________________
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
वक्तृत्वादिकमादाय निवर्तत इति वक्तुरसर्वज्ञत्वसिद्धिरिति । ततो यथा न वक्तृत्वादेः असर्वज्ञत्वेन व्याप्तिः तथा न ज्ञानत्वेन प्रतिभासस्य । अथ जडेन विरोधाद्स्यं तेनं व्याप्ति; तर्हि अन्योऽन्यसंश्रयः-सिद्धे हि जडेन अस्य विरोधे तेन व्याप्तिः, अस्यां च सिद्धायां तेन विरोधः सिध्यति इति । ततो वक्तृत्वादिवत् शेषवानयं हेतुरिति स्थितम् । अथ प्रतिपद्यते किञ्चित् जडम् ; तेनैव ५ ‘प्रतिभासात्' इत्यस्य हेतोर्व्यभिचारः । मा वा भूदयं दोषः, तथापि अतो हेतोर्जायमानमनुमानं स्वतोऽर्थान्तरं साध्यं न चेद् विषयीकरोति; कथं तत्र प्रमाणम् अतिप्रसङ्गात् ? " भ्रान्तिरपि सम्बन्धतः प्रमा" " इति चेत ; नन्वत्र हेतुसाध्ययोः तादात्म्यलक्षणः सम्बन्धः हेत्वनुमानयोः कार्यकारणलक्षणः, अन्यस्यासंभवात् । ततः किम् ? यथैव योग्यतया हेतुः अनुमानं स्वसमानकालमन्यथाभूतं वा जनयति तथैव ज्ञानम् अर्थं तथाविधं यदि गृह्णाति को विरोधः सर्वस्य सम१० त्वात् ? अथात्र कश्चित् कार्यकारणभावलक्षणः अन्यो वा सम्बन्धो नेष्यते; तर्हि -
८२
*“लिङ्गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि |
प्रतिबन्धात् तदाभासशून्ययोरप्यवञ्चनम् ॥” [प्र० वा० २।८२] इति प्लवते । व्यवहारेण तदभिधानाददोष इति चेत्; कोऽयं व्यवहारो नाम ? सम्बन्धा- [६८क] भावेऽपि द्विकल्प इति चेत्; कथं तद्दर्शितात् सम्बन्धात् अनुमानं प्रेक्षकारिणः कुर्वन्तु ? कृताद्वा १५ भावतः साध्यमनुमिन्वन्तु ? सर्वतः ईश्वराद्यनुमानात् सर्वस्य स्वार्थसिद्धिप्रसङ्गात् तत्कल्पनायाः सर्वत्राऽविशेषात् । यथैव च सोगतेन व्यवहारनिमित्तमग्न्याद्यनुमानं स्वमतसिद्धये वन्विकुलमिव (निष्फलमेव ) कक्षीक्रियते तथैव ईश्वरादिवादिनापि सौगतानुमानम् । तन्न साध्यसम्बन्धात् तदनुमानं प्रमाणम् ।
एतेन 'समारोपव्यवच्छेदकरणात् तत्तत्र प्रमाणम्' इति निरस्तम् ; स्वसमानासमान२० कालसमारोपव्यवच्छेदकरणवद् विज्ञानस्य अर्थग्रहणं न विरुध्येत ।
यत्पुनरुक्तं परेण-*"अनुमानं सहकारिकारणं प्राण ( प्राप्य) पूर्व : समारोपक्षणः
99
स्वकार्य तत्क्षणम् "उत्तरतत्क्षणजनने अक्षमं जनयति ।" इति तदप्येतेन दूषितम् ; कार्यकारणभाववद् ग्राह्यग्राहकभावसिद्धेः । संवृत्या ततस्तत्तथेति चेत्; 'तैत एव जडस्यापि प्रतिभासा (स) भावात् प्रत्यक्षतः पक्षबाधा किन्न स्यात् ? परमार्थतः तद्व्यवच्छेदकरणमपि दुर्लभम् । संवृतिसिद्ध ेन २५ 'तँत्करणेन अनुमानं प्रमाणं न 'तैया सिद्ध ेन घटादिनाड्य (जाड्य ) ग्राहिप्रत्यक्षेण पक्षबाधनमिति (१) प्रतिभासस्य । (२) ज्ञानत्वेन । ( ३ ) सन्दिग्धविपक्षव्यावृत्तिक इत्यर्थः । ( ४ ) " भ्रान्तिरपि च वस्तुसम्बन्धेन प्रमाणमेव" - प्र० वार्तिकाल० ३।१७५ । " तदाह न्यायवादी- भ्रान्तिरपि सम्बन्धतः प्रमा । " - न्यायवि० धर्मो० पृ०७८ । उद्धृतमिदम् - " भ्रान्तिरपि अर्थ सम्बन्धतः प्रमा" तस्वोप० पृ० ३० । सन्मति० टी० पृ० ४८१ । “अतस्मिंस्तद्ग्रहो भ्रान्तिरपि सन्धानतः प्रमा" - षड्द० बृह० पृ० ४१ । (५) भिन्नकालं वा । (६) सम्बन्धकल्पना । ( ७ ) व्यवहारदर्शितात् । (८) परमार्थतः । ( ९ ) व्यवहारात् सम्बन्धकल्पनायाः। (१०) “प्रत्यक्षानन्तरोद्भूतसमारोपनिवारणात् । इष्टं तु लैङ्गिकं ज्ञानं प्रमाणम्''''' - तत्त्वसं ० इलो० १३०२ । (११) समारोपक्षणम् । (१२) तृतीय समारोपक्षण । (१३) संवृत्या एव । (१४) समारोपव्यवच्छेद करणेन । (१५) संवृत्या सिद्धेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org