________________
९०
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः भूतात्मा" [व०बि०११] इत्यादेः' *"यथा विशुद्धमाकाशम्"[बृहदा०भा०वा० ३।५।४३] इत्यादेश्च श्रुतेः अविभागोऽपि ब्रह्मा भागीव लक्ष्यत इत्युच्यते ; तर्हि *"सद्भि[रसद्मि]र्वा" [सिद्धिवि० १।१३] इत्यादि समानम् । शक्यं हि वक्तुम्-यदि सद्भिः असद्भि
र्वा चेतनेतराद्याकारैः कस्यचिद् ब्रह्मणः एकत्वं तथैव बहिरन्तर्मुखादिभिः तत् किन्न कस्यचिद् ५ बुद्ध्यात्मनः सिध्येत् । यदि पुनः विद्येतरयोः एकत्वविरोधात् तस्माद् आगमो (आरामो) भिन्न
इध्यते; तर्हि तदप्रत्यक्षत्वे इदं समानम्-*"तदप्रत्यक्षत्वे विषयवत् स्वभावासिद्धिप्रसङ्गात्" [सिद्धिवि० १११५] इत्यादि । तथा च तदाग (रा)मयोरप्रतिभासनात् सकलशून्यता इति ।
__स्यान्मतम्-"आरामस्य स्वतो दर्शनम् ; स्वसंवेदनग्राह्याकारवत् प्रसङ्गः। यदा तु आरामविविक्तमात्मानमसौ पश्यति ; तदा विभ्रमाभावः । नेति चेत् ; आयातमिदं समानम्-वित्तेः १० इत्यादि। तदेवं समाने प्रसङ्गे बुद्धिब्रह्मात्मनोः त्यागाभ्युपगमाविशेषेण इति मन्यते । ननु किमु
[७५क] ते समानः, यावता 'बुद्धथभ्युपगमे 'क्षणयस्तत्तनान्तर (क्षणक्षयसन्तानान्तर) साधने महान् प्रयासः न पुनः ब्रह्मोपगमे तत्र तदभावाऽभ्युपगमादिति चेत; अत्राह-केवलम् इत्यादि । सुगमम् । अयमत्राभिप्रायः-तत्प्रतिभासतया बुद्धिमेकाम् अनभ्युपगच्छतोऽपि समयान्तरप्रवेशः
परस्य इति । १५ एवं *'ततः किम्' इत्यादिना ग्रन्थेन जातिगुणक्रियात्मिकाम् अध्यक्षे कल्पनां प्रसाध्य,
साम्प्रतं यदुक्तं परेण -*"न ह्यर्थे शब्दाः सन्ति तदात्मानो वा येन तस्मिन् प्रतिभासमाने तेऽपि प्रतिभासेरन " इत्यत्र *"यद् यत्र नास्ति तस्मिन् अवभासमाने तन्नावभासते यथा रूपे रसः, नास्ति च अर्थे शब्दः" इति ; तत्र पराभ्युपगमेन हेतोः व्यभिचारं दर्शय
नाह-स्थूलम् इत्यादि । २० [स्थूलमेकासदाकारं परमाणुषु पश्यताम् ।
स्वलक्षणेषु पुनस्तेषु शब्दः किन्नावभासते ॥२१॥
शब्दवत् दृश्यमानस्वलक्षणानां तदनात्मतायां कथं तत्र स्थवीयानाकारोऽन्वयी __ अवभासते रसादिवत् ? यतोऽयं शब्दयोजनारहितमर्थ पश्येत् । ]
स्थूलं महत्त्वोपेतं एकम् अनेकावयवगुणसाधारणम् आकारम् पराभ्युपगगेन २५ असन्तम् अविद्यमानं स्वलक्षणेषु । कथंभूतेषु ? परमाणुषु पश्यतां सौगतानाम् ।
पुनः इति पक्षान्तरसूचकः, तेषां तेषु शब्दः किन्नावभासते अवभासत एव असत्त्वाऽविशेषात् । तथा च *"पश्यन्नयम् अशब्दमर्थस्य पश्यति" इति दुर्लभम् ।।
ननु च मरीचिकादौ यथा जलाद्याकार एव असंप्र (असन्प्र )तिभाति ननुरागा (नतुरगा)
(6) "एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ॥"त्रि. ता.५।१२। (२) "...तिमिरोपप्लुतो जनः । संकीर्णमिव मात्राभिश्चिमाभिरभिमन्यते॥ तथेदममलं ब्रह्म निर्विकारमविद्यया कलुषत्वमिवापन्नं भेदरूपं प्रपश्यति॥"-बृहदा० भा० वा० ३।५।४३, ४४ । (३) एकत्वम् । (४) पर्यायस्य । (५) सौगताभिमत । (६) क्षणक्षयश्च सन्तानान्तरं च, तयोः साधने क्रियमाणे । () बौद्धन। (८) उद्धतमिदम्-न्यायप्रवृ० पृ० ३५। अष्टस पृ०११८ । न्यायवि० वि० प्र० पृ० १३२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org