________________
१।२०]
निरंशसंवेदननिरासः इति न कथञ्चिदपि तत्प्रत्यक्षम् , प्रतिपन्नव्यभिचारस्तु 'प्रतिभासोऽयम् अभिमतसंस्थानवान् पूर्वदृष्टैवंप्रतिभासवत्' इति पर्यालोच्य प्रवर्त्तते इत्यनुमानमेव तत्राविसंवादकम् । तदुक्तम्
*"ममैवं प्रतिभासो यः न स संस्थानवर्जितः । एवमन्यत्र [७२क] दृष्टत्वात् अनुमानं तथा सति ॥" [प्र० वार्तिकाल० पृ०५] इति ।
तत्रोत्तरम्-उपप्लुताक्षाणामपि इत्यादि । उपप्लुताक्षाणां न केवलं विपरीतानां विनैव ५ लिङ्गलिङ्गिसम्बन्धप्रतिपत्त्या लिङ्गं प्रतिभासविशेषः लिङ्गि संस्थानवत्त्वम् तयोः सम्बन्धः तादात्म्यं तेषां प्रतिपत्तिः तामन्तरेण अर्थ परिच्छिद्य प्रवृत्तौ सत्याम् अविसंवाददर्शनात् । न खलु विप्लुताक्षः (क्षाः) सर्वे सर्वदा *"ममैवम्" इत्याद्यनुतिष्ठन्तः समुपलभ्यन्ते । तथापि तदभ्युपगमे तिमिरज्ञानाऽनुमानयोः विभ्रमं प्रति अविशेषाद् अनुमानप्रतिभासेऽपि *"ममैवं प्रतिभासः" इत्यादि कल्पनायाम अनवस्थाप्रसङ्गे नानुमान (नम् ।) व्यवहारिजनानुरोधादनुमानमविसंवादकमि- १० च्छन् तत एव तिमिरज्ञानं कथश्चित्तथा नेच्छतीति स्वेच्छावृत्तिः । भवतु तदप्यविसंवादकं प्रमाणं तु न इति चेत् ; अत्राह-तावता च अविसंवाददर्शनादेव प्रामाण्यसिद्धः कारणात् कथञ्चित् प्रमाणमपि भवेत् इति स्थितम्-'यथा यत्र' इत्यादि । शेषं सुगमत्वादव्याख्यातम् ।।
___ एवं तावत् *"चित्रप्रतिभासाप्येकैव बुद्धिः बाह्यचित्रविलक्षणत्वात्" [प्र० वार्तिकाल० ३।२२०] इति वचनात् चित्रमेकं ज्ञानमभ्युपगच्छतः संविदः स्वप्रमितेरसाकल्यसंभव १५ उक्तः । इदानीम् *"अविभागोऽपि बुद्ध्यात्मा" [प्र० वा० २।३५४] इत्यादि वचनात् तदनभ्युपगच्छतस्तं दर्शयन्नाह-[वित्तेः इत्यादि]
[वित्तेः विषयनिर्भासविवेकानुपलम्भतः।
विज्ञातायाः कचित्सिद्धो विरुद्धाकारसंभवः ॥२०॥ बहिरन्तर्मुखनिर्भासादिविरुद्धधर्माभ्युपगमे तस्या विषयनिर्भासविवेकपरमार्थप्रती- २० तावपि कथञ्चिदनेकान्तसिद्धिः। दूरदूरतरादिव्याप्तचक्षुषां च वस्तुसत्तामात्राविसंवादात् तद्भेदाप्रतित्तौ च तत्प्रमितिसाधनं समजसम् । यतो यावदपि उपलम्भमन्तरेण प्रमाणान्तरावृत्तेरसंव्यवहारप्रसङ्गात् । यत्पुनरन्यत्-*"आरामं तस्य पश्यन्ति न तं पश्यति कश्चन" [बृहदा० ४।३।१४] इति । तत्रापि समानोऽयं प्रसङ्गः । केवलं समयान्तरप्रवेशः।]
वित्तेः बुद्धेः । कथंभूतायाः ? विज्ञातायाः स्वसंवेदनाध्यक्षगृहीताया अन्यथा तद्भा- २५ वासिद्ध सम्बन्धी [७२ ख] विषयो ग्राह्यो घटादिः तस्य स एव वा निर्भास आकारः तस्य विवेको बुद्धः सकाशाद् अन्यत्वं तस्याऽनुपलम्भो यः तस्मात् ततः क्वचित् तैमिरिकोपलब्धे चन्द्रादौ सिद्धो निश्चितो विरुद्धस्य दृश्यचन्द्रत्वाद्याकारापेक्षया प्रत्यनीकस्य अदृश्यकत्वादेः आकारस्य संभवः। अत्रायमभिप्रायः-यद्ययं स्थवीयान् घटाद्याकारस्य न्नितरो (रः सन् इतरो) वा वित्तेः आत्मभूतः; तर्हि चित्रैका साँ भवेत् , तत्र चोक्तो दोषः । अथासन्नमा- ३०
(१) प्रसन्नेन्द्रियाणाम् । (२) प्रमाणं स्यात् । (३) व्यवहारिजनानुरोधादेव । (४) अविसंवादकम् । (५) चित्रज्ञानमस्वीकुर्वतः । (६) स्वसंवेदनाभावे । (७) संवित्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org