________________
१।२३] निर्विकल्पकनिरासः
१०५ पत्तिवत् स्वरूपव्यवसायम् आत्मनिर्णयमन्तरेण विषयस्य स्वार्थलक्षणस्य व्यवसायानुपपत्तिश्च उक्ता । अनेन *"अङ्गीकृतात्मसंवित्तेः" [ सिद्धिवि० १।१८] इत्यादिना परहृतं चोद्यं कृतमिति दर्शयति ।
उक्तमर्थमुपसंहरन्नाह-तन्नायम् इत्यादि । यत एवं 'स्वपरविषयप्रमाणाभिमतविज्ञानस्य' इत्यादि 'सुप्तत्वाविशेषप्रसङ्गात्' इत्यन्तं च व्यवस्थितं तस्मात् नायम् एकान्तो वः संवित्तिः ५ बुद्धिः सर्वा निरवशेषा सर्वज्ञशन्तिवद (सन्ततिवद)न्यापि स्वरूपम् आत्मानं वेदयत्ये[व] वेदयति तस्य किञ्चिन्न वेदयति इत्येवकारार्थः। कथम्भूता ? इत्यत्राह-संवित्स्वभावापि सती इति । यदुक्तं ध मो त्तरे ण-*"द्विविधा भ्रान्तिः-लौकिकी द्विचन्द्रादिग्रहणात्मिका । शास्त्रीया च ग्राहकसंवित्तिभेदलक्षणात्मिका च" तस्या अभावप्रसङ्गात् । तथाहि-सच्चेतनादिस्वरूपवत् तद्विभ्रमविवेकमपि यद्यात्मनः सौ वेदयति कुतः तद्भ्रान्तिः ? इतरथा नील- १० ज्ञानस्य पीते सा भवेत् । एतेन लौकिकी भ्रान्तिनिरस्ता; तस्या ग्राह्याकाराभावे अभावात् , तन्निबन्धनत्वात् ।
अत्रापरः प्राह-भ्रान्तरेभावो न दोषाय सौगतस्य तदभ्युपगमादिति ; तन्न; यथाप्रतिभासं तत्त्वोपगमे जैनदर्शनप्रसङ्गात् । तथा च सति भवतः किं सिद्धम् ? इत्यत्राह-व्यवसाय इत्यादि । 'तन्नाध्यमेकान्तः' इत्येतदत्रापि अनुवर्तते । ततोऽयमर्थ-यतः परकीया संवित्तिः एवंविधा तत् १५ तस्माद् व्यवसायात्मक [त्वात् ] इति हेतोरेव वासंवित्तिः स्वरूपं विषयरूपत्वात् सर्वथा व्यवस्यति इत्ययं नैकान्तः 'भ्रान्तेरभावप्रसङ्गात्' इति सम्बन्धः । यथैव हि वैशेषिकस्य संवित्तिः व्यवसायात्मिका 'अयम्' इत्येवं परामृश्यमानं धर्मिणं व्यवस्यति तथैव यदि तस्य स्थाणुत्वपुरुषत्वयोः अन्यतरविवेकं स्वभावभूतम् , अन्यथा स्वभावाव्यवस्थाप्रसङ्गात् , व्यवस्यति'; कुतः संशयादिव्यवस्था अतिप्रसङ्गात् ? एवं सर्वस्य एकान्तवादिनः आत्मनैकवाक्यतां समर्थितामुपसंहर- २० न्नाह- तथा च तेन प्रकारेण च सर्वैक[८८ख]वाक्यभावे स्वं च अर्थश्च स्वो वा अर्थः तयोः तस्य वा अनुभवाश्च (वश्च) इतरश्चाऽननुभवः तावेव स्वभावौ लक्षणं स्वरूपं विभ्राणं दधानम् । किं तत् ? विज्ञानम् । एतत् सौगतमुद्दिश्य उक्तम् , स्वपररूपव्यवसायेतरस्वभावं वा स्वपररूपयोः व्यवसायो निर्णयः इतरोऽनिर्णयः तावेव स्वभावः स्वरूपं तं वा विभ्राणम् । एतत् वैशेषिकमुद्दिश्य कथितम् । तद् अनेकान्तमन्तरेण कथं न कथञ्चिद् उपपनीपद्येत । २५
उपसंहारमाह-तद् इत्यादिना । यत एवं तत् तस्मात् अविकल्पदर्शनं न विद्यते विकल्पः स्वपररूपव्यवसायो यस्य सौगतादिकल्पितदर्शनस्य तत् तथोक्तम् , न स्वपरभाबयोः प्रत्यक्षं सत् प्रमाणम् । कुत एतत् ? इत्यत्राह-स्वयम् इत्यादि । स्वयम् आत्मना अनुभूतो गृहीतो यः स्वभावः स्वरूपम् स्वो वा भावो ग्राह्यः पदार्थात्मा, तस्यापि न केवलमन्यस्य सर्वथा क्षणिकादिप्रकारेणेव नीलादिप्रकारेणापि । यदि वा, विकल्पानुभवान्तराभावापेक्षाभावप्रकारेणेव तदपेक्षाप्रकारे- ३० णापि अननुभूतकल्पत्वात् ।
(१) इति प्रारभ्य । (२) एतत्पर्यन्तम् । (३) भ्रान्तिः । (४) ग्राह्याकारनिबन्धनत्वात् । (५) चेत् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org