SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ८८ सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः त्मभूतः (अथ असन्नात्मभूतः) ततः सीद्यद्या (सा यद्या) त्मनो भेदमवैति कुतस्तदाकारा भ्रान्तिः यतः *"यदवभासते [तत्] ज्ञानम् यथा सुखादि, अवभासते च स्तम्भादिनीलादिकम्" इत्यत्र आश्रयासिद्धिर्न स्यात् । नहि पीततारहिते शुक्ले शङ्ख प्रतिभासमाने पीतताविभ्रमो युक्तः । अथ तं नावैति; सिद्धः स्वप्रमितेरसाकल्यसंभवः इति । ५ कारिकां विवृण्वन्नाह-बहिरन्तर्मुख इत्यादि । अत्र आदिशब्देन संवेदनविकल्पेतरादिपरिग्रहः, स एव निर्भास आकारः स एव च विरुद्धोधर्मः तस्य अनभ्युपगमेऽपि न केवलमभ्युपगमे तस्याः वित्तेः विषयनिर्भासस्य घटाद्याकारस्य संबन्धी यः विवेकः स एव परमार्थः तस्याः (तस्य) प्रतीतावपि कथञ्चित् संचेतनादिरूपेण संवेदनात् अनेकान्तसिद्धिः । एवं तावद् दृश्यतरवित्तिनिदर्शनेन सौगतप्रसिद्धेन विषयस्वलक्षणे प्रमितेरसाकल्यसंभव उक्तः । इदानीं तं १. [७३क] प्रति लोकप्रसिद्धन दृश्येतरबाह्यनिदर्शनेन स उच्यते दूरेत्यादिना । अत्र आदि शब्देन [दूरतर]दूरतमपरिग्रहः, तत्र व्याप्तचक्षुषां पुसां वस्तुनो वृक्षादेः सत्तैव तन्मात्रं तस्य अविसंवादात् कारणात् तस्या असाकल्यप्रमितेः साधनं समञ्जसं युक्तम् । कस्मिन् सत्यपि ? इत्यत्राह-तस्य वस्तुसत्तामात्रस्य ये भेदा विशेषा वृक्षादयः तेषामप्रतिपत्तावपि न केवलं प्रतिपत्तौ । च शब्दः अपिशब्दार्थः । एददुक्तं भवति-यथा दूरदूरतरादौ प्रत्यक्षेण विशेषा१५ ग्रहणेऽपि तत्सत्तामात्रग्रहणं तथा प्रकृतेऽपि दृश्येतरत्वं स्यादिति । 'यतः' इत्यादिना एतदेव भावयति-यतः यस्माद् यावदपि यत्परिमाणस्य पूर्वमुपलम्भो मयोक्तः तत्परिमाणस्य यथा भवति नाधिकस्य, तथा परेणापि उच्यते यदा तदा यावत् तावदपि यथा भवति तथा उपलम्भः तमन्तरेण प्रमाणान्तरस्य अनुमानस्य अवृत्तेः अप्रवृत्तेः हेतोः असंव्यवहारप्रसङ्गात् कारणात् तत्प्रमितिसाधनं 'समञ्जसम्' इति सम्बन्धः । एतदुक्तं भवति-दूरदूरतरादौ यथा तद्भदाऽ. २० प्रतीतिः तथा चेद् वस्तुसत्तामात्रस्याप्यप्रतीतिः तर्हि तंत्र व्यापृतचक्षुषामन्धतैव स्यात् । न खलु सामान्यविशेषावन्तरेण तत्त्वमस्ति यत् तत्रावभासेत । तथा च विशेषमात्रमिदं सत्तामात्रं [७३ख केनचिद् विशेषेण तद्वत्त्वात् पूर्वदृष्टतन्मात्रवद् इति तदवृत्तिः, तस्या (तस्यां) च तत्र तदप्रवृत्तिः, न चैवम्, प्रवृत्तिदर्शनात् । ननु भेदवत् तन्मात्रस्यापि न तत्र प्रतीतिः, अभेदाद्यात् (दाध्यव सायात्) प्रतीतिः सा भ्रान्ता, तत एव प्रमाणान्तरवृत्तिः *"ममैवं प्रतिभासो यः"[प्र०वार्ति२५ काल० २।१] इत्यादि इति चेत् ; उक्तमत्र-तत्र व्यापृतचक्षुषां वस्तुसत्तामात्राविसंवाददर्शनात् । तथापि तद्विभ्रमे न किञ्चिभ्रान्तं स्यात् । ___ अथवा, सौगतं प्रति दृश्येतरबुद्धिदृष्टान्तसद्भावादस्तु स्वप्रमितेविषयस्वलक्षणे असाकल्यसंभवो नैयायिक प्रति विपर्ययादिति चेत् ; अत्राह-दूरेत्यादि । तत्र 'व्यापृतचक्षुषाम्' इत्य नेन वस्तुसत्तामात्रविषयं प्रत्यक्षं दर्शयति, वस्तु द्रव्यादि तस्य सत्तामात्राविसंवादात् तत्प्रमिति३० साधनम् असाकल्यप्रमितिसाधनं समञ्जसं युक्तम् । कस्मिन् सत्यपि ? इत्यत्राह-तभेदाप्रतिपत्तौ च तस्य तन्मात्रस्य भेदो द्रव्याद्याधारपेक्ष्याधे (रमपेक्ष्य आधे)यत्वविशेषः तस्याप्रति (6) सत्वेन चेतनत्वेन वेत्यादिरूपेण । (२) दूरदूरतरादौ। (३) विशेषवत्त्वात् । (४) सत्ता मात्रस्यापि । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004038
Book TitleSiddhi Vinischay Tika Part 01
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages686
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy