________________
१।२३ ] निर्विकल्पकप्रामाण्यनिरासः
१०३ अवधारणे तथैव इति । स्वं वा (च) अर्थश्च तावेव विषयौ गोचरौ तयोः प्रमाणम् इत्यभिमतं [८५ख] जाग्रद्दशायां सौगतस्य यद् विज्ञानं तस्य यः क्षणक्षयादिस्वभावः तस्य या संवित्तिः, अर्गमकत्वात् सापेक्षस्यापि वृत्तेः देवदत्तस्य गुरुभार्यावद् इति । यदि वा, तस्य क्षणक्षयादेाहिणी स्वभावभूता संवित्तिः इति ग्राह्यम् , तस्याः प्रत्यक्षात्मनोऽपि विसभावा (निर्विकल्पाया) अपि क्षणक्षयाद्यनुमानाप्रमाणताभयात् यद्यप्रमाणत्वम् 'इष्यते' इत्यध्याहारः। न तर्हि संवित्तेः ५ संवित्स्वरूपस्य प्रत्यक्षता कल्पनापोढाभ्रान्तता प्रमाणम् ।
ननु तस्याः प्रत्यक्षता नास्ति । ततः कथं सा प्रमाणमिति चेत् ? अत्राह-यदि इत्यादि। यदि, पुनः इति वितर्के, संवित्तिः तथैव स्वसंवेदनप्रकारेणैव सत्यपि विद्यमानोऽपि (नापि) प्रत्यक्षं न स्यात् कल्पनापोढाऽभ्रान्तस्वभावा न भवेत् प्रमाणं वा संवादिनी वा न स्यात् , प्रमाणलक्षणं ततः *"सर्वचित्तचैतसिकानामात्मसंवेदनं प्रत्यक्षं प्रमाणम्" [न्यायबि० १० १।१४] इत्येवंरूपाद् अन्यथैव व्यवस्थापनीयम् । कथंभूतम् ? इत्यत्राह-यत् प्रमाणलक्षणम् अतिव्यापकं न भवेत् स्वापादिसंवेदने यन्नास्ति इत्यर्थः । ।
ननु उक्तमेव-*"यत्रैव जनयेदेनां तत्रैवास्यं प्रमाणता।" *"प्रवर्तकं प्रमाणम्" [प्र. वार्तिकाल० पृ० १५१, २२] इति च वचनं स्वापादौ क्षणक्षयादौ वा तदस्ति इति चेत्; अत्राह-तथा च इत्यादि । तथा च परपरिकल्पितप्रकारेण च सर्व प्रत्यक्षादि प्रमाणं स्वभावे १५ स्वस्वरूपे परभावे [८६क] पररूपे वा कथञ्चिदेव सच्चेतनादिनीलादिरूपेणैव न क्षणक्षयादिरूपेण प्रमाणम् । अत आह-न सर्वथा इति सिद्धम् । येन अभ्यासदशायां भाविनि प्रवर्तकत्वात् प्रत्यक्षं प्रमाणमिष्टम् , तस्यापि तद्र पादावेव प्रमाणं न दृश्यप्राप्यविवेके स्वयं विषयीकृतेऽपि, तयोरेकत्वाध्यवसायोऽन्यथा न स्यात् विरोधात् । सतोऽविषयीकरणे *"एकस्यार्थस्वभावस्य" [प्र० वा० ३।४२] इत्यादि विरुध्यते ।
अत्रैव दूषणान्तरमाह-चक्षुरादि इत्यादि । न केवलं सर्वचित्तचैतसिकानामात्मसंवेदनस्य, अपि तु चक्षुरादिज्ञानस्यापि आदिशब्देन श्रोत्रादिज्ञानपरिग्रहः सर्वथा क्षणक्षयादाविव नीलादावपि परतः विकल्पात् प्रामाण्ये अङ्गीक्रियमाणे कुतः न कुतश्चित् ततः चक्षुरादिज्ञानात् अर्थ परिच्छिद्य प्रवर्तमानस्य पुनः पश्चाद् अविसंवादः। कुत एतत् ? प्रवर्तनस्यैवाऽसंभवात् 'ततः' इत्यनेन सम्बन्धः । परत एव प्रवर्तनसंभवादिति मन्यते । पुनरत्रैव दूषणान्तरमाह-क्षणक्षयादि २५ इत्यादि। क्षणक्षयादौ आदिशब्देन परिमण्डलादौ विसंवादेऽपि 'चक्षुरादिज्ञानस्य' इति सम्ब- न्धः । नीलादौ प्रमाणत्वे अङ्गीक्रियमाणे मृगतृष्णादिज्ञानस्यापि न केवलम् अन्यस्य । कथम्भूतस्य ? सलिलादिविसंवादिनः शुक्लादिस्वभावाऽविसंवादात् कथश्चित् न सर्वात्मना प्रमाणत्वं परीक्षायाः युक्तः सकाशात् प्रतिष्ठापयितुं [८६ख] युक्तम् ।।
स्यान्मतम्-मृगतृष्णादिज्ञानमविकल्पकमभ्रान्तं न तत्सलिलादिविषयं कथं तस्य तत्रै ३० विसंवादः, अन्यथा नीलज्ञानं पीते विसंवादि भवेत् । यच्च सलिलादिज्ञानं संम (नं न) तन्मृग
(१) असमर्थत्वात् समासाभाव इति चेन्न; सापेक्षस्यापि समासदर्शनात् इति भावः । (२) संवित्तः । (३)सविकल्पां बुद्धिम् (४) निर्विकल्पस्य । (५) ".."प्रत्यक्षस्य सतः स्वयं । कोऽन्यो न भागो दृष्टः स्याद्यः प्रमाणैः परीक्ष्यते ॥" इति शेषः । (६) मृगतृष्णकाज्ञानस्य । (७) सलिलादौ। ।
२०
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org