________________
. ९३
१।२२]
निर्विकल्पकनिरासः कोऽसौ ? इत्याह-तथागतः सुगतः। कथम्भूतः? इत्याह-अनात्मज्ञः आत्मानं स्वस्वरूपम् उन्मत्तवत् न जानाति इत्यनात्मज्ञः । कथम् ? अध्यक्षम् स्पष्टं यथा भवति । तथाहि-यदि सर्वाभावः; न तर्हि प्रत्यक्षमपि, इति कुतस्तस्य तत्प्रतिपत्तिः यतः तं परं प्रति ब्रूयात् । अथ प्रत्यक्षमस्ति; न सर्वथाऽभावः । अस्यापि ततो व्यतिरेके तद्र पताव्यतिरेके सम्बन्धाऽसिद्धेः, न तस्य ग्रहणम् । तदुत्पत्तिसारूप्यकल्पने; न सर्वशून्यता इति । तथा, परप्रतिपादनोपायलिङ्गवचनभावा- ५ भावयोः अनिवृत्तः प्रसङ्गः । यदि च ज्ञानं भ्रान्तम् ; कथं प्रत्यक्षम् ? ततः तस्य सिद्धिर्वा विषयवत् । एवं वचनादावपि वक्तव्यम् ।।
स्वभाव इत्यादिना [७७क] कारिकार्थमाह-स्वभावनैरात्म्य रूपरहितत्वम् सर्वथा पररूपादिना इव स्वरूपादिनापि सर्वभावानां चेतनेतरवस्तूंनां ब्रवन विनेयसत्त्वान् प्रति कथयन् प्रत्यक्षं तद्विषयम् आत्मनि विशदं ज्ञानम् अभ्रान्तं विभ्रमरहितम् लक्षयन् कथमनुन्मत्तः ? १० सुगतः अन्यो वा उन्मत्त एव । यत्पुनरुक्तं परेण
*"यथादर्शनमेवेयं मानमेयव्यवस्थितिः।
क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम् ॥" [प्र० वा० २।३५७] इति ; तत्राह-कुतश्च इत्यादि। कुतः न कुतश्चित् । च शब्दः पूर्वसमुच्चयार्थः । यथादर्शनमेव-यथाप्रतिभासमेव मानमेयफलव्यवस्थितिः न पुनः यथातत्त्वम् न तु परमार्थाऽन- १५ तिक्रमेण इत्येवम् स्वयम् आत्मना अवबुद्ध्येत पायं (प्रतिपाद्यं) बोधयति वा । कुत एतत् ? इत्यात्राह-प्रमाणादेरभावात् स्वावबोधे अध्यक्षस्य परावबोधे अनुमानस्य प्रमाणस्य आदिशब्देन वचनस्य अभावात् । भावे वा स्ववचनविरोध इति मन्यते ।
· ननु च न प्रमाणबलात् स्वभावनैरात्म्यं *"यथादर्शनमेव" इत्यादि वा कश्चित् प्रतिपद्यते प्रतिपादयति वा येनायं दोषः स्यात् ; अपि तु विचारात् । तदुक्तम्
*"तदेतन्नूनमायातं यद्वदन्ति विपश्चितः ।
यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥" [प्र०वा० २।२०९] इति चेत् ; अत्राह-'यथा यथा' इत्यादि । यथा यथा येन अवयवावयविबाह्येतरसत्येतरादिप्रकारेण [चिन्त्यन्ते] विचार्यन्ते अर्था भावा तथा तथा विशीर्यन्ते शून्या भवन्ति इत्येवं मिथ्याज्ञानात् न [७७ख प्रतिपत्तुमर्हति, विचारस्यास्य "प्रत्यक्षानुमानत्वेन प्रमाणत्वाभा- २५ वात् मिथ्याज्ञानत्वमिति भावः। ननु च सर्वस्य तत्त्वव्यवस्थापने अयं विचार एव परं शरणं परमार्थतः प्रमाणादेरभावादिति चेत् ; अत्राह-समयान्तरवत् इति । समयान्तराणि नित्यादिदर्शनानि तथैव (तथेव) तद्वत् इति । यथा अयं सुगतोऽन्यो वा तेष्वपि मिथ्याज्ञानात् न किश्चित् प्रतिपत्तुमर्हति तथा स्वसमयेऽपि इति दृष्टान्तार्थः ।
(१) बहिरन्तरर्थाभावस्य प्रतिपत्तिः। (२) भेदे । (३) लिङ्गवचनयोः भावः सद्भावश्चेत् ; न .. सर्वशून्यता । अभावश्चेत् ; कथं ताभ्याम् परस्य प्रतिपत्तिरिति भावः । (४) प्रत्यक्षात् । (५) सर्वाभावस्य । (६) स्वस्वरूप। (७) "कल्पनापोढमभ्रान्तं प्रत्यक्षम्" [न्यायबि०१४] इत्यादिना लक्षयन् । (6) "मानमेयफलस्थितिः"-प्र. वा० । (९) 'इदं वस्तुबलायातम्'-प्र० वा०। (१०) प्रत्यक्षरवेन अनुमानत्वेन वा प्रमाणत्वाभावे मिथ्याज्ञानत्वमेव आपद्यत । (११) मतान्तरेषु ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org