________________
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
तत्-*" चतृसृष्वेवंविधासु तत्त्वं परिसमाप्यते यदुत प्रमाता प्रमितिः प्रमेयं प्रमाणमिति” [न्यायभा० पृ० १] । अथ प्रमेयमपि तच्चतुष्टयं तथेष्यते ; * ' प्रमातृप्रमेयाभ्यामर्थान्तरं प्रमाणम्" इत्यस्य व्याघातः, इत्यस्य प्रतिपादनार्थं प्रस्तूयते । अथवा यदुक्तम् - "ज्ञानं स्वतोऽर्थान्तरेणैव ज्ञानेन वेद्यते प्रमेयत्वात् घटादिवत् " इति तत्र यथा घटादिकं प्रमेयत्वे सति ५ भिन्नेनैव ज्ञानेन वेद्यमानं दृष्टं तथा प्रमात्रा [द्य ] पि । ततो घटादिनिदर्शनेन यद्वत् प्रमेयत्वात् तज्ज्ञानं तदन्तरेणैव विषयीक्रियते इति साध्यते तद्वत् तत एव प्रमातापि तदन्तरेणैव विषयी - क्रियते इति साध्यतामविशेषात् तदन्तरमपि तदन्तरेणैवेत्यनवस्थानान्न कस्यचित् प्रमातुः प्रतिपत्तिः इत्यभावः । अथ तदविशेषे [ ८१] प्रमाता स्वयमेव आत्मानं प्रमिणोति ; तर्हि 'ज्ञानं ज्ञानान्तरेणैव ज्ञायते प्रमेयत्वात्' इत्यस्य तेनैर्वै व्यभिचार इत्यस्य कथनार्थं तत् प्रस्तूयते ।
९८
१०
एवमपि 'प्रमातृप्रमितिप्रमेयप्रमाणानां साकल्येन प्रमेयत्वं सदृशं रूपम्' इति वक्तव्ये किमर्थम् ' प्रमाणस्य च' इति प्रथग् वचनमिति चेत् ? स्वतः सिद्धत्वेन प्रमेयादस्य प्राधान्यख्यापनार्थम् । एतदेव दर्शयन्नाह तत्रैतावान् इत्यादि । तत्र तेषु प्रमात्रादिषु मध्ये प्रमाणस्य विशेषः भेदः एतावान् अधिकः स्वतः सिद्धं प्रमाणम् । ननु प्रमातापि स्वतः सिद्ध इति चेत् ; सत्यम् ; अतएव नैवमवधारणीयम् ' प्रमाणमेव' इति, किन्तु 'स्वतः सिद्धमेव ' इति । सिद्ध निर्णीतम् १५ अधिगतमिति । ततो निरस्तमेतत् - "परोक्षा हि नो बुद्धिः प्रत्यक्षोऽर्थः स हि बहिर्देशसम्बद्धः प्रत्यक्षमनुभूयते, ज्ञाते त्वनुमानादवगच्छति" [शाबरभा० १।१।५] इति । कथम् ? येन हि साक्षात् प्रमेयं परिच्छिद्यते तत्प्रमाणम्, न च परोक्षबुद्धया तथा किञ्चित् परिच्छिद्यते, इतरथा सन्तानान्तरबुद्धयापि परिच्छिद्यते (द्येत ) इति सर्वदर्शित्वम् । आत्मबुद्धया इति नोत्तरम् ; परोक्षायां तथा निश्चयविरहात् । न खलु आत्मनि ज्ञानमस्ति परत्र च (वा) इति श्रोत्रियस्य निश्चयोऽस्ति ।
२०
स्यान्मतम् - ममं " अर्थापरोक्षताजननात् ' मयि' इति निश्चय इति तदपि न सुन्दरम् ; यतः अर्थापरोक्षता "तज्जनितापि केन प्रतीयते ? न तावदर्थेन; अचेनत्वादस्य [ ८१ख ] अर्थान्तरवत् । नापि बुद्धया; तस्याः परोक्षत्वात्, अतिप्रसङ्गात् । अत एव नात्मनापि । तन्न अर्थापक्षता उत्पन्ना प्रत्येतुं शक्या । किंच, 'मम "सा' इत्यपि कुतः ? मदीयबुद्धिजन्यत्वादिति चेत् ; अन्योन्यसंश्रयः–सिद्धे हि तस्या मदीयबुद्धिजन्यत्वे 'मम सा' इति निश्चीयते, तन्निश्चये च तन्म२५ दीयबुद्धिजन्यत्वनिश्चयः इति । 'मम सा' इति निश्चयेऽपि न मदीयबुद्धिजन्यत्वनिश्चयः, अन्यसम्बन्धिकारणजन्यानामपि 'मम' इति निश्चयदर्शनात् अन्यव्यानात् ( " अन्यध्यानात् ) मम विषापहारादिवत् इति । तन्न * " प्रत्यक्षोऽर्थः " [शावरभा० १|१|५ ] इत्यादि सूक्तम् ।
"
(१) “विवादाध्यासिताः प्रत्ययान्तरेणैव बेद्याः प्रत्ययत्वात् । एवं प्रमेयत्वगुणत्वसत्त्वादयोऽपि प्रत्ययान्तरवेद्यत्वहेतवः प्रयोक्तव्याः । " - विधिवि० न्यायकणि० पृ० २६७ । “ज्ञानान्तरसंवेद्यं संवेदनं वेद्यत्वात् घटादिवत्"-- " - प्रश० व्यो० पृ० ५२९ । (२) ज्ञानान्तरेणैव । ( ३ ) प्रमात्रन्तरेणैव । ( ४ ) प्रमात्रा । (५) प्रमाणस्य । (६) साक्षात् । (७) परम्परया, अथवा परोक्षरूपेण । (८) इयम् आत्मबुद्धिरिति । (९) मीमांसकस्य । (१०) अर्थविषयकप्रत्यक्षताजननात् । ( ११ ) ज्ञानजनितापि । ( १२ ) अर्थापरोक्षता । (१३) अपरोक्षतायाः । (१४) पुत्रादीनाम् । (१५) अन्येन मन्त्रप्रयोगे कृते यथा अन्यस्य विषापहारो भवति, तत्रापि 'मम' इति प्रत्ययो भवतीत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org