________________
१२२१]
निर्विकल्पकनिरासः कारः तथा तेषू स्थूलाकार एव प्रतिभाति न शब्दाकारः, प्रसिनियतत्वाद् भ्रान्तीनाम् । तथा दर्शनादिति चेत् ; नैतदस्ति; यतः न खलु तेषु कदाचित् कचिदसतःस्थूलाकारस्य प्रतिभासदर्शनात् सर्वत्र सर्वदा तेनैव प्रतिभासितव्यम् , तथा शब्दाकारस्य तथा प्रति[७५खभासदर्शनात् तेन न प्रतिभासितव्यम्' इति निश्चयोऽस्ति, कस्यचिद् उपलशकलविशेषे कदाचिदसतो रजताकारस्य प्रतिभासदर्शनेऽपि तत्रैव पर्यायेण कनकोपयोगिनोऽसतः कनकाकारस्य प्रतिभासदर्शनात् , ५ तेषु शब्दाकारोऽपि प्रत्यभात् प्रतिभात्यत्र प्रतिभास्यति इति शङ्का न निवर्तत इति *"तद्धि अर्थसामर्थ्यादुपजायमानम् अर्थस्यैव आकारम् अनुकरोति न शब्दादेः" इति प्राकृतमेतत् ।
। अन्ये तु मन्यन्ते-'चक्षुरादिना रूपादिपरमाणुषु नेन्द्रियान्तरविषयस्या (स्य) सतोऽपि ग्रहणम्, अदर्शनात् । न वै विभ्रमदशायामपि चक्षुषि गन्धः प्रतिभाति इन्द्रियान्तरवैफल्यं वधिराभावश्च स्यात्' इति; तन्न युक्तम् ; असर्वदर्शिनोऽदर्शनमात्रेण तथानिश्चयाऽयोगात् , अन्यथार्तत १० एव सर्वरसादीनाम् एकाध्यक्षेण ग्रहणासिद्धरसर्वज्ञं" जगत् स्यात् । मनोक (SR) विषयस्य स्थूलस्य अनेकावयवगुणसाधारणत्वेन सामान्यस्य एकस्याकारस्य अक्षान्तरे चक्षुरादिकेऽपि प्रतिभासाभ्युपगमात् परेण अनेकान्तः चेत (चेत् ;) नेन्द्रियान्तरवैफल्यं निरस्तम् ; अन्यथा समान्यस्य चक्षुरादिना ग्रहणे अनुमानवैयर्थ्यमापद्यत "तस्य सामान्यविषयत्वात् *"अन्यत सामान्यं सोऽनुमानविषयः" [न्यायबि० १।१६, १७] इति वचनात् ।।
यत्पुनरुक्तम्-'वधिराऽभावः स्यात्' इति; तदपि न दोषाय; "कस्यचित् तत्प्रतिभासोपगमात् , तस्यावाधिर्येऽपि न सर्वस्य तत् [७६क] "सोऽपि वा वधिरोऽस्तु श्रवणेन शब्दाऽग्रहणात् । ननु प्रतिभातु शब्दोऽपि तेषु, नैतावता शब्दकल्पना अध्यक्षे, असता तेन तदयोगादिति चेत् ; तर्हि अभिलापसंसर्गयोग्यप्रतिभासात् कल्पना कचि ज्ञाने न स्यात् , "सोऽपि तत्र अन्यत्र वा न परमार्थसन् । अथवा, यथा परमाणुरूपतायां स्थूलाकारोऽसन् न स्वरूपेण बाधकाभावात् २० तथा शब्दोऽपि इत्यदोषः । यत्पुनरुक्तं परेण
*"अर्थोपयोगेऽपि पुनः स्मात् शब्दानुयोजनम् ।
"अक्षधीर्यद्यपेक्षेत सोऽर्थो व्यवहितो भवेत् ॥" "इति ; तदप्यनेन दूषितम् ; स्थूलाकारवत् तेषु' शब्दाकारस्यापि अस्मृतस्य अवभासाविरोधात् । २५
(१) परमाणुषु खलक्षणेषु । (२) पुरुषस्य । (३) क्रमशः । (४) कनकार्थिनः कस्यचित् । (५) स्वलक्षणेषु । (६) "तदुक्तम्-तद्ध्यर्थसामर्थेनोपजायमानं तद्र पमेवानुकुर्यात् ।" -हेतुबि० टी० पृ० १९५ । प्र. वार्तिकाल०पृ० २७८ । (७) असङ्गतमेतत्, प्राकृतमेतत् ग्राम्याथै प्रयुज्यते, असंस्कृतमित्यर्थः । (6) गम्धादेः । (९) अदर्शनमात्रादेव । (१०) अतीन्द्रियेण । (११) सर्वज्ञशून्यम् । (१२) अनुमानस्य । (१३) सर्वज्ञस्य । (१४) सर्वज्ञोऽपि । (१५) शब्देन । (१६) बालकस्य अव्युत्पन्नसकेतस्य । (१७) अभिलापसंसर्गयोग्यप्रतिभासोऽपि । (१०) निर्विकल्पकप्रत्यक्षम् । (१९) स्मार्तेन शब्दानुयोजनेन, तथा च साक्षात् स्वलक्षणरूपादर्थात् इन्द्रियज्ञानं न स्यात् । (२०) उद्धृतोऽयम्-तत्वोप० पृ०४० । अष्टस पृ० १२२ । न्यायवा० ता० टी० पृ. १३६ । न्यायम. प्र. पृ० ८६ । सन्मति० टी० पृ. ५२५ । (२१) स्वलक्षणेषु तग्राहिषु इन्द्रियप्रत्यक्षेषु वा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org