________________
१२२० ]
अद्वैतनिराकरणम् पत्तावपि । नहि आधाराऽग्रहणे तदपेक्षमाधेयत्वम् आत्मभूतमपि प्रत्येतुं शक्यम् । ननु तद्भेदवत् तन्मात्रस्याप्यप्रतीतिरिति चेत् ; अत्राह-यत इत्यादि । सामान्यप्रत्यक्षत्वे उभयविशेषाणां तद्विपरीतविशेषाणां वा स्मृतौ संशयादिः, तद्वयवच्छेदार्थं च प्रमाणान्तरं प्रवर्तते । तन्मात्राsप्रत्यक्षे तु दुर्लभमेतत् [७४क] ततोऽसंव्यवहारप्रसङ्गात् तत्प्रमितिसाधनं समज्जसम् इति।
किञ्च, अयं 'स्थाणुः पुरुषो वा ? पुरुष एव' इति वा संशयादिज्ञानम् एकधर्मिणि अर्थ- ५ विषयम् अन्यत्र विपरीतमभ्युपगच्छन् दृश्येतररूपमेकभियोग (कं नाभ्युपगच्छति इति) कथं न स्वर (स्वैर)चेष्टितः ?
साम्प्रतं सौगतादिदोषं पुरुषाद्यद्वैतमतेऽपि समानमित्यस्य प्रदर्शनार्थं तदेव दर्शयति यत्पुनः इत्यादिना । यन्मतं पुनः सौगतादिमताद् अन्यत् । किम् तदागमं (तत् ? आराम) चेतनादिभेदादोयं (भेदमाराम) तस्य पुरुषादेः पश्यन्ति द्रष्टारः न तं पुरुषादिमद्वैतरूपं कश्चन १० तेषां तदृष्ट्रणां कश्चित् पश्यति । इति शब्दः औद्यर्थः । तेन
*"गुंणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तुं दृष्टिपथप्राप्तं तन्मायेव सुतुच्छकम् ॥" *"'नित्यः सन्मात्रदेहः विविधकृतिरिह द्रव्यमेकः पदार्थः, यत्तत्कुक्षिं प्रविष्टा जलमही(ह्यग्नि)वायवः प्राणिनश्च । . एको देशोऽस्य तिर्यकसुरनरनरकेष्वस्ति सांसारिकत्वम् , .
देशोऽन्यः तस्य नित्यः शिवसुखमतुलं प्रानु तेसौ(सोऽ)द्विरूपः ॥" ___ इत्यादर्ग्रहणम् । तत्रापि यत् तन्मतं 'यत्' इत्यनेन निर्दिष्टं तत्र इत्यनेन परामृश्यते । न केवलं सौगतादिमते अपि तु तत्रापि सर्वोऽप्युक्तदोषः अ क ल क दे व स्य प्रत्यक्षतया मनसि प्रतिभातीति तम् 'अयम्' इत्यनेन निर्दिशति । समानः साधारण[:] प्रसङ्गो दोषः । तथाहि- २० यदुक्तं सौगतं प्रति *"नहि बहिरन्तर्वा जातुचिद[७४ख]साहायमाकारं पश्यामः यथा व्यावर्ण्यते तथैवाऽनिर्णयात् ।" [सिद्धिवि० १।१०] इत्यादि, त[द]त्रापि समानम् ।
यत्पुनरेतत् * "एकान्तस्य उपलब्धिलक्षणप्राप्तौ असत्त्वम् अन्यथा स्यादप्रमेयत्वम्" [सिद्धिवि०१।९] इति तदपि, तथा *'प्रतिभासैक्यनियमे" [सिद्धिवि०१।१०] इत्यादि चेत् ["च] *"तस्यारामम्"[बृहदा०४।३।१४] इति वचनात् "तदारामयोः कथश्चिदेकत्वे विभ्रमे- २५ तरविकल्पेतरादीनाम् आकाराणां तेन एकत्वाभ्युपगमस्य अवश्यम्भावात् । अथ *"एक एव हि
(१) विशेषवत् । (२)"सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः"-वैशे०सू० २।२।१७। (३) नैयायिकादिः । (४) प्रकारार्थः । (५) सांख्यानां मतमिदम् । कारिकेयं निम्नलिखितग्रन्थेषु समुद्धताऽस्ति-"तथा च शास्त्रानुशासनम्-गुणानां..."-योगभा०४।१३ । “षष्टितन्त्रशासनस्यानुशिष्टिः-गुणानां ....."-योगभा. तत्ववै०४३। "भगवान वार्षगण्यः-गुणानां..."-शा. भा. भामती पृ० ३५२ । नयचक्रवृ० पृ०:६३ । तत्त्वोप० पृ० ८० । “गुणानां सुमहद्र पम् .."-प्र. वार्तिकाल० ४.१२ । लघी. स्व०पृ० १४ । अष्टस०पृ० १४४ । (६) सत्त्वरजस्तमसाम् । (७) उत्कृष्टं रूपं प्रधानम् । (८) विकाररूपं महदादि । (९) अद्वैतवादी । (१०) दूषणम् । (11) ब्रह्मतद्विवर्तयोः।
१२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org