________________
१।१९ ]
अविसंवादिनः प्रमाणता किं कृतो विभागः ? अथ अनुमानेन अस्य प्रत्यक्षस्य बाधनात् नानेन पक्षबाधनम् ; अनेनाप्यनुमानस्य बाधनात् न तेन तद्वयवच्छेदकरणमिति समानम्। ततो घटादिज्ञानत्वे अनुमानमिच्छता प्रमाणं तद्विषयमभ्युपगन्तव्यम् । तत्स्वतो' भिन्नं भावतोऽनुभवति न [६८ख] ज्ञानान्तरं जंडमर्थमिति स्वेच्छाविरचितदर्शनप्रदर्शनमात्रम् ।
ततो निराकृतमेतत्-*"यदि भिन्नकालो ज्ञानेन अर्थोऽवगम्यते; विशेषाद् एकस्य ५ तथाविधाशेषार्थावगमप्रसङ्गः। अथ समकालःसम्बन्धाभावात् किं केनावगम्यते ? नीलादिना वा ज्ञानमवगम्यत । गृहीतिकरणाद् विज्ञानं तस्य ग्राहकमिति चेत् ; न; अस्याः ततोऽभेदे ज्ञानं नीलादिः त[ज्ज]न्यत्वाद् उत्तरज्ञानवत् । भेदे ज्ञानं नीलादिः गृहीति च (श्च) परस्पराऽसम्बद्धं त्रितयमिति किं केन गृह्यते ? पुनस्तयापि तदन्तरकरणे अनवस्था ।" इत्यादि। कथम् ? प्रकृतेऽपि समत्वात् । यदि पुनस्तदनुमानं प्रमाणं नेष्यते; कुतः १० प्रकृततत्त्वसिद्धिः ? 'प्रत्यक्षात्' इत्यपि नोत्तरम् ; तँतो विवादस्यानिवृत्तः । ननु यथा सुखादयोऽविद्यमानावे (नवे) दकाः प्रतिभासमानाः प्रत्यक्षसिद्धस्वसंवेदना उच्यन्ते तथा घटादय इति चेत् ; यद्येवं लभ्येत, कृतं स्यात् , तत्तु न लभ्यम् , 'घटमहं वेद्मि, पटमहं वेद्मि' इति अहमहमिकया प्रतीयमानप्रत्ययवेद्यतया सर्वदा तेषाम् " अकरासवात् (अवभासनात्)। न च तथावभासनादन्यत् स्वसंवेदनेऽपि शरणमस्ति । "परदुर्णयः प्रागेव चिन्तितः । तदेवं स्वसंवेदनवत् ग्राह्या- १५ कारस्यापि प्रतिभासभावात् स्वप्नेतरग्राह्याकारयोरिव तयोः समानः सर्वथा धर्मभावोऽस्तु । तथापि स्वसंवेदनस्यैव परमार्थत्वे जाग्रद्ग्राह्याकार एव परमार्थः तथा स्यादिति स्वार्थव्यवसायोऽविसंवादः नातिव्यापकः । [६९क] *"दृष्टस्य पुनः प्राप्तिरविसंवादः।" इत्यत्र यदुक्तम्-*"क्षणिकत्वेन नाशात् न तस्य तत्प्राप्तिः" इति; तत् *"प्रतिभासैक्यनियमे" [सिद्धिवि०१।१०] इत्यादिना निरस्तम् ।
२० ___यच्चाप्युक्तम्-दृष्टस्य प्राप्तिः स्वप्नेऽप्यस्तीति तत्रापि दर्शनं प्रमाणं स्यादिति; तत् ग्राह्यप्रतिभासेऽपि समम् । ततः सूक्तम्-'यथा यत्राविसंवादः तथा तत्र प्रमाणता' इति ।
'विशदम्' इति प्रत्यक्षविशेषणमयुक्तं निवाभावात् । सामान्येऽनुमानादि दूरपादपादौ अवयविज्ञानमपि विशदं स्वविषयग्रहणलक्षणत्वात्, वै(अवै)शद्यव्यवहारः पुनः विशेषावयवाग्रहणकृतः' इत्येके । ध्यामलिताकारस्य नीलाद्याकारवत् बुद्धयाकारत्वेन वस्तुत्वात् न २५ "तदपेक्षया किञ्चिद् विज्ञानमविशदम् , बाह्यं तु न तस्य विषयः इति न तत्र तदविशदमन्यथा वा । एतेन अर्थाकारत्वमस्य चिन्तितम् ; अनाकारत्वे न तत्र ज्ञानं प्रमाणं घिसंवादकत्वात् अतः 'अविसंवादः' इत्येवास्तु इत्यपरे ।
अत्रोच्यते-विशेषावयवाग्रहणाद् गृहीतेऽप्यस्पष्टताव्यवहारः इत्ययुक्तम् ; न खलु "अन्य
(१) स्वस्मात् । (२) अनुभवति । (३) भिन्नकालत्वाविशेषात् । (४) इत्यतिप्रसङ्गः। (५) गृहीतेः । (६) नीलादेः । (७) गृहीत्यन्तरकरणे । (८) प्रत्यक्षात् । (९) न विद्यते भिन्नो वेदको येषां ते, स्वसंविदिता इति यावत् । (१०)वटादीनाम् । (११) परस्य दुर्णयः दुरभिप्रायः। (१२) स्वप्नदृष्टार्थेऽपि । (१३) वैशद्यस्य । (१४) ध्यामलिताकारापेक्षया । (१५) विशेषावयवस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org