________________
११२२]
निर्विकल्पकनिरासः *"द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना ।
लोकसंवृतिसत्यच सत्यं च परमार्थतः ॥" [माध्य० का० पृ० ४०२] इति। यदि वा, पूर्वपक्षार्थ तत्तेनोक्तम्, पुनः प्रतिषेधविधानात् । तदुक्तम्
*"सर्वमस्तीति वक्तव्यमादौ तत्त्वगवेषिणा ।
पश्चादवगतार्थस्य भावग्राहो निवर्तते ॥” इति । शब्दविकल्पातीतं तु तत्त्वमिति । तदेवाह-तत्त्वम् इत्यादिना । तत्त्वं सविदः परमार्थस्वरूपम् अक्रमम् कालादिक्रमरहितम् । पुनरपि कथम्भूतम् ? इत्यत्राह-सकलविकल्पातीतम्। नित्याऽनित्य-सत्याऽसत्य-स्वपर-ग्राह्यग्राहकसंवेदन-एकानेकादिभावादयः सकलविकल्पाः तान् अतीतम् । कथं तत्तथेति चेत् ? अत्राह-यथा इत्यादि। दर्शनस्य प्रतिभासस्य अनतिक्रमेण यथादर्शनम् । अत्र दूषणं दर्शयन्नाह-[७९क] मिथ्या इत्यादि । मिथ्याव्यवस्थाम् असत्यामवस्थितिम् अव- १० तरति । कथमिति चेत् ? उच्यते-अक्रमत्वं सकलविकल्पातीतत्वं यदि तस्य भावतोऽस्ति; कथं सकलविकल्पातीतम् ? तैयोरेव विकल्पत्वात् । अथ नास्ति; तथापि कथं तदतीतम् ? तँदतीतत्वनिषेधे सकलविकल्पप्रसक्तः, अभावनिषेधस्य विध्यात्मकत्वात् । अथवा, यदुक्तं [न] तन्नित्यं तथोपलम्भवैधुर्यात् । एकं हि कालत्रयानुयायि नित्यम् , तस्य कुतश्चिदनुपलम्भ इति तत्र तदक्षा (भा)वोऽपि । यथैव हि मध्यक्षणे क्षीणकुक्षि प्रत्यक्षं न पूर्वोत्तरक्षणौ ईक्षितुं क्षमते तथा नीला- १५ वलोकनान्नीलं न शुक्लादिकमाम् (मात्राम् ), एवं नीलमात्रांशेष्वपि तावञ्चिन्त्यम् यावत् मध्यक्षणवत् प्रतिपरमाणुनियतसंविदां सिद्धिः, तत्र च एकपरमाणुवेदनेनान्यासामु (सामनु) पलम्भेन सन्तानान्तरसमता, तद्वेदनमपि विवादगोचरचारीति किन्नाम तत्त्वं यद् अक्रमं सकलविकल्पातीतं भवेत् । एवम् अनित्यं तन्न भवति इत्यत्रापि चिन्त्यम् । यथा खलु पूर्वोत्तरक्षणयोरदर्शने न सत्त्वं नापि ताभ्यां विवेको मध्यक्षणस्य क्षणिकत्वं प्रत्येतुं शक्यं तथा नीलादितदंशानां सत्त्वं २० विवेको वा प्रत्येतुं कथं शक्यो यतः सकलविकल्पातीतं तत्त्वं भवेत् ।
एतेन एकानेकविकल्पशून्यत्वं परीक्षितम् , न्यायस्य समत्वात् । तथापि तत्त्वकल्पने तत् मिथ्याव्य]वस्थामवतरति इति हेतोः संवेदनलक्षणो यः तत्त्वस्वभावः स्थिरस्थूलादि [७९ख] ग्राह्याकारलक्षणश्च मिथ्यास्वभावः तयोरेकत्वम् अभ्युपगन्तव्यम् । तस्मिंश्च तत्त्वमिथ्यास्वभावैकत्वे अभ्युपगम्यमाने सामान्यविशेषात्मकम् । क ? बहिरन्तश्च । कथम् ? यथादर्शनं दर्शनाऽ- २५ नतिक्रमेण। कथम्भूतम् ? परिणामि तत् किन्नलक्ष्यते ? लक्ष्यत एव तत्त्वमिति । ननु घटाद्याकार एव (रमेव) संवेदनं न तस्मात् तदन्यद् ग्राह्याकारो वा तत्कथं तत्त्वमिथ्यास्वभावैकत्वमिति चेत् ?
(१) बाह्यार्थोऽस्तीति ग्राहः अभिनिवेशः। उद्धृतोऽयम्-न्यायवि. वि. द्वि० पृ० १७ । (२) तुलना-'यद्भावस्वपरभावसत्यासत्यशाश्वतोच्छेदनित्यानित्यसुखदुःखशुच्यशुच्यात्मानात्मशून्याशून्यलक्ष्यलक्षणेकरवान्यत्वोत्पादनिरोधादयो विशेषाः तस्य न संभवन्ति ।"-बोधिच. प. पृ० ३६६ । (३) अक्रमस्व. सकलविकल्पातीतयोः । (४) सकलविकल्पातीतत्व । (५) सन्तानान्तरवदभाव इत्यर्थः। (६) पूर्वोत्तराभ्याम् । (७) "निःस्वभावा अमीभावाः तत्त्वतः स्वपरोदिताः। एकानेकस्वभावेन वियोगात् प्रतिबिम्बवत् ॥"-बोधिच. प० पृ० ३४८ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org