________________
सिद्धिविनिश्चयटीकायाम. [१ प्रत्यक्षसिद्धिः अधुना 'यथादर्शनमेव' इत्याद्युक्त्वा भावतः सौत्रान्तिकादिसमयभेदेन क्षणक्षयादिकं वदतः सुगतस्य प्रज्ञापराधं दर्शयन्नाह-कथञ्चिद् इत्यादि । कथञ्चित् केनापि प्रत्यक्षप्रकारेण अनुमानप्रकारेण वा याथात्म्यप्रतिपत्तिर्या तामन्तरेण यथादर्शनमेव इत्यादि वचनं ब्रुवतः कथयतः । कानि ? क्षणिकभ्रान्तैकान्तचित्तसन्तानान्तराणि । क्षणिकग्रहणं सौत्रान्तिकमतत५ त्त्वोपलक्षणार्थम् , तेन सर्वसंसारेतरवमवित्तिः गृह्यते । भ्रान्तकान्तवचनम् *"यद् विशददर्शनपथावतारि न तत् परमार्थसत् यथा तैमिरिकोपलब्धं केशादि" इत्यस्य माध्यमिकविशेषस्य मतसंग्रहार्थम् 'चित्तं च तत्सन्तानान्तराणि' इति कथनं योगाचारस्य', तेषां द्वन्द्वः तानि इति ।
न केवलं तान्येव किन्तु स्वभावनैरात्म्यं वा सकलशून्यत्वं वा अवतः। कस्य किं जातम् ? , इत्यत्राह-शौद्धोदनेः इत्यादि । शौद्धोदने [७८क सुगतस्यैव नान्यस्य तावदयं प्रज्ञापराधः १. कथं केन प्रकारेण 'जातः' इत्यध्याहारः इति हेतोः सविस्मयंसाश्वर्यं सकरुणंसदयं नः अस्माकं
चेतः। *"विधूतकल्पनाजाल" [प्र. वा. १।१] इत्यादि विशेषणस्य कारणमन्तरेणैव स जात इत्यभिप्रायः । साम्प्रतं तदनुसारिणां तदपराधं दर्शयन्नाह-सन्ति इत्यादि । सन्ति अस्यापि प्रज्ञापराधवतोऽपि अनु पश्चात् वक्तारः तदुक्तं समर्थयितारः इति किम् अन्यद् अनात्मज्ञतायाः सैव इति ।
ननु च ग्राह्याकारं स्वप्नेतरसाधारणम् अविचारितरमणीयमुद्दिश्य *"यथादर्शनमेव" [प्र. वा० २।३५७] इत्याद्युक्तम् । तथाह-प्रज्ञा क र गु तः *"प्रमाणमविसंवादि ज्ञानम् इत्यादि प्रमाणलक्षणं व्यवहारेण" [प्र० वार्तिकाल० २।५] एतदेवाह-यथादर्शनम् इत्यादि । यथादर्शनं प्रमाणादिरूपेण अविचारितरमणीयम् । किं तत् ? इत्यत्राह-चित्तं ज्ञानम् । कथं
भूतम् ? बहिर्मुखाकारं तेन रूपेण तत्तथेति मन्यते । स्वरूपसंवेदनं तूद्दिश्य परमार्थत एव २० प्रमाणादिरूपम् । तथा चाह स एवं *"अज्ञातार्थप्रकाशो वा इत्येतल्लक्षणं परमार्थेन प्रमा
णान्तरेण अज्ञातस्य संवेदनाद्वैतस्य प्रकाशनात्" [प्र० वार्तिकाल० २।५] एतदप्याहपरमार्थ इत्यादिना । परमार्थो वस्तुभूतम् एकम् अखण्डम् संवेदनं स्वसंवेदनाकारो यस्य तत् तथोक्तम् 'चित्तम्' इति सम्बन्धः । ततः 'प्रमाणादेरभावात्' इत्यसिद्धमिति भावः परस्य ।
अत्रोत्तरमाह-स्वयम् इत्यादि । स्वयम् इत्यादिना अभ्युपयतः [७८ ख] अभ्युपगच्छतः तथा. २५ विधं चित्तं सौगतस्य परमात्मसिद्धिरेव परमस्य अनेकान्तरूपस्य आत्मनो जीवस्य उक्तन्यायेन
सिद्धिरेव न सन्देहादि किन्न भवेत् स्यादेव । 'परमार्थसिद्धिरेव' इति वा पाठो द्रष्टव्यः । अत्रायमर्थः-यथा प्रतिभासाविशेषेऽपि संवेदनबहिर्मुखाकारयोः परमार्थतः सत्येतरव्यवस्था तथा तदविशेषेऽपि स्वप्नेतरबहिर्मुखाकारयोरपीति निर्णीतप्रायमेतत् ।
स्यान्मतम्, सौत्रान्तिकादिदर्शनभेदः संवेदनग्राह्याकारयोः सत्येतरभेदश्च व्यवहारेण न ३० परमार्थतः तथागतेनोक्तः ततोऽयमदोषः । तथा चोक्तम्
(१) मतसंग्रहार्थम् । (२) शुद्धोदनस्य अपत्यं शौद्धोदनिः तस्य बुद्धस्येत्यर्थः । (३) "विधूतकल्पनाजालगम्भीरोदारमूर्तये। नमः समन्तभद्राय समन्तस्फुरणविषे॥" इत्यत्र । (४) प्रज्ञाकरगुप्तः “तत्र पारमार्थिकप्रमाणलक्षणमेतत् पूर्व तु सांव्यवहारिकस्य"-प्र. वार्तिकाल ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org