________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः इति न्यायात् प्रमितस्याऽप्रमिताम (तभाग) स्याभावात् कथमुच्यते-'यथा यत्राविसंवादः तथा तत्र प्रमाणता' इति चेत् ; अत्राह-प्रत्यनीक इत्यादि । प्रत्यनीका अन्योन्यं विरुद्धा ये धर्मा विभ्रमेतर-विकल्पेतर-संशयेतर-ग्राह्यग्राहकसंवित्त्यादयः [७१क] ते का (तेष्वेका) साधारणी या संवित् तस्याः स्वप्रमितेः स्वपरिच्छित्तेः असाकल्यसंभवे खण्डशः संभवे अङ्गीक्रि५ यमाणे । एतदुक्तं भवति-विरुद्धधर्माध्यासभयाद् एकस्य प्रमितेतररूपद्वयं नेष्यते, स च तंदध्यासः
अन्यथापि जात इति परं तस्याः स्वप्रमितेः असाकल्यसंभवोऽभ्युपेयः तस्मिन् वा इति । किम् इत्याह-विषयस्वलक्षणेऽपि । द्विविधो विषयः सामान्यं स्वलक्षणं च । तस्मात् सामान्ये कल्पिते तदभावेऽपि न सौगतस्य दोष इति स्वलक्षणग्रहणं तत्रापि, न केवलम् उक्तसंविदः किन्न भवेत्
इति किम् निमित्तमाश्रित्य नाना (तत्र) विसंवाद (दात् अ)प्रमाणत्वम् तिमिरादिज्ञानस्य (नञ्च) १० कथञ्चित् चन्द्रत्वादिना संवादात किन्न प्रमाणमिति, न केवलमप्रमाणमेव । यदि च कथञ्चिद् विसंवादात् तँदप्रमाणमेव; तर्हि परस्य न किञ्चित् प्रमाणं स्यादिति दर्शयन्नाइ-प्रसन्न इत्यादि । प्रसन्नानि निर्दोषाणि करणभूतानि अक्षाणि यस्याः बुद्धेः तस्या अपि न केवलं तिमिरबुद्धेः सर्वथा सर्वेण नीलादिना इव क्षणक्षयादिप्रकारेण संवादिनियमाऽयोगात् कारणात् किन्न कथ
चित् संवादात प्रमाणमपि भवेदिति । कुतस्तन्नियमाऽयोग इति चेत् ? अत्राह-दृष्ट प्रमाणा१५ न्तरावृत्तेः । दृष्टे दर्शनेन विषयीकृते शब्दादौ धर्मिणि प्रमाणान्तरस्य क्षणक्षयाद्यनुमानस्य आ
समन्तात् वृत्तेः तन्नियमाऽयोगः ततः 'तद्' इति पदघटनात् । इदमत्र तात्पर्यम्-यदि दर्शनं शब्दत्वादिवत् [७१ख] नाशादावपि संवादकम् , तर्हि तदनुमानं “संवृतिवदप्रमाणम् । अथ विसंवादकम् ; तत्रास्तु प्रकृतवद् अप्रमाणमेवेति धर्माद्यसिद्धः कुतः प्रमाणान्तरवृत्तिः ? अस्ति
च, ततः प्रकृतमिति । २० अत्राह-प्रज्ञा क र गुप्तः-*"यत एव दृष्टे प्रमाणान्तरवृत्तिः अत एव शब्दादिवत् ।
क्षणक्षयादेरपि दर्शनम् , अन्यथा दर्शनस्य क्षणिकत्वानुमानेन तस्य वा दर्शनेन बाधनं । स्यात् ।" इति; तस्य विप्लुताक्षः शुक्लं शङ्ख पीतं पश्यन् प्रतिपन्नव्यभिचारो यदैवं करोति 'शुक्लोऽयं शङ्खत्वात् पूर्वदृष्टशङ्खवत्' इति, तदा तदर्शनं शङ्खत्ववत् शुक्लतामपि पश्येत् । शक्यं
हि वक्तुं यत एव विप्लुताक्षदर्शने दृष्टे प्रमाणान्तरं शुक्लताविषयं प्रवर्तते तत एव तत् शुक्ल- . २५ तामवैति, अन्यथा तदर्शनेन प्रमाणान्तरस्य अनेन वा तस्य बाधनं भवेत् । न चैवम् । न हिमालो
(हिमालयो ) डाकिन्या भक्ष्यते । अथ पीततामात्रे तस्याने[न] बाधनमिष्यते; न; सर्वात्मना धर्माद्यसिद्धिप्रसङ्गात् , तथा प्रकृतेऽपि इष्यतामिति साधूक्तम्-प्रसन्नेत्यादि । - यत्पुनरार्ह स एव-'अप्रतिपन्नव्यभिचारः तैमिरिकः तज्ज्ञानात् प्रवर्तमानो विसंवाद्यते'
(७) विरुद्धधर्माध्यासः। (२) “यदाह-नहि स्वसामान्यलक्षणाभ्यामपरं प्रमेयमस्ति । स्वलक्षण- . विषयं प्रत्यक्षं सामान्यलक्षणविषयमनुमानमिति ।"-प्र. वार्तिकाल. पृ.१६९ । “स्वसामान्यलक्षणाभ्यां भिन्नलक्षणं प्रमेयान्सरं नास्ति ।"-प्र०समु०वृ०पृ०४ । (३) अविसंवादाभावेऽपि । (४) तिमिरादिजन्यद्विचन्द्रादिज्ञानम् । (५) विकल्पज्ञानवत् गृहीतग्राहित्वादप्रमाणं स्यात् । (६) “येन न कदाचिद् व्यभिचार । उपलब्धः स यथाभिप्रेते विसंवादात् विसंवाद्यत एव । यस्तु व्यभिचारसंवेदी स विचार्य प्रवर्तते । संस्था- . नमात्रं तावत् प्राप्यते, परत्र संदेहो विपर्ययो वा ततोऽनुमानं संस्थाने..."-प्र. वार्तिकाल०११।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org