदृशम्' इति वा प्रत्यभिज्ञा, अतोऽपि 'यदित्थं तद् इयता कालेन सामग्रीविशेषेण वा इत्थंभूतकार्यकारि'इति चिन्ता (१) अस्वसंवेदित्वादित्यर्थः। (२) स्वसंवेदित्वेन । (३) निर्विकल्पके । (१) प्रमितिः। (५) गृहीतग्राहित्वादित्यर्थः । (६) प्रत्यक्षपृष्ठभाविनो 'नीलमिदम्' इति विकल्पस्यैव । (७) प्रमितिम् । (८) "पक्षधर्मस्य साध्यधर्मिणि प्रत्यक्षतोऽनुमानतो वा प्रसिद्धिः निश्चय इति"-हेतुबि०, टी० पृ० ३९ । (९) सुखादिवेदनकाले च । (१०) अनुभवात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004038
Book TitleSiddhi Vinischay Tika Part 01
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages686
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy