________________
१०४
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः सृष्णादिज्ञान तोयादिविभ्रमस्य मानसत्वोपगमादिति; न; तत्र ज्ञानद्वयानुपलक्षणात् । तथापि संस्कल्पनेऽप्युक्तम् । शक्यं हि वक्तुम्-चन्द्रमेकं पश्यतोऽपि द्विचन्द्रभ्रान्तिरिति इत्यादि । ननु मृगतृष्णाज्ञानेन शुक्लादिस्वभावाग्रहणात् कथं तत्र तदविसंवादो यतः कथञ्चित् प्रमाणं स्यादिति
चेत् ? अत्राह-अन्यथा इत्यादि । अन्यथा उक्ताभावप्रकारेण तद्दर्शिनो मृगतृष्णादिसलिल५ दर्शिनः पुरुषस्य सुप्तत्वाऽविशेषप्रसङ्गात् कथञ्चित् तस्य प्रामाण्य प्रतिष्ठापयितुं युक्तम् । दृश्यमानस्यापि शुक्लादिस्वभावस्य अदर्शनकल्पने सलिलादिप्रतिभासे कः समाश्वास इति ? दृष्टान्तद्वयस्य किं प्रयोजनमिति चेत् ? उच्यते-यदा एकस्मिन्नपि विज्ञाने तस्मिन् सलिलादिप्रतिभासं परोऽभ्युपगच्छति न शुक्लादिप्रतिभासं तदा उक्तन्यायेन सलिलादिप्रतिभासस्यापि निह्नवात् सुप्तेन
अस्वप्नदर्शिनोऽविशेषप्रसङ्गात् इत्युच्यते । यदा पुनः शुक्लादिस्वभावविषयमविकल्पं दर्शनं १० विशदं सलिलादिगोचरं पुनः सविकल्पमपि विशदं मानसं ज्ञानमभ्युपगच्छति, तदा निर्विकल्प
कस्य सतोऽप्य[८७क]नुपलक्षणाद् अस्पष्टसलिलादिज्ञानस्या सत्त्वेऽपि भावात् अन्येनाऽविशेषप्रसङ्गाद् इत्यभिधीयते । अथ स्वसंवेदनाध्यक्षनिर्णयविचारप्रस्तावे न उपयोगः चक्षुरादिज्ञानस्य येन तदत्र विचार्यते इति, स्वरूपे स्वसंवेदनाध्यक्षं कथञ्चिदेव न सर्वथा इत्यत्र निदर्शनार्थम् । अत एवोक्तम्-स्वभावे वा परभावे वा इत्यर्थः । १५ साम्प्रतं ज्ञानान्तरवेद्यज्ञानैकान्ते यद् दूषणं सौगतस्य प्रसिद्धं तदेव- *'यत्रैव जनये
देनां तत्रैवास्य प्रमाणता" इत्यत्रापि प्रदर्य स्वतः स्वरूपव्यवसायात्मकं सर्वं ज्ञानं प्रसाधयनाह-यथैव हि इत्यादि । [यथैव] येनैव हि प्रकारेण परतः ज्ञानान्तरात् प्रामाण्यम् आद्यस्य ज्ञानस्य स्वार्थव्यवसायः *"प्रामाण्यं चेतसांस्वार्थव्यवसायः" इति वचनात् इति एवम् एका
न्ते योगकल्पिते अनवस्थानात् ज्ञानान्तरेऽपि तदन्तरापेक्षणात् अप्रतिपत्तिः 'स्वार्थयोः' इत्य२० ध्याहारः । तथैव तेनैव प्रकारेण सर्वज्ञानानां सविकल्पकनिर्विकल्पकचेतसां स्वतः आत्मना स्वभावानिश्चयैकान्ते स्वभावस्य स्वरूपस्य अॅनिश्चयैकान्ते अङ्गीक्रियमाणे अनवस्थानाद् अनवस्थितेः अप्रतिपत्तिः स्वार्थयोरेव (र व)गन्तव्या । एतदुक्तं भवति-यथा आद्यं दर्शनं स्वभावे व्यवसायसामर्थ्यविधुरमुत्पन्नमपि अनुत्पन्नकल्पमिति *"यत्रैव जनयेदेनाम्" इत्या
द्युक्तम् , तथा तत्स्वभावे समुत्पन्नापि विकल्पबुद्धिः स्वतः स्वव्यवसायसामार्थ्य[८८क] विधुरा २५ इति उत्पन्नाप्यनुत्पन्नकल्पा इति तत्स्वभावव्यवसायेऽपि तदन्तरान्वेषणं तत्रापि तदन्तरान्वेषणमित्यनवस्था । ततः तस्माद् अनन्तराद् दोषात् सर्वज्ञानानां स्वरूपव्यवसायात्मकत्वं 'अवगन्तव्या' इत्यनेन जातनपुंसकलिङ्गपरिणामेन सम्बन्धात् । तत् किं करोति ? इत्यत्राह-निर्विकल्पेयदिनिदि (ल्पेत्यादि)निर्विकल्पं च तत् प्रत्यक्षलक्षणं च तत् कर्मतापन्नं निराकरोत्येव ।
केषां सन्बन्धि ? इत्यत्राह-चित्तचैतसिकानाम् इति । ३०. स्यान्मतम्-स्वरूपव्यवसायात्मकत्वाऽभावे किमनुपपन्नं यदर्थं तत् साध्यते ? इत्यत्र उत्तरमाह-स्वसंवेदनम् इत्यादि । स्वस्य आत्मनः संवेदनं ग्रहणम् तदन्तरेण अर्थग्रहणानुप
(१) सुप्तेन । (२) अनवस्थाख्यम् । (३) निर्विकल्परूपे । (१) विकल्पबुद्ध्यन्तर ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org