________________
१।२३]
निर्विकल्पकप्रामाण्यनिरासः । तदपेक्षणीयस्यैव प्रामाण्यम् , तत्कारणत्वेऽपि सन्निकर्षादिवत् मुख्यतः प्रमाणतानुपपत्तेः । उपचारतः सन्निकर्षादेः व्यपदेशाविघातात् । यतः प्रभृति प्रेक्षापूर्विका पुरुषप्रवृत्तिः तस्य मुख्यतः प्रमाणत्वोपपत्तिः । स्वेक्षितेऽन्यानपेक्षस्य अविसंवादैकभवनस्य विकल्पविषयस्य च तत्त्वतः, यतोऽयमस्खलवृत्तिः हिताहितप्राप्तिपरिहारयोः सङ्कव्यतिकरव्यतिरेकेण प्रवर्तेत । अतस्तद्वेषी तत्कारी चेत्युपेक्षामर्हति ।]
सिद्धं निश्चितं यत् तत् प्रमाणं न पुनः मीमांसक-सांख्यकल्पितं परोक्ष ज्ञानमिति मन्यते। क प्रमाणम् ? इत्यत्राह-सिद्धौ निर्णीतौ कर्त्तव्यायाम् नाऽधिगतिमात्रे, क्षणक्षयाद्यनुमानवैफल्यप्रसङ्गादिति भावः । ननु निश्चयान्तरेण निश्चितं निर्विकल्पकं वा सविकल्पकं वा स्वसंवेदनं तत् प्रमाणम् , अतः सिद्धसाधनमिति चेत् ; अत्राह-न परापेक्षम् इति । तत्सिद्धौ यत् परापेक्षं न भवति अपि तु स्वतः सिद्धमिति । ततः तस्माद् उक्तादन्यत् न प्रमाणम् । किं तत् ? १० इत्यत्राह-[८०क] अविकल्पमचेतनम् च स्वसंवेदनशून्यं घटादिप्रख्यं यद् विज्ञानम् इति । ___ कारिकां विवृण्वन्नाह- 'प्रमातृप्रमिति' इत्यादि । प्रमाता चेतनः परिणामी वक्ष्यमाणो जीवः प्रमितिः स्वार्थविनिश्चयः अज्ञाननिवृत्तिः साक्षात् प्रमाणस्य फलं प्रमेय घटादिवस्तु तेषां साकल्येन अनवयवेन प्रमेयत्वं प्रमाणविषयत्वं सदृशं रूपं साधारणः स्वभावः प्रमाणस्य च निर्णयज्ञानस्य च अन्यथा तत्सत्ताऽसिद्धिरिति भावः । एवं तर्हि सर्वेषां प्रमेयत्वात् प्रमेयपदेनैव १५ वचनात् किमर्थं प्रमात्रादीनां पृथगुपादानमिति चेत् ? प्रमेयशब्दस्य घटादावेव प्रवृत्त्यर्थम् । ततोऽयमर्थो लभ्यते-प्रमात्रादीनां प्रमातृत्वादिवत् प्रमेयत्वमप्यस्ति, प्रमेयस्य तु तदेवं इति यदुक्तं परेण-*"प्रदीपादयः प्रमेया अपि ज्ञानहेतुत्वात् प्रमाणमपि" इति; तन्निरस्तम् । प्रमीयते संशयादिव्यवच्छेदेन मीयते वस्तुतत्त्वं येन तत्प्रमाणम् । न च प्रदीपादिना तथा किश्चित्मीयते, ज्ञानकल्पनावैफल्यप्रसङ्गात् । तद्धेतुत्वेन तत्प्रमाणत्वे घटादिरपिस्वं (रप्येवं) प्रमाणं भवेत् तद- २० विशेषात् *"अर्थवत् अर्थसहकारिव्यवसायात्मकाऽव्यपदेश्याऽव्यभिचारिज्ञानजनने प्रमाणम्" इति वचनात्। *"प्रमेयादान्तरं प्रमाणम्" इत्यपि वचनात् नायं दोष इति चेत् ; तर्हि तत एव प्रमात्रादीनां प्रमातृत्वादि दुर्लभम् । तथापि तेषां तत्त्वे [८०ख] प्रमेयस्य प्रमाणत्वमनिवार्यम् । एवमर्थं च 'तेषां प्रमेयत्वं सदृशं रूपम्' इत्युक्तम् । ततो यथा घटादीनां ज्ञानहेतुत्वेऽपि न प्रमाणत्वं तथा प्रदीपादेरपि किन्तु प्रमेयत्वमेव इति तथा तदुपादानमिति । २५
स्यादेतत्-'सिद्धं परानपेक्षं प्रमाणम्' इति प्रस्तुते किमर्थमप्रस्तुतं प्रमेयत्वं तेषु प्रस्तूयत इति चेत् ? उच्यते-*"प्रमातृप्रमेयाभ्यामर्थान्तरं प्रमाणम्" इत्यभिधानात् प्रमाणवत् प्रमातृप्रमितिभ्यामपि ततो भिन्नाभ्यां भवितव्यम् । न चैवम् , अनुपलम्भेन तदसत्त्वादिति न सूक्तमे
(१) क्षणक्षयस्य अधिगतिस्तु निर्विकल्पकप्रत्यक्षादेव जाता अतः तदेव तत्र प्रमाणमिति नामुमानस्य आवश्यकतेति भावः। (२) प्रमेयत्वमेव । (३) "प्रदीपप्रकाशो घटाद्युपलब्धिसाधनस्याङ्गत्वात् प्रमाणम्"-न्यायवा० २।१।१९। (४) ज्ञानहेतुत्वेन । (५) तद्वेतुत्वाविशेषात् । (६) प्रमात्रादित्वे । (७) "साधकतमं प्रमाणं न तु प्रमातृप्रमेये-न्यायवा० पृ०६। "प्रमातृप्रमेयव्यवच्छेदार्थ फलादिज्ञापनार्थञ्च साधनग्रहणम् ।"-न्यायसा० पृ० २। “करणव्युत्पत्तेश्च कर्तृकर्मविलक्षणमेतद् वेदितव्यम् ।" -न्यायकलि. पृ०१। ।
Jain Education Internatio
For Personal & Private Use Only
www.jainelibrary.org