________________
१३१९]
अविसंवादिनः प्रमाणता विषये विशदं तथा तेन प्रकारेण तत्र विषये 'प्रत्यक्षम्' इति सम्बन्धः, इतरत्र तदेव पमा (परो)क्षमित्यभिप्रायः । न केवलं प्रत्यक्षम् अपि तु यथा येन प्रकारेण यत्र प्रसन्नाक्षेतरादिषु ज्ञानेषु मध्ये यस्मिन् ज्ञाने अविसंवादो वर्णनं (अवञ्चनम् ) तथा तेन प्रकारेण तत्र ज्ञाने प्रमाणता । अनेन एतत् कथयति-सर्वं संसारिज्ञानं स्वगोचरे विशदमविशदं प्रमाणमन्यथा च इत्यनेकान्तः, तथा तत्साध्यमपि तदेव पुष्णाति इति । अथ कोऽयमविसंवादो नाम? स्वार्थव्यवसायः ५ *"नातः परोविसंवादः" इति वचनादिति चेत् ; स्वप्नादौ प्रसङ्गात् । तत्रापि हि स्वार्थव्यवसायलक्षणस्य अविसंवादस्य भावात् विज्ञानं प्रमाणमिति प्रमाणेतरप्रविभागविलोपः ।
स्यान्मतम्-न तंत्र स्वार्थो; बाध्यमानत्वात् , अतो नतद्वयवसायलक्षणोऽविसंवाद इति । नेनु किमिदं बाध्यमानत्वम् ? तद् यदि प्रतिभासकाले ज्ञानान्तरेण बाधकेन स्वरूपापहारः असत्त्वज्ञापनं वा; तर्हि अश्रद्धेयम् । नहि ज्ञानस्य इतरस्य वा स्वरूपमपहर्तुं शक्यम्, प्रतिभास- १० मानस्य अप्रतिभासप्रसङ्गात् । नापि असत्त्वज्ञापनम् ; जाग्रत्स्तम्भादौ प्रसङ्गात् । यदि पुनस्र्तंत्र 'मिथ्या वितर्कितमेतत्' इति प्रत्ययाऽभावान्नायं दोष इति मतिः, सापि न युक्ता [६५ख] असत्येऽपि कदाचिद्भावात् सत्येऽप्यभावात् । प्रत्ययस्यापि सदर्थत्वे समानो दोषः; अनवस्था च । अथ कालान्तरे; तदा असतः सर्वथा कोऽपहारः अन्यद्वा । तन्न स्वार्थव्यवसायोऽविसंवादः । उपलब्धस्य पुनःपुनरुपलब्धिः फलेन वाऽभिसम्बन्धः सं इति चेत् ; न; तस्य॑ क्षणिकत्वान्नाशेन १५ तदसंभवात् , स्वप्ने भावाच्च । ततो न क्वचिद् अविसंवाद इति ।
अत्र प्रतिविधीयते-एवं हि सर्वप्रतिभासाऽविशेषे "प्रमाणेतरप्रविभागाऽभावाद् अर्थवत् कुतः स्वसंवेदनमात्रसिद्धिः, यतःप्रतिभासाद्वैतमन्यद्वा स्यात् ? प्रतिभासात्सिद्धौ"; बहिरर्थसिद्धिः । "अत एव अत्र स्वप्नेऽपि तत्सिद्धेर्हि विभ्रमेतरवियोगः, अपरत्र बहिरर्थसिद्धः असौगतं जगत् स्यात् । प्रतिभासविशेषः अन्यत्रापि न वार्यते । ननु बुद्धः स्वसंवेदनमस्तु प्रतिभासनात् नान्त-२० हिरर्थो विपर्ययात् घटादीनामपि स्वसंवेदनात्मकत्वादिति चेत् ; तर्हि *"यद् ग्राह्यतया ज्ञानवपुषि प्रतिभाति तदसत तैमिरिककेशादिवत्, 'तंत्र प्रतिभाति च तथा जाग्रद्घटादिकम्" इत्यत्र वादिनोऽसिद्धो हेतुः। 'प्रतिवादिनः सिद्ध इति चेत् ; न; 'प्रमाणतः तत्सिद्धौ द्वयोरपि सिद्धः,
(6) स्वप्नादावपि । (२) स्वप्नादौ । (३) वस्तुतः स्वार्थों । (४) स्वार्थव्यवसाय । (५) तुलना"कोऽयं बाधो नाम-परेण विषयाभावज्ञापनं स यदीष्यते । स्वार्थे प्रवृत्तिमज्ज्ञानमभावं ज्ञापयेत् कथम् ॥ न तावज्ज्ञानान्तरेणाभावः स्वप्नज्ञानस्यान्यस्य वा केनचित् क्रियते तत्काले तस्य स्वयमेव नांशात् । नाक्षिनिमीलनान्नष्ट ज्ञाने बाध्यता प्रतीयते । अन्येन न हि ज्ञानेन तस्य विषयापहारोऽसत्ताज्ञापनलक्षणो बाधः... विजातीयविदुत्पत्तिर्यदि बाधकमुच्यते । घटज्ञाने पटज्ञानं बाधकं किन्न युक्तिमत्त स्माद् यथा जाग्रत्प्रत्ययः स्वमप्रत्ययस्य बाधकः तथा विपर्ययोऽपि केवलग्रहणादिति न्याय एषः ।"-प्र०वार्तिकाल. पृ. ४-७ (६) जाग्रस्तम्भादौ । (७) अविसंवादः। (८) प्रथमज्ञानस्य । (९) पुनः पुनरुपलम्भस्य फलेन वाभिसम्बन्धस्याभावात् ।(१०)"व्यवहारमात्रमेवेदं स्वप्नास्वप्नभेदो नाम तथा प्रमाणाप्रमाणभेद इति हि वक्ष्यते ।"-प्र. वार्तिकाल. पृ० ५। (११) स्वसंवेदनमात्रसिद्धौ। (१२) प्रतिभासमात्रादेव। (१३) विभ्रमेतरविभागाभावः । (१४) जाग्रदवस्थायाम् । (१५) ज्ञाने। (१६) जैनादिकस्य । (१७) तुलना-“यदि प्रमाणतः सिद्धं नानात्मसिद्धं नाम, परस्येव आत्मनोऽपि वादिनः सिद्धत्वात्, प्रमाणसिद्धस्य सर्वेषामविप्रतिपत्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org