________________
१०२
- सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः स्वसंवेदनलक्षणत्वाज ज्ञानस्येति मन्यते । यतोलक्षणान्तरात् प्रत्यक्षलक्षणं ततस्तेभ्यो निवर्तेत । ननु भवतोऽपि न तदा तभा (तेद्भा)वोऽस्ति; आत्मनोऽपि निवृत्तिप्रसङ्गात् । सतां च तेषां स्वपरावभासित्वं मुक्त्वा न लक्षणान्तरमस्ति ततः समानो दोषः इति चेत् ; अत्राह-स्वापादि
इत्यादि । स्वापादौ स्वस्यैव संवेदनं स्वापादिस्वसंवेदनम् तस्य जाग्रचित्तचैतसिकानां यः ५ क्षणक्षयादिस्वभावः, आदिशब्देन निरंशत्वस्वर्गादिप्रापणसामर्थ्यादिपरिग्रहः तस्य यत् स्वसंवेदनं ग्रहणं तस्य च तद (न) कश्चिद् विशेषमन्तरं संप्रेक्षामहे, यतः तत् क्षणक्षयादिस्वभावसंवेदनम् अनुपलक्षितम् आस्ते तथा स्वापादिस्वसंवेदनमपि इति भावः । कुत एतदिति चेत् ? अत्राह-साक्षात् इत्यादि। साक्षात् प्रत्यक्षतः या संप्रतिपत्तिः निर्णीतिः तस्या उभयत्र
यो भावः तस्य अविशेषाद् अन्यथा क्षणक्षयादिभावानुमानमनर्थकम् । लिङ्गात् संप्रतिपत्तिः उभ१० यत्र, एकत्र सत्त्वादेः अन्यत्र व्यापारख्याहारात् इत्यभिप्रायः ।
___ यदि पुनर्मतम्-पावकात् दृष्टोऽपि धूमः यथा पुनः धूमादेव दृश्यते, तथा चित्ताद् दृष्टोऽपि [व्यापारादिः पुनः] व्यापारादेरेव दृक्ष्यत इति कथं ततस्तत्रं स्वसंवेदनसिद्धिरिति ? तत्रोच्यते [८५क] *"अन्यधियो गतेः" इत्यनर्थकं भवेत् , तद्गत्युपायविरहात्। शक्यं हि वक्तुम-पावकवत् निवृत्तेऽपि जन्मान्तरचेतसि इहजन्मनि सर्वदेहान्तरेषु व्यापारादेरेव व्यापारादिरिति न तदर्थ शास्त्र१५ प्रणयनम् । कथं चैवंवादिनो जलाद्याकारविशेषदर्शनात् भाविन्यामर्थक्रियायां तदर्थिनो नियमेन
प्रवृत्तिः ? कदाचित् तस्याः दृष्टोऽपि तदाकारविशेषः पुनस्तत एव से इत्याशङ्काऽनिवृत्तेः । तथा रूपादे" रसो दृष्टोऽपि रसादेव स भवेत् [इति] कथमिदमनुमानम्-*"एकसामग्र्यधीनस्य" [प्र० वा० ३।१८] इत्यादि ।
एतेन स्वभावविरुद्धोपलब्ध्यादिकं चिन्तितम् , न्यायस्य समानत्वात् । एवं प्रत्यक्षमपि २० चिन्त्यम् । तदपि प्रथमनीलार्थात् तदाकारं पुनः तत एव आसंसारमिति "अभ्रान्तग्रहणमनर्थ
कम् । व्यवहारी तथा न मन्यते ; किं पुनरसौ स्वापादौ चैतन्याभावं मन्यते ? तथा चेत् ; मृतवत् “तत्रापि दाहादिसाहसमाचरेत् ।
एतेन नैयायिकादिरपि "तत्राऽभावं कल्पयन् निरस्तः। कुतो वा प्रतिबोधे आत्ममन:संयोगात् (गादिः) ? आस्तां तावदेतत् । जाग्रद्विज्ञानात् ; इदमपि आस्ताम् इति यत्किंचिदेकंतत् १. (यत्किञ्चिदेतत् । न) केवलं तद्विशेषासंप्रेक्षणे स्वापादौ स्वसंवेदनमनुपलक्षितं सिध्यति अपि तु इदं दूषणान्तरं दर्शयन्नाह-तथा च इत्यादि । तथा तेन तद्विशेषासंप्रेक्षणप्रकारेण वा च शब्दः
(१) स्वापादौ । (२) चित्तचैतसिकसद्भावः । (३) यदि स्वापादौ ज्ञानं न स्यात्तदा आत्मनोऽभावः स्यात् । (१) बौद्धाभिमते चित्तचैतसिकसद्भावे, जैनाभिमते आत्मनि च। (५) व्यापारादेः । (६) स्वापादौ। (७) "प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः। प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥" कारिकेयं तदुक्तं धर्मकीर्तिना' इति कृत्वा प्रमाणपरीक्षायां (पृ. ६४) वर्तते । तर्कभा० मो० पृ० ४ । (८) परसन्तानसमुद्धारार्थम् । (९) आकारादेव । (१०) आकारः। (११) सहकारिकारणात् । (१२) केवलात् उपादानभूतात् रसादेव । (१३) "."रूपादे रसतो गतिः। हेतुधर्मानुमानेन धूमेन्धनविकारवत्" इति शेषः । (१४) नीलाकारादेव । (१५) प्रत्यक्षलक्षणे। (१६) स्वापादौ । (१७) स्वापादौ ज्ञानाभावम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org