________________
१००
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः 'निर्विकल्पस्वसंवेदनदृष्टमपि 'दृष्टम्' इत्याशङ्का न निवर्तेत, न च तत्' प्रमाणम् । ज्ञापकं हि प्रमाणमिष्यते, न च तदेवम् , अन्यथा दोन-हिंसाविरतिचेतसां स्वर्गप्रापणसामर्थ्य स्वर्गादिफलज्ञापकं भवेत् , न चैवमिति प्रतिपादयिष्यते । विषयदर्शनवादिना सिद्धवचने पुनः क्रियमाणे सिद्धं 'निर्णीतम्' इति गम्यते, सिद्धः पक्षो निर्णीतः इति प्रसिद्धिदर्शनात् । ततः साधूक्तम्-‘स्वतः ५ सिद्धप्रमाणम्' इति ।
___ कुत एतदिति चेत् ? अत्राह-सिद्धिः इत्यादि । सिद्धिः तत्त्वनिर्णीतिः । अस्याः पर्यायमाह-अविप्रतिपत्तिः अव्युत्पत्तिसंशयविपर्यासलक्षणाज्ञाननिवृत्तिः । अनेकाधि (अनेन *"अधिगतिः) तत्फलम्" इति वचनात् तन्मात्र (त्र) सिद्धिः इत्यादि शङ्का (शङ्का) निवर्त्तयति। तथा अप्र (अत्र) सिद्धिः, सा किम् ? इत्यत्राह-प्रमितिः प्रमाणफलम् । एतेन सर्वेण 'सिद्धी' १० इत्येतद् व्याख्यातम् । सा यतः यस्मान्निष्ठात् सम्पद्यते समाप्तिं प्रतिपद्यते तत् वस्तु प्रमाणम् ।
अत्र 'सिद्धसाधनम्' इत्यपरे । तान् प्रत्युत्तरमाह-तत्पुनः इत्यादि। ततः तन्निष्ठात् 'पुनः' इति भावनायाम स्वभावपरभावयोर्यावतोः [८३क] यत्परिमाणयोः अनेन 'छद्मस्थज्ञानम् अंशेन प्रमाणम्' इत्युक्तं भवति । तयोः किम् ? साधनं साधकम् यावतोरिति वचनात् तावतोः
'प्रमाणम्' इति गम्यते *"यत्तदोनित्यः सम्बन्धः” इति न्यायात् । तत् किम् ? इत्याह१५ अन्यानपेक्षम् इति । व्याख्यातमेतत् । कुत एतत् ? इत्यत्राह-प्रमाण(त्म)त्वात् । प्रमा प्रमाणं
तद् आत्मा स्वभावो यस्य तस्य भावात् तत्त्वात् । एतदुक्तं भवति-प्रमाणं करणम् , तच्च साधकतमम्, न च सिद्धिफलं प्रत्यन्यापेक्षं तयुक्तमिति ।
ननु मा भूत् नैयायिकादिकल्पितम् अन्यापेक्षं ज्ञानं प्रमाणं सौगतविकल्पितं तद्विपरीतं स्यादिति चेत् ; अत्राह- न पुनः इत्यादि । स्वसंवित्तेः एतन्मात्र निर्णयरहितं स्वसंवेदनं २० तत् न पुनः नैव स्वभावपरभावयोः प्रमाणम् इति । कुत एतत् ? इत्यत्राह-अतिप्रसङ्गात् इति ।
स्वाप[म]दगर्भाण्डमूर्च्छितस्ववेदनमपि प्रमाणं भवेदविशेषात् । ननु किमुच्यते 'अविशेषात्' इति, यावता विशेषोऽस्ति इति चेत् ; अत्राह-सर्वचित्तचैत्तानाम् इत्यादि । सर्वाणि जाग्रत्सुप्तमूर्च्छितादिसम्बन्धीनि यानि चित्तानि नीलादिज्ञानानि चैत्तानि सुखादिविकल्पवेदनानि तेषाम्
आत्मनः स्वरूपस्य संवेदनं प्रत्यक्षं कल्पनापोढाऽभ्रान्तत्वाभ्यां प्रमाणम् । कथम्भूतम् ? इत्याह२५ हित इत्यादि । *"सम्यग्ज्ञानपूर्विका संकलपुरुषार्थसिद्धिः" [न्यायबि० १।१] इति वच
नात् हितं स्रगादि, अहितं विषादि तयोः याथासंख्येन प्राप्तिश्च परिहारश्च [८३ख] तयोः समर्थम् , इच्छतां सौगतानां स्वापो सुस्वप्नदर्शिन्यवस्था, प्रबोधः तस्मात् उत्थितचित्तदशा
(१) बौद्धाभिमत । (२) निर्विकल्पकम् । (३) दानचित्ते अहिंसकचित्ते च स्वर्गप्रापणसामर्थ्यमस्ति । बौद्धमते च वस्तु निरंशं विद्यते । अतः 'तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ।' इति न्यायात् दानादिचित्तग्राहिणा निर्विकल्पेन तत्सामर्थ्यमपि गृहीतम् , तथा च दानादिग्राहिचित्तादेव स्वर्गादिफलज्ञप्तिः स्यादिति दोषः । (४) "किं पुनरस्य प्रमाणस्य फलम् ? प्रमेयाधिगतिः।"-प्र. वार्तिकाल. ३१३०१। (५) अधिगतिमात्रमेव सिद्धिरिति । (६) अन्यापेक्षित्वे प्रकृष्टसाधकत्वानुपपत्तेः। (७) अन्यानपेक्षं निर्विकल्पकम् । (6) "सर्वपुरुषार्थसिद्धिः"-न्यायबि०। (९) “हिताहितप्राप्तिपरिहारार्थी सर्वः (पृ. २८) सम्यग्ज्ञानपूर्वकत्वं च हिताहितप्राप्तिपरिहारयोरुक्तम् ।"-हेतुबि० टी० पृ. ४०।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org