________________
७८
सिद्धिविनिश्चयटीकायाम्
[१ प्रत्यक्षसिद्धिः विपर्ययः ततोऽयमदोष इति चेत् ; अत्राह-यः स्वभावः इत्यादि । यः स्वभावो यत्स्वरूपं निश्चयैन निश्चीयते स स्वभावः कथं नैव तेषां निश्चयानां विषयः स्याद् भवेत् । अत्र दृष्टान्तमाहबहिरर्थ इव तद्वत् इति । तथा च प्रयोगः-न स्वरूपं निश्चयानां विषयः तैः तदनिश्चयात् बहिरर्थवत् । अस्य तद्विषयत्वे स्वलक्षणगोचरत्वं तेषामनिष्टं [स्यात् । स्यान्मतम्-स्वरूपस्य दर्शनं बहि५ रर्थस्य ततो विशेष इति; न; अनिश्चितस्य क्षणिकत्ववद् दर्शनमिति कुतः ? सिद्धं फलं दर्शयन्नाहयत इत्यादि। यतः तस्य तद्विषयत्वात् प्रत्यक्षमविकल्पं सर्वचित्तचैत्तानाम् आत्मसंवेदनं [६४ख] भवेत् । यत इति वा आक्षेपे, नैव भवेत् । अथ निश्चयानां स्वभावः निश्चयान्तनिश्चीयत इत्यदोषः; तत्राप्याह-परतः इत्यादि । परतः अनुभवान्तरात् निश्चयान्तराच्च संवेदने निश्चये वा निश्चयानाम् अनवस्थादेः आदिशब्देन अविशेष्यविशेषणस्याविशेषः सौगतवैशेषिकयोरिति । १० ततो यथा वैशेषिकस्य अनुभवाभावेन प्रत्यक्षादेरभावात् *"प्रत्यक्षानुमानागमबाधितकर्मनिर्दे
शानन्तरप्रयुक्तो हेतुः कालात्ययापदिष्टंः" इत्ययुक्तम्, तथा सौगतस्य *"अनिराकृतः" [न्यायबि० ३।४०] इत्यपि, कस्यचित् निराकरणाभावादिति भावः ।।
ननु सौगतस्य अन्यस्य वा एकान्तवादिनो [न] क्वचित् प्रत्यक्षं कृतलक्षणम्, तद्वा स्वलक्षणं सामान्यलक्षणं वा न पुष्णाति । कथम्भूतं तर्हि तत् कीदृशं वा स्वलक्षणं सामान्यलक्षणं वा १५ पुष्णाति इति चेत् ? अत्राह-प्रत्यक्षम् इत्यादि ।
[प्रत्यक्षं विशदं ज्ञानं प्रसन्नाक्षेतरादिषु ।
यथा यत्राविसंवादस्तथा तत्र प्रमाणता ॥१९॥ प्रत्यनीकधर्मसाधारणसंवित्स्वप्रमितेः असाकल्यसंभवे विषयस्वलक्षणेऽपि किन्न भवेत् इति किमाश्रित्य तत्राप्रमाणत्वम् ? प्रसन्नाक्षबुद्धेः सर्वथा संवादिनियमायोगात् २० किन्न प्रमाणमपि । दृष्टे प्रमाणान्तरावृत्तेः । उपप्लुताक्षाणामपि विनैव लिङ्गलिङ्गिसम्बन्धप्रतिपत्त्या अर्थ परिच्छिद्य प्रवृत्तावविसंवाददर्शनात् । तावता च प्रामाण्यसिद्धेः ।]
__ अत्रायमर्थः-यदा केनचित् चक्षुरादिसामग्रथनुपचरितं प्रत्यक्षं प्रमाणमिष्यते तदा तत्र प्रसङ्गसाधनसामर्थ्यात् ज्ञानत्वमापाद्यते, तथाविधप्रत्यक्षप्रमाणस्य ज्ञानत्वेन व्याप्तः । किमर्थमिति
चेत् ? तदनभ्युपगच्छतः प्रसङ्गविपर्ययात् , तज्ज्ञानं प्रत्यक्षं प्रमाणं यथा स्यादिति । यदा तु २५ केनचिद् अविशदं व्याप्त्यादिज्ञानं प्रत्यक्षमिष्यते तदा ज्ञानं विशदं प्रत्यक्षमिति साध्यते वक्ष्यमाणप्रमाणान्तरसद्भावाऽन्यथानुपपत्तेः । 'ज्ञानम्' इति एकवचनं जात्यपेक्षया सर्वविशद६५क] ज्ञानपरिग्रहार्थम् । कुत एतत् ? इत्यत्राह-प्रसन्नाक्षेतरादिषु प्रसन्नाक्षाः पुरुषा इतरे अप्रसन्नाक्षाः, आदिशब्देन आसन्न-आसन्नतरादिपुरुषपरिग्रहः, तेन यथा येन प्रकारेण यत्र
() निश्चयैः । (२) निश्चयस्य । (३) स्वरूपविषयत्वे । (४) "प्रत्यक्षागमविरुद्धः कालात्ययायदिष्टः"-न्यायकलि. पृ० १५ । न्यायकुमु० पृ. ३२० टि० ७ । (५) न युक्तम् । “स्वरूपेणैव स्वयमिष्टोऽनिराकृतः पक्षः"-न्यायबि० । (६) प्रत्यक्षं वा । (७) प्रत्यक्षम् । (6) तुलना-“यद्यथैवाविसंवादि प्रमाणं तत्तथा मतम् ।"-लघी० श्लो० २२ । उद्धृतमिदम्-त. श्लो० पृ. १७० । अष्टस० पृ० १६३ । सन्मति०टी० पृ० ५९५। (९) अनुपचरित ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org