________________
१।१९ ]
इन्द्रियवृत्तेः प्रत्यक्षत्वनिरासः सुखादिसंवेदनमध्यक्षं न भवेत् तल्लक्षणविरहात् । अप 'तदपि' इन्द्रियार्थसन्निकर्षजं तत्त्वात् चक्षुरादिजनितरूपादिज्ञानवत्' इत्युच्यते ; तन्न ; तथाप्रतीतिविरोधात् । न खलु 'पूर्वमुत्पन्नैः सुखादिभिः इन्द्रियस्य सन्निकर्ष तत्संवेदनमुपजायते' इति प्रतीतिरस्ति, यूनः कान्तासमागमे संवेदनस्य आह्लादनाकारात्मनः तथानुभवात् , स्वसंवेदनाध्यक्षबाधितः परपक्षः । हेतुश्च सुखादिसंवेदनवेदनेन व्यभिचारी । तस्यापि पक्षीकरणे 'अनवस्थादिप्रसङ्गः' इति प्रतिपादयिष्यते । कथम् ? ५ *"सिद्धयन्न परापेक्षम्" [सिद्धिवि० १।२३] इत्यादिना । एतेन सत्यस्वप्नज्ञानं व्याख्यातम् । *""सदसद्वर्गः कस्यचिदेकज्ञानालम्बनम् अनेकत्वात् पश्चाङ्गुलवत्" इत्यादिना अनुमितमध्यक्षं परलक्षणेन कथमनुगृहीतम् ? इन्द्रियार्थ[७०ख]सन्निकर्षजत्वादिति चेत् ; कथमशेषं सदसद्वर्गं युगपद् विषयीकरोति ? न खलु मनसः अन्यस्य चे(वे)न्द्रियस्य युगपत् सर्वार्थसन्निकर्षोऽस्ति विप्रतिषेधात् । सम्बन्धः (सम्बन्धसम्बन्धः) प्राणभृन्मात्रस्य, ततः तस्यापि तज्ज्ञानं १० भवेत् । विशिष्टादि (ह)ष्टसहकारिनियमकल्पनावि (पि) पापीयसी; भेदैकान्ते "समवायाऽविशेषतः अदृष्टस्यापि नियमाऽसिद्धः। तन्न इन्द्रियार्थसन्निकर्षजं "तज्ज्ञानमिति कथन्न प्रकृतो दोषः ? 'चक्षुर्जनितं रूपज्ञानं च इन्द्रियार्थसन्निकर्षमन्तरेण भावात्' इति प्रतिपादयिष्यते *"पश्यत्येव हि सान्तरम्' [सिद्धिवि० ४।१] इत्यादिना । ___ यत्पुनरेतत्-*"संप्रयोग" [मी०द० १११।४] 'इत्यादि ; तदप्यतेन नोत्सृष्टम् । १५
इन्द्रियवृत्तिः प्रत्यक्षम् इति सांख्यः ; सोऽप्यनेन कृतोत्तरो द्रष्टव्यः; स्वसंवेदनादौ तदसंभवात् । किञ्च, तैमिरिके" तवृत्तिर्यदि प्रत्यक्षम् ; तदाभासविलोपः। यथार्थज्ञानहेतुरिति चेत् ; न ; तथाविशेषणाभावात् । अचेतनं प्रत्यक्षमन्यद्वा प्रमाणं न इति चर्चितम् । ततः साधूक्तम्'प्रत्यक्षं विशदं ज्ञानम्' इति । ननु च*"एकस्याथस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।
। २० कोऽन्यो न दृष्टो भागः स्याद् यः प्रमाणैः परीक्ष्यते ॥" [प्र० वा० ३।४२] (१) सुखादिसंवेदनमपि । (२) सुखादिसंवेदनम् । (३) स्वसंविदितस्य । (४) अतः । (५) सद्वर्गः द्रव्यगुणकर्माणि सत्तासम्बन्धित्वात् । असद्वर्गशब्देन सामान्यविशेषसमवायाः ग्राह्याः । (६) सर्वज्ञप्रत्यक्षम् । (७) नैयायिकोक्तसन्निकर्षजरूपप्रत्यक्षलक्षणेन । (८) आत्मा सर्वाथैः संयुक्तः, आत्मसंयुक्त मनः इन्द्रियाणि च अतः परम्परासम्बन्धः सर्वार्थ: स्यात् । (९) अदृष्टात्मनोः सर्वथा भेदे। (१०) समवायस्य च व्यापकत्वात् सर्वात्मभिः तत्सम्बन्धहेतुः स्यादिति भावः। (११) सर्वज्ञज्ञानम् । (१२) "सत्सम्प्रयोगे पुरुषस्यन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्त विद्यमानोपलम्भनत्वात् ।"-मी. द. ११।४। (१३) "इन्द्रियप्रणालिकया बाह्यवस्तूपरागात् सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्षम्"-योगद. व्यासभा० पृ. २७ । “विषयश्चित्तसंयोगात् बुद्धीन्द्रियप्रणालिकात् । प्रत्यक्षं साम्प्रतं ज्ञानं विशेषस्यावधारकम् ॥२३॥"-योगकारिका। (१४) तुलना-"श्रोत्रादिवृत्तिः भ्रान्तेऽपि न हि नाम न विद्यते । न च ज्ञानं विना वृत्तिः श्रोत्रादेरुपपद्यते ॥"-प्र. वार्तिकाल० पृ. ३४० । "श्रोत्रादिवृत्तिः प्रत्यक्षं यदि तैमिरिकादिषु । प्रसङ्गः किमतवृत्तिस्तद्विकारानुकारिणी ॥"-न्यायवि.। १६५ । प्र०समु० पृ. ६४ । तत्वोप० पृ० ६१। न्यायवा० पृ० ४३ । न्यायवा० ता० टी० पृ० १५५ । २३३ । न्यायम. पृ० १०० । त० श्लो० पृ. १८७ । नयचक्र वृ० पृ० १०७ । षद. बृह. पृ० ४१ । प्रमेयक पृ० १९ । प्रमाणमी० पृ. २४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org