________________
१।१९ ]
अविसंवादिनः प्रमाणता पुनः सर्वज्ञोपलम्भोऽस्ति ? 'सोऽयम् 'अनुपलम्भमात्रात् सर्वज्ञाभावमनिच्छन् तेत एव जडाभावमिच्छति' इति स्वेच्छावृत्तिः, सर्वज्ञवत् जडस्यापि केनचिदुपलम्भाऽविरोधात् । ततो धर्म की र्ति ना यदुक्तम् [तदयुक्तम् ]
*"यस्याऽदर्शनमात्रेण व्यतिरेकः प्रसाध्यते ।
तस्य संशयहेतुत्वात् शेषवत्तदुदाहृतम् ॥" [प्र० वा० ३।१३ ] इति । ५ तदभ्युपगच्छता अदृष्टे जडे न साधनाभावोऽभ्युपगन्तव्यः । प्रज्ञा क र गु त स्तु *" तत्कार्य कारणे वाप्रतिपन्ने न कारणकार्यभावनिश्चयः परचैतन्ये वाविषयीकृते न तस्य स्वदृष्टे वृत्तिः निश्चीयते" इति वदन जडेऽदृष्टेऽपि हेत्वभावं प्रत्येति इति कथमनुन्मत्तः ? ननु तस्मिन्नप्रतिपन्नेऽपि 'स्वतो वा परतो वा जडस्य प्रतिभासः स्यात्' इत्यादिविचारात् साधनाऽभावः प्रतीयते इति चेत् ; उच्यते-यद्ययं न प्रमाणम् , कथमतः क्वचित् कस्यचित् विधिप्रति- १० षेधयोः सिद्धिः अतिप्रसङ्गात् ? प्रमाण[६७क]त्वेऽपि न प्रत्यक्षम् ; परामर्शात्मकत्वाद् विचारस्य, तद्विपरीतत्वाच अध्यक्षस्य । भवतु वा तथापि न तत् स्वयमविषयीकृते विपक्षे साधनाभावमवैति तथाविधे अन्यथा परलोकादौ तत्सन्तानाभावमवैति इति यदुक्तं धर्म की र्ति ना वि नि श्च ये *"तदेव तत्र नास्ति, तत एव तदभावसिद्धिः इत्ययुक्तम्" इति प्लवते । नाप्यनुमानम् ; अलिङ्गजत्वात् । अपि च, *"यावान् कश्चित् प्रतिषेधः स सर्वोऽनुपलब्धेः, अप्र- १५ तिषिद्धोपलम्भस्याभावासिद्धः" इति वचनात् , तत्र तदभावः अनुपलम्भात् प्रत्येयः । एवं चेत्तर्हि यद्ययं विकारः (चारः) अनुमानात्मकः स्वभावानुपलम्भजनित इष्यते; युक्तं प्रतिभासस्य पक्षयोर्घटादिसुखाद्योः उपलब्धस्य ततः कचिजडे विपक्षे अभावसाधनम् , किन्तु जडस्य 'निषेध्यविविक्तस्य प्रतिपत्तिरभ्युपगन्तव्या"तस्या एव "तदनुपलम्भात्मकत्वात् घटविविक्तभूतलप्रतिपत्तेः घटानुपलम्भात्मकत्ववत् । न च सेष्यते परेण । अथ च स्वभावविरुद्धहेतुः ज (तुज) नितः ; २० तर्हि कः तद्विरुद्धो हेतुः ? जडत्वमिति चेत् ; तदप्रतिपत्तौ कस्य तेन विरोधः प्रतीयताम् ? अन्यथा अदृश्यात्मनामेव तेषां तद्विरुद्धानां च सिद्धिः असिद्धिर्वा वेदितव्या *""अन्येषां विरोधकार्यकारणभावाभावासिद्धः" न्यायवि० २।४५] इत्यस्य विरोधः।।
_ 'ननु च सुखादौ प्रतिभासो ज्ञानत्वेन व्याप्तः प्रतिपन्नः, ज्ञानत्वविरुद्धं च जाड्यम् , ततोऽस्मान्निवर्त्तमानं ज्ञानत्वं स्वव्याप्यं प्रतिभासमादाय निवर्तत इति व्यापकानु[६७ख]पलब्धि- २५ जनितोऽयम्' इत्यपि वार्तम् ; अतिप्रसङ्गो हि एवं स्यात् । शक्यं हि वक्तु क्वचिद् रथ्यापुरुषे वक्तृत्वादेः असर्वज्ञत्वं व्यापकं प्रतिपन्नं सर्वज्ञत्वेन विरुद्धम् , अतः "तन्निवर्तमानं स्वव्याप्यं
(१) बौद्धः। “सर्वज्ञो वक्ता नोपलभ्यते, इत्येवम्प्रकारस्यानुपलम्भस्य अदृश्यात्मविषयत्वेन सन्देहहेतुत्वात् ।"-न्यायबि० ३७०। (२) अनुपलम्भमात्रात् न तु दृश्यानुपलम्भात् । (३) “सन्दिग्धविपक्षव्यावृत्तिकत्वं शेषवदुच्यते प्रतिबन्धाभावादित्यर्थः।"-प्र० मनोरथ । (४) जडे । (५) विचारः। (६) निर्विकल्पकत्वेन अविचारकत्वात् । (७) अविषयीकृते। (८) "यावान् कश्चित् प्रतिषेधः स सर्वोsनुपलब्धेः"-प्र. वार्तिकाल• पृ०५२०, ६३८ । (९) निषेध्यः प्रतिभासः। (१०) प्रतिभासविविक्तजडप्रतिपत्त रेव । (११) प्रतिभासानुपलम्भात्मकत्वादिति भावः । (१२) अदृश्यात्मनामेव । (१३) असर्वज्ञत्वम् ।
Jain Education Internations
For Personal & Private Use Only
www.jainelibrary.org