________________
१।२३ ]
शानान्तरवेद्यत्वनिरासः एतेन *"ज्ञाते त्वनुमानादवगच्छति" [शाबरभा० १।१।५] इति निरस्तम् ; अर्थज्ञातत्वस्य हेतोरसिद्धेः । अपि चं, तज्ज्ञातत्वं क बुद्धौ प्रतिबद्धं प्रतिपन्नं येन तंतस्तदनुमानम् ? अथ अर्थप्रत्यक्षता कादाचित्कत्वात् कस्यचित् कार्यम् ; कारणस्य ततः 'त[६] बुद्धिः' इति नाम क्रियते इति; क्रियताम् , यदि चक्षुरादिव्यतिरिक्तं तत्कारणं व्यवस्थापयितुं शक्येत । इदं तु युक्तम्- चक्षुरादिव्यापारानन्तरं तद्भावात् तदेव तत्कारणम् , चक्रादिव्यापारानन्तरं यथा घटस्य ५ भावात् चक्रादि कारणम् । चक्षुरादेरेव तन्नाम इति चेत् ; किं पुनरेतद्बालभाषितम्-*"सत्सम्प्रयोगे यद् बुद्धिजन्म तत् प्रत्यक्षम्" [मी०द० १।१।४] इति ? तन्न अर्थप्रत्यक्षताया बुद्धरनुमानम्, उक्तन्यायेन परबुद्धरपि तत्कारणत्वेस्त्व (णत्वं स्व)बुद्धश्च । किं च तदनुमानम् ? अर्थापत्तिबुद्धिरेव । तस्या स्व (श्च) परोक्षत्वे तदेव [८२क] चोद्यमनवस्था च । तन्न श्रोत्रियमतं सूक्तम् ।
एतेन *"इन्द्रियाणि अर्थमालोचयन्ति अहङ्कारोऽभिमन्यते मनः संकल्पयति बुद्धिरध्यवस्यति पुरुषश्चेतयते ॥” इति चिन्तितम् । पुरुषस्य परोक्षत्वे न तस्य बुद्धिः अन्यद्वा, प्रयुक्तन्यायस्य समानत्वात् ।
तर्हि ज्ञानान्तरग्राह्यत्वात् सिद्ध तदिति चेत् ; अत्राह-स्वत इति । अत्रायमभिप्रायः-यथा खलु मीमांसकस्य परोक्षज्ञानग्राह्योऽर्थो न सिद्धो भवतीति ज्ञानान्तरं कल्पितं तथा परोक्षज्ञान- १५ ग्राह्यं ज्ञानमपि न सिध्यतीति तत्रापि तदन्तरं कल्पनीयम् , अन्यथा द्वितीयमपि ज्ञानं न कल्पनीयं भवेत् , तथा च अनवस्था[ना]त् *"स्वज्ञानं तदन्तरेणैव गृह्यते प्रमेयत्वात् घटादिवत्" इत्यंत्र धर्मिहेतुदृष्टान्तासिद्धिः । अथ तज्ज्ञानं स्वतःसिद्धमिष्यते; तर्हि धादिग्राहकप्रमाणबाधितत्वात् कालात्ययापदिष्टो हेतुः स्यात् ।
यत्पुनरुक्तं परेण-*"ज्ञाने ज्ञानान्तरेण वेद्य मम घटादिदृष्टान्तोऽस्ति न स्ववेद्ये २० जैनस्य" इति; तन्न; अस्य दृष्टान्त एव नास्ति, भंवतः पुनः सकलानुमानसामग्रथभावः । किञ्च, भवतोऽपि नीलं 'नीलम्' इत्यत्र न कश्चिद् दृष्टान्तः। 'प्रत्यक्षसिद्धः (छ) किं तेने' इत्यपि" समानम् । यथा खलु नीले नीलतया न लोकस्य विवादः तथा अहमहमिकया प्रतीयमाने ज्ञाने स्वसंवेदनेऽपि । यदि पुनरयं निर्बन्धः-अनुमानमन्तरेण न तत्सिद्धिः, तदपि न दृष्टान्तमन्तरेण इति; सोऽपि न, सात्मकं जीवच्छरीरं प्राणादि[८२ख]मत्त्वात्' इत्यादिवत् 'अर्थज्ञानं २५ स्वग्रहणात्मकम् अर्थग्रहणात्मकत्वात , यत् पुनः स्वग्रहणात्मकं न भवति तद् अर्थग्रहणात्मकमपि न भवति यथा अर्थान्तरम्' इत्येतावतैव प्रयोजनपरिसमाप्तः । तत्सूक्तम्-'स्वतःसिद्धम्' इति । ___ नन्वेवमपि कारिकायां वृत्तौ च 'दृष्ट'वचनं स्पष्टार्थं कर्त्तव्यं न 'सिद्ध'वचनमिति चेत् ; तन्न;
(1) 'ज्ञातत्वात्' इति हेतोः। (२) अर्थप्रत्यक्षताकारणम् । (३) चक्षुरायेव । (४) सांख्यमतम्। "एवं बुद्ध्यहङ्कारमनश्चक्षुषां क्रमशो वृत्तिदृष्टा-चक्षू रूपं पश्यति मनः सङ्कल्पयति अहङ्कारोऽभिमानयति बुद्धिरध्यवस्यति ।"-सांख्यका. माठर० का० ३०। (५) न व्यवस्थापयितुं शक्यते । (६) द्रष्टव्यम्-पृ. ९८ टि. १ । (७) जैनस्य तु केवलम् । (८) मीमांसकस्य। (९) नीलात्मकमेव । (१०) दृष्टान्तेन । (११) ज्ञानस्य स्वसंवेद्यत्वे । (१२) अनुमानमपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org