________________
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
3
प्रमाणस्य क्वचित् पक्षपातेतरयोः अयोगात् । अभ्युपगमात् तेत्सिद्धौ न ततः कस्यचित् साध्यसिद्धिः अतिप्रसङ्गात् ,इतरथा सौगतप्रसिद्धेन उत्पादविनाशात्मत्वेन घटवत् सुखादौ अचेतनत्वं साधयन् सांख्यः धर्म कीर्त्तिना किमिति प्रतिक्षिप्तः ? [६६ क] प्रसङ्गसाधनत्वाददोषः, तथाहिजाग्रद्घटादीनां ग्राह्यत्वेन अवभासनं चेदङ्गीक्रियते बहिरर्थवादिना, तर्हि तेषां " तैमिरिकोपलब्ध५ केशादिवदसत्त्वमभ्युपगन्तव्यम्, इतरथा न कस्यचिदित्येकान्त इति चेत्; न; अस्य प्रसङ्गसाधनलक्षणाऽभावात् । यत्र हि व्याप्याभ्युपगमो व्यापकाभ्युपगमनान्तरीयकः प्रदर्श्यते तत् प्रसङ्गसाधनम् । न चैतदत्रास्ति । स्वसंवेदनैकान्ते वादिप्रतिवादिनोः स्वप्नादावपि स्तम्भादीनां ग्राह्यत्वेन प्रतिभासाऽसिद्धेः कस्याऽसत्त्वेन व्याप्तिः यदभ्युपगम इतराभ्युपगमनान्तरीयकः प्रदइर्खेत ? परस्य सिद्धं सर्वमेतदिति चेत्; उक्तमत्र 'प्रमाणतस्तत्सिद्धौ उभयोः सिद्धम्, इतरथा" परस्यापि न सिद्धम्' १० इति । यदा च कश्चिद् गुडं विषं मारणात्मकं वा अभ्युपगम्य पुनर्मोहात् शर्करादिकमपि 'विषम् ' इत्यवगच्छति, स किं विदुषैवं वक्तव्यः - यदि "तत् विषम्' इत्यभ्युपगच्छति तर्हि तन्न खाद येन म्रियसे, उक्तो” भक्षयित्वा किं म्रियते वा ? ततः सिद्धं हेतुमभ्युपगच्छता अभ्युपगन्तव्य एव बहिरर्थप्रतिभासः इत्ययुक्तं विपर्ययादिति ।
93
८०
- जडस्य
१८
अपि च, घटादीनां कुतः स्वसंवेदनात्मकत्वम् ? * " यदवभासते तज्ज्ञानं यथा सुखादि, अवभासन्ते च घटादयः, जडस्य प्रतिभासाज्योगात्" इत्यनुमानादिति चेत्; उच्यते-ज प्रतिभासाऽयोगः 'तंत्र प्रतिभासाभावः । तंत्र 'यद्ययं जडं कञ्चित् विपक्षं न प्रतिपद्यते ; कथं तत्र साधनाभावमवैति ? नहि अप्रतिपन्नभूतलस्य ' अत्र [ ६६ख] भूतले घटो नास्ति' इति निश्चयो भवति, अन्यथा *“क्वचिद् देशविशेषे प्रतिपत्तृप्रत्यक्षे" इति च वावा ( वचो ) न जाघटीति । यथा च जडेऽप्रतिपन्नेऽपि तत्र प्रकृतसाधनाभावनिश्चयः तथा सर्वज्ञे अनुपलब्धेऽपि २० तत्र वक्तृत्वादिसाधना (न) भावः कथन्न निश्चीयते ? यत इदमनुमानम् - सुगतः सर्वज्ञः परमवीतरागो वा न भवति वक्तृत्वात् रथ्यापुरुषवत्' इति । अथवा, यद्यपि जडं किञ्चिन्नोपलभ्यते तत्र तथापि साधनाभावनिश्चयः तदभावादिति । कुत एतत् ? अनुपलम्भादिति चेत् ; किं
१५
विषयत्वात् यत् प्रमाणमन्तरेण सिद्धं तत् परस्यापि न सिद्धम् ।" - अष्टश०, अष्टस० पृ० ३६-३७ ।
(१) परस्य अभ्युपगमात् । (२) हेतु सिद्धौ । (३) 'सुखादयोऽचेतनाः उत्पत्तिमत्वात् घटादिवत्' इत्यादिना । (४) “कश्चिद् बहिः स्थितानेव सुखादीनप्रचेतनान् । ग्राह्यानाह न तस्यापि सकृद्युक्तो द्वयग्रहः ॥”–प्र०वा०२।२६८ इत्यादिना । " अचेतनाः सुखादयः इति साध्ये उत्पत्तिमत्त्वमनित्यत्वं वा सांख्यस्य स्वयं वादिनोऽसिद्धम् । " - न्यायबि० ३१६० । प्र० वार्तिकाल० पृ० ४७० । (५) घटादीनाम् । ( ६ ) अन्तराविना भवतीति अन्तरीयकः विनाभावी, न अन्तरीयकः नान्तरीयकः अविनाभावीत्यर्थः । ( ७ ) प्रति - वादिनः । (८) वादिप्रतिवादिनोः । (९) प्रमाणतः सिद्ध्यभावे । (१०) प्रतिवादिनोऽपि । (११) शर्करादिकम् । (१२) एवं कथितो वा । (१३) 'न बहिरर्थो विपर्ययात्' इति । (१४) "यदेव दृश्यते तदेवाभ्युपगम्यते । तथाहि प्रतिभासात्तद्गतमेव नीलमवभासते नापरं ततः प्रतिभासव्यतिरेकेण न प्रमाणम् ततो नाभ्युपगमः । " - प्र० वार्तिकाल० पृ० ३८९ । (१५) जडे । (१६) प्रतिभासाद्वैतवादी । ( १७ ) जडे । (१८) "तत्रानुपलब्धिर्यथा न प्रदेशविशेषे क्वचिद् घटः = क्वचिदिति प्रतिपत्तृप्रत्यक्षे क्वचिदेव प्रदेशे इति" - न्यायबि०, टी०२।१३ । (१९) 'प्रतिभासमानत्वात्' इति । ( २० ) मीमांसकोक्तं न भवेत् । (२१) जडाभावात् ।
1
www.jainelibrary.org
Jain Education International
For Personal & Private Use Only