________________
१०१
१२२३ ]
निर्विकल्पकप्रामाण्यनिरासः तयोः अधिकरणयोः को विशेषः न कश्चिद्भेदस्तस्य संभाव्यते, साक्षात्सम्प्रतिपत्तेरभावाऽविशेषादिति मन्यते । [यतः] यस्मात् विशेषात् स्वापादौ आदिशब्देन मदादिपरिग्रहः सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिर्न भवेत् । 'यतः' इति वा आक्षेपे, स्यादेव इति । एतेन परस्य जाग्रत्-सुप्त-सुषुप्त-मृतावस्थाचतुष्टयाभावं दर्शयति ।
स्यान्मतम्-स्वापादौ तेषामनुपलम्भेन असत्त्वात् कथमयं दोषः ? इत्यत्राह-नहि इत्यादि । ५ हि यस्मात् न स्वपादौ चित्तचैतसिकानाम् अभावं प्रतिपद्यमानान् प्रति यद् दर्शयति तत् प्रमाणमस्ति यावान् कश्चित् प्रतिषेधः स सर्वोऽनुपलब्धिः (ब्धेः), सा च प्रबोधेऽपि अस्ति । अत एवोक्तम्-'स्वापप्रबोधयोः को विशेषः संभाव्येत' इति । न च अनैकान्तिकाद् हेतोः साध्यसिद्धिः अतिप्रसङ्गादिति मन्यते ।
किञ्च, तदनुपलब्धिः स्वसम्बन्धिनी, परसम्बन्धिनी वा स्यात् ? स्वसम्बन्धिनी चेत् ; १० सा उपलब्धिनिवृत्तिरूपा यदि; कथमतस्तदभावसिद्धिः ? इतरथापि तन्नि[वृत्ति]स्तदभावज्ञापिका स्यात् । ज्ञाता च सा तज्ज्ञापिका ज्ञापकत्वात् धूमवत् । तज्ज्ञप्तिश्च यदि तदन्तरात् ; अनवस्था । उपलब्ध्यन्तरस्वभावा चेत् ; तत्रे तदन्तरभावे कथं चित्तचैतसिकानामभावः ? तदभावोऽपि यदि तुच्छः; सँमयान्तर[८४क] गमनम् । स्वापादिशरीरादिस्वभावत्वे; तँदप्रतिपत्तौ न तदभावनिश्चयः । न खलु भूतलाग्रहणे तत्र घटाभावग्रहणमस्ति । यदि पुनः जाग्रत्प्रबोधज्ञानं १५ तदनुपलब्धिः; एवमपि न तत्र तदभावसिद्धिः, अन्यथा इहलोकप्रत्यक्षात् परलोकाभावः सिध्येत्। तन्न स्वसम्बन्धिनी । परसम्बन्धिनी चेत् ; सापि तदा अदृश्यानां तेषां कथमभावमवैति इति, "सन्तानान्तरासिद्धिप्रसङ्गात् । अथ अवस्थाचतुष्टयान्यथानुपपत्तितः तत्र तदभावसिद्धिः; तत्रेदं चिन्त्यते-यथा परपरिकल्पितस्य आत्मनोऽसिद्धौ न तेन आत्मजीवच्छरीरं सात्मकं सिध्यति इति, तथा निर्विकल्पकचित्तचैतसिकानामभावः । तदभावो (वा)सिद्धौ न तदपेक्षे जाग्रत्सुप्त- २० दशे सिध्यतः, तथा तन्निवृत्त्यपेक्षे मृतसुषुप्तदशे अपि । तर्वादौ चैतन्यासिद्धौ विज्ञानेन्द्रियायुनिरोधलक्षणमरणासिद्धिवत् चतुष्टयमसिद्धम् । व्यवहारिणः सिद्धं चेत् ; यदि प्रमाणतः ; प्रकृतो दोषः । एवमेव ; इत्यपि वार्तम् ; वृक्षादौ मरणमपि "तथा सिद्धमस्तु ।
यत्पुनरेतत्-एवं विचारणे प्रतिभासाद्वैतमवशिष्यते इति; तत्रापि *"चित्रप्रतिभासाप्येकैव बुद्धिः" [प्र. वार्तिकाल० ३।२२०] इत्यादि वचनात् चित्रैकज्ञानरूपेण यदि तेन २५ परितोषः; क्रमभाविसुखदुःखाद्यात्मनापि परितोषः क्रियताम् । अथ एकानेकविकल्पशून्येन ; तत्रापि सकलप्रतिभासशून्येन क्रियताम् इति चर्चितम् । ततः स्थितम्-नहि इत्यादि ।
सन्तु [८४ख] तर्हि तत्रापि तानि इति चेत् ; अत्राह-नच इत्यदि । न च नैव तेषां चित्तचैतसिकानां तदा स्वापादिदशायाम् आत्मसंवेदनं मुक्त्वा सतां विद्यमानानां लक्षणान्तरमस्ति
। (१) चित्तचैतसिकानाम् । (२) ज्ञाननिवृत्तिरूपायाः। (३) सिद्धर्ज्ञानधर्मत्वात् । (४) उपलब्धि निवृत्तिः। (५) स्वापादौ । (६) चित्तचैतसिकान्तरसद्भावे । (७) नैयायिकमतप्रवेशः। (८) स्वापादिकालीनशरीराद्यप्रतिपत्ती । (९) चित्तचैतसिकाभावनिर्णयः। (१०) अरश्यानुपलम्भादप्यभावश्चेत् तदा । (११) जाग्रत्सुप्तसुषुप्तमृत । (१२) स्वापादौ। (१३) चित्तचैत्तसिकसद्भावापेक्षे। (१४) एवमेव, यद्वा तद्वा । (१५) स्वापादौ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org