________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः शब्दवत् इत्यादिना कारिकां विवृणोति-शब्दस्य इव दृश्यमानानि प्रत्यक्षीक्रियमाणानि यानि स्वलक्षणानि परमाणुलक्षणानि [तेषाम् ]तदनालता(नात्मता) याम्' अतत्स्वभावतायाम् अङ्गीक्रियमाणायाम् आकारस्य स्थवीयसः स कथं तत्र आकारः स्थवीयान् अन्वयी अवभासते, नैव । अत्र निदर्शनमाह-रसादिकमिव । यथा रसादिकं परस्परमनात्मतायां तत्र परस्परात्मनि ५ नावभासते तथा प्रकृतमपि इति, तस्य आकारस्य प्रतिभाससंभवे स्वलक्षणेषु शब्दः किन्नावभासते ? यतः यस्माद् अनवभासाद् अयं सौगतो लोको वा शब्दयोजनारहितमथं पश्येत् । 'यतः' इति वा आक्षेपे, नैव पश्येत् । तदेवं व्यवसायात्मके ज्ञाने प्रमाणे सति सुस्थितमेतत्-'प्रमाणस्य फलं साक्षात्' इत्यादि ।
__ अत्रापरः प्राह स्वार्थयोरभावाद् [७६ख] भ्रान्तत्वाद्वा कस्य का सिद्धिः यतः तस्याः १० कस्यचित् प्रमाणस्य भावात् तत्सूक्तं स्यात् इति; तं प्रत्याह-ब्रुवन् इत्यादि ।
[ब्रुवन् प्रत्यक्षमभ्रान्तं बहिरन्तरसंभवम् ।
अनुमानबलादध्यक्षमनात्मज्ञस्तथागतः ॥२२॥ स्वभावनैरात्म्य सर्वथा सर्वभावानां ब्रुवन् प्रत्यक्षमभ्रान्तं लक्षयन् कथमनुन्मत्तः? कुतश्च यथादर्शनमेव मानमेयफलस्थितिः न पुनः यथातत्त्वमिति स्वयमबुद्ध्येत बोधयति १५ वा प्रमाणादेरभावात् । *"यथा यथार्थाः चिन्त्यन्ते विशीयन्ते तथा तथा" इति मिथ्याज्ञानान्न प्रतिपत्तुमर्हति समयान्तरवत् । कथञ्चिद्याथात्म्यप्रतिपत्तिमन्तरेण यथादर्शनमेवे क्षणिकभ्रान्तैकान्तचित्तसन्तानान्तराणि स्वभावनैरात्म्यं वेत्यादि ब्रुवतः शौद्धोदनेस्तावदय प्रज्ञापराधः कथमिति सविस्मयसकरुणं नश्चेतः । सन्त्यस्यापि अनुवक्तार इति कमन्यदनात्मज्ञतायाः । यथादर्शनं चित्तं बहिर्मुखाकारं परमार्थैकसंवेदनं स्वयम२० भ्युपयतः परमात्मसिद्धिरेव किन्न भवेत् ? तत्त्वमक्रमं सकलविकल्पातीतं यथादर्शनं मिथ्या
व्यवस्थामवतरति, तत्त्वमिथ्यास्वभावयोरेकत्वमभ्युपगन्तव्यम् । तसिंश्च सामान्यविशेषात्मकत्वं बहिरन्तश्च परिणामि किन्न लक्ष्यते ? सर्वथा अनेकान्तसिद्धेरनिवारणात् ।]
बहिरन्तरसंभवम् । कथम्भूतम् ? प्रत्यक्षं प्रमाणप्रमितं स्वयं तत्प्रतीतौ तथागतस्य प्रत्यक्षैकप्रमाणात्मकत्वेन प्रमाणान्तराभावात् इति मन्यते । कुत एतदिति चेत् ? अत्राह२५ अभ्रान्तं विभ्रमरहितं यतः, तथाविधस्यैव प्रत्यक्षत्वात् , इतरथा मरीचिकाजलवत् कथं प्रत्यक्षं
तत् ? किं कुर्वन् ? इत्याह-ब्रुवन् विनेयसत्त्वान् प्रति कथयन् । कुतः ? अनुमानबलात् त्रिरूपलिङ्गसामर्थ्यात् । वचनमात्रात् तेषां तत्प्रतिपत्त्ययोगात् , प्रमाणान्तरं वा स्यादिति भावः। अत्रापि 'अभ्रान्तम्' इति क्रियाविशेषणत्वेन सम्बन्धनीयम् , अभ्रान्तं यथा कुर्वन् (ब्रुवन्) इति ।
(6) स्थूलात्मकताभावे । (२) स्थवीयसः। (३) सिद्धिवि० १३ । (४) अभाववादिनं विभ्रमवादिनं वा । (५) प्र. वा० २।३५७ । (६) तुलना-"तत्र शौद्धोदनेरेव कथं प्रज्ञापराधिनी बभूवेति वर्थ तावद् बहुविस्मयमास्महे ॥ तत्राद्यापि जडाः सक्तास्तमसो नापरं परम् ।"-न्यायवि० ११५२, ५३ । अष्टश०, अष्टस० पृ० ११६ । “आचार्यस्तस्यैव तावदिदमीदृशं प्रज्ञास्खलितं कथं वृत्तमिति सविस्मयानुकम्पं नश्चेतः। तदपरेऽप्यनुवदन्तीति निर्दयाक्रान्तभुवनं धिग्व्यापकं तमः।"-वादन्या०टी० पृ. ५१ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org