________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः स्याग्रहणे अन्यत्र तद्वयवहारः, इतरथा घटाग्रहणे गृहीते पटे तद्वयवहारः स्यात् । जातितद्वतोः अवयवावयविनोश्च भेदैकान्ते सम्बन्धाभावात् । ततो मण्याद्यन्तरितसूत्रादिवत् स्वत एवाविशदं ज्ञानमित्युन्नेयम् ।।
___यत्पुनरेतत्-'ध्यामलिताकारस्य' इत्यादि; तत्र न सारम् ; सारूप्याऽभावात् । तत्प्रति५ ज्ञायाः प्रत्यक्षबाधनात् । अहमहमिकया अर्थग्राहिणो ज्ञानस्य निराकारस्य [६९ख] स्वसंवेदनाध्यक्षसिद्धत्वात् , न चासौ आकारः तत्र प्रतिभासाद् बहिर्युक्तः, तत एव अनुगताकारोऽपि स्यादित्यसौगतमशेषम् । एवमपि यथा चन्द्रादिद्वित्वादावसति विशदं ज्ञानं तथा तदाकारेऽपि इति न किञ्चिदविशदं नामेति चेत् ; तत् न चन्द्रादौ द्वित्वादिवद् धर्मिणापि विसदगत्र नु धर्नि
ण्यष्य (धर्मिण्यविशदम् अत्र तु धर्मिण्यप्य) विशदम् । न चैतावता न कस्यचिद् ग्रहणम् ; अनुमा१० नात् तत्त्वसिद्धिप्रसङ्गात् , तथा च कुतो हेतुफलभावाद्यभावसिद्धिर्यतः प्रतिभासाद्वैतम् ? अनुप
लम्भादिति चेत् ; किमयं तत्प्रतिबद्धः कचित् प्रतिपन्नो येनैवं स्यात् ? तथा चेत् ; कथमनुमानं प्रमाणं नेष्टं स्यात् ? 'तदिच्छति, तत्त्वविषयं न' इति विरुद्धम् । ततोऽविशदानुमाननिवृत्त्यर्थं विशदग्रहणम् । तथा 'यावान् कश्चिद् धूमवान् प्रदेशः स सर्वोऽप्यग्निवान्' इत्यादि व्याप्ति
ज्ञाननिवृत्त्यर्थं च । नहि तँद् विशदम् , अनुमानप्रतिभासाविशिष्टप्रतिभासत्वात् । तथापि तथा । १५ तदभ्युपगमे न किञ्चिदविशदं भवेत् ।।
एतेन अकस्माद् धूमदर्शनाद् अग्निरत्रे वि (त्रेति) ज्ञानं चिन्तितम् ।
मनोऽक्षार्थसन्निकर्षजत्वादविशदमपि व्याप्तिज्ञानं प्रत्यज्ञानं (१) प्रत्यक्षम् इत्येके । कुतः पुनः तत्तज्ञानं ज्ञानम् ( तज्ज्ञानं प्रत्यक्षम् ? प्रत्यक्षं तज्ज्ञानम् ) इन्द्रियार्थसन्निकर्षजं
(ज) ज्ञानत्वात् चक्षुरादिजनितरूपादिज्ञानवदिति चेत् ; न; अनुमानादिज्ञानेन "व्यभिचारात् । २० अस्यापि पक्षीकरणे कुतः अध्यक्षाद् भेदः ? *"प्रत्यक्षाऽनुमानोपमानशब्दाः प्रमाणम्"
न्यायसू० १।१।३] इति यतः [७०क "संख्या व्यवतिष्ठेत । अथ इन्द्रियस्य अर्थेन साक्षात्सम्बन्धमन्तरेण भावात् 'ततोऽस्य भेदः; तथा व्याप्तिज्ञानस्यापि स्यात् । नहि तदपि तस्य अतीतानागतवर्तमानार्थेन तथा सम्बन्धात् जायते, विरोधात् । सम्बन्धसम्बन्धः५१ अन्यत्रापि न वार्यते । लिङ्गादिहेतुत्वाद् भेदे दृष्टसाधात् साध्यसाधनमुपमानं प्रमाणान्तरं स्यात् , दूरादिज्ञानं २५ च सर्वस्मादध्यक्षते इति निरूपयिष्यते। ततो वैशद्यादेव ततोऽस्य भेद इति सूक्तम्-'विशदमेव
ज्ञानं प्रत्यक्षम्' इति । __मा वा भूदस्य तन्निवय॑म् , तथापि*"इन्द्रियार्थसन्निकर्षोत्पन्नम्" [न्यायसू०१।१।४] "इत्यादेः परकीयस्य प्रतिषेधार्थम् अध्यक्षस्य 'विशदम्' इति विशेषणम् । "तल्लक्षणे हि
(१) गृहीते । (२) अस्पष्टताव्यवहारः । (३) अविद्यमाने । (१) अनुपलम्भः । (५) अभावाविनाभावीति । (६) व्याप्तिज्ञानम् । (७) अविशदमपि प्रत्यक्षमिति प्रज्ञाकरमतम्-"एतच्चानुमानज्ञानं क्वचिद. प्रत्यक्षं क्वचित्त प्रत्यक्षमेव अकस्माद् धूमादग्निप्रतिपत्तौ । नहि पूर्वानुभूतकल्पनास्ति ।"-प्र. वार्तिकाल. ३।२८८ । (८) 'प्रत्यज्ञानं' इति द्विलिखितम् । (९) नैयायिकाः । सामान्यलक्षणाप्रत्यासत्या धूमत्वेन अखिलधूमानाम् अग्नित्वेन च निखिलाग्नीनामलौकिकार्थसन्निकर्षेण ज्ञानसम्भवात् । (१०)तदपि परम्परया इन्द्रियार्थसन्निकर्षजम् । (११) प्रमाणसंख्या। (१२) अनुमानस्य । (१३)प्रत्यक्षात् । (१४) साक्षात् । (१५) परम्परासम्बन्धः । (१६) अनुमानेऽपि । (१७) पृथक प्रमाणं स्यादिति भावः। (१८) अव्यपदेश्य- . मव्यभिचारिव्यवसायात्मकं प्रत्यक्षमिति शेषः । (१९) सन्निकर्षात्मकप्रत्यक्षलक्षणे।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org