________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः अत्राह-सर्वथा इत्यादि । सर्वथा सर्वेण तत्त्वमिध्यास्वभावैकत्वेन घटाद्याकारस्य संवेदनेन अन्येन च उक्तन प्रकारेण अनेकान्तसिद्धेरनिवारणात् कारणसामान्य इत्यादि लक्ष्यते इति । ___एवं तावत् सिद्धिः अर्थनिश्चयः साक्षात् प्रमाणस्य फलं प्रसाध्य, अधुना सिद्धिः स्वनिनिश्चयः 'तथा तत्फलं समर्थयमानः प्राह-सिद्धम् इत्यादि।
[सिद्धं यन्न परापेक्षं सिद्धौ स्वपररूपयोः।
तत्प्रमाणं ततो नान्यदविकल्पमचेतनम् ॥२३॥ प्रमातृप्रमितिप्रमेयप्रमाणानां साकल्येन प्रमेयत्वं सदृशं रूपम् , तत्रैतावान् विशेषः स्वतः सिद्ध प्रमाणम् । सिद्धिः अविप्रतिपत्तिः, अव्युत्पत्तिसंशयविपर्यासलक्षणाज्ञाननि
वृत्तिः प्रमितिः । तद्यतः सम्पद्यते तत्प्रमाणम् । तत्पुनः यावतोः स्वभावपरभावयोः साध१० नमन्यानपेक्षं प्रमात्मत्वात् न पुनः स्वसंविन्मानं निर्णयरहितम् अतिप्रसङ्गात् । सर्वचित्त
चैत्तानामात्मसंवेदनं प्रत्यक्षं हिताहितप्राप्तिपरिहारसमर्थमिच्छतां स्वापप्रबोधयोः को विशेषः संभाव्यते यतः स्वापादौ सम्यग्ज्ञानपूर्विका सर्वपुरुषार्थसिद्धिन भवेत् । न हि स्वापादौ चित्तचैतसिकानामभावं प्रतिपद्यमानान् प्रमाणमस्ति । न च तेषां तदा आत्मसंवेदनं मुक्त्वा सतां लक्षणान्तरमस्ति यतः प्रत्यक्षलक्षणं ततो निवर्तेत। स्वापादिस्वसंवे१५ दनस्य जाग्रच्चित्तचैतसिकक्षणक्षयादिस्वसंवेदनस्य च कञ्चिद् विशेष संप्रेक्षामहे यत
स्तदनुपलक्षितमास्ते । साक्षात् संप्रतिपत्तिभावाविशेषात् । तथा च स्वार्थविषयं प्रमाणमिति जाग्रद्विज्ञानक्षणक्षयादिस्वभावसंवित्तेः प्रत्यक्षात्मनोऽपि यद्यप्रमाणत्वं न तर्हि संवित्तेः प्रत्यक्षता । यदि पुनः संवित्तिस्तथैव सत्यपि प्रत्यक्षं न स्यात् प्रमाणं वा प्रमाण
लक्षणं ततोऽन्यथैव व्यवस्थापनीयं यदतिव्यापकं न भवेत् । तथा च सर्व स्वभावे परभावे २० वा कथञ्चिदेव प्रमाणं न सर्वथा । चक्षुरादिज्ञानस्यापि सर्वथा परतः प्रामाण्ये कुतस्त
तोऽथं परिच्छिद्य प्रवर्तमानस्य पुनरविसंवादः १ क्षणक्षयादौ विसंवादेऽपि नीलादो प्रमाणत्वे मृगतृष्णादिज्ञानस्यापि सलिलादिविसंवादिनः कथञ्चित्प्रमाणत्वं परीक्षायाः प्रतिष्ठापयितुं युक्तम् , अन्यथा तद्दर्शिनः सुप्तत्वाविशेषप्रसङ्गात् । यथैव हि परतः प्रमा
ण्यैकान्ते अनवस्थानादप्रतिपत्तिः तथैव सर्वज्ञानानां स्वतः स्वभावानिश्चयैकान्ते । ततः २५ सर्वज्ञानानां स्वरूपव्यवसायात्मकत्वं चित्तचैतसिकानां निर्विकल्पप्रत्यक्षलक्षणं निराकरो
त्येव । स्वसंवेदनमन्तरेण अर्थग्रहणानुपपत्तिवत् स्वरूपव्यवसायमन्तरेण विषयव्यवसायानुपपत्तिश्चोक्ता । तन्नायमेकान्तः संवित्तिः सर्वा संवित्स्वभावापि सती स्वरूपं वेदयत्येव वेदयति भ्रान्तेरभावप्रसङ्गात् , व्यवसायात्मकत्वाद्वा स्वरूपं सर्वथा व्यवस्यति । तथा
च स्वार्थानुभवेतरस्वभावलक्षणं स्वपररूपव्यवसायेतरस्वभावं वा विभ्राणं विज्ञानं तदन्त३० रेण न कथञ्चिदुपपनीपद्येत । तन्नाविकल्पदर्शनं प्रमाणं स्वयमनुभूतस्वभावस्यापि सर्वथा अननुभूतकल्पत्वात् चेतनत्वेऽपि सुषुप्तादिवत् । स्वविषयीकृते वस्तुनि तदन्तरापेक्षित्वात्
(१) साक्षात् । (२) उद्धृतोऽयम्-न्यायवि० वि० प्र० पृ० १८ । ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org