SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ १।१८] निर्विकल्पकप्रत्यक्षनिरासः इति चेत् ; अत्राह-ज्ञानम् इत्यादि । अत्रापि प्रतिवस्तूपमालङ्काराश्रयणात् यथा ज्ञानं खार्थस्य निरंशक्षणिकपरमाणुरूपस्य बलेन उद्भूतम् अविकल्पं दर्शनम् स्खलक्षणविलक्षणं स्वग्राह्यपराङ्मुखं तथा सामान्यलक्षणं सामान्यविषयं [६३ख] स्वलक्षणविलक्षणं स्वविषयग्रहणपराङ्मुखम् । उभयत्र 'लक्ष्यत इति लक्षणम्' इति व्युत्पत्तेरयमर्थः । कुत एतत् ? इत्याह-सिद्धिः निर्णीतिः स्वलक्षणस्य सामान्यस्य अनेकान्ताद् अनेकान्तमाश्रित्य तथे- ५ क्षणात् तथा वा (तथैव) दर्शनात् । यथा इत्यादिना कारिकार्थमाह-यथा अन्तर्बहिर्वा स्वलक्षणं परपरिकल्पितं सौगतकल्पितं न प्रमाणसिद्धं कर्तृ प्रत्यक्षलक्षणं *"कल्पनापोहमभ्रान्तम्" [न्यायबि०१।४] इत्यध्यक्षस्वरूपं कर्मतापन्नं न पुष्णाति तत्र स्वरूपासमर्पकत्वात् , तथैव परपरिकल्पितं सामान्यं तन्न पुष्णाति इति । कुत एतत् ? इत्यत्राह-क्वचित् इत्यादि । एतदपि कुतः ? इत्यत्राह-द्रव्य इत्यादि । १० ___इतश्च सामान्यलक्षणमनुमानादि परस्य स्वलक्षणविलक्षणमिति दर्शयन्नाह-'अङ्गीकृता' इत्यादि। [अङ्गीकृतात्मसंवित्तर विकल्पोपवर्णनम् । अनुमाद्यात्माऽविकल्पेनार्थस्याविकल्पनात् ॥१८॥ स्वानुभवमन्तरेण बुद्ध ने स्वार्थानुभवः। यथा ज्ञानसत्तामात्रेण अर्थानुभवे न १५ सर्वस्य सर्वदर्शित्वं संभवति तथैव अनिश्चितस्वानुभवसत्तामात्रेणापि अर्थनिश्चये तन्निश्चय इति सर्वस्य सर्वनिश्चय इति 'यः स्वभावो निश्चयेन न निश्चीयते स कथं तद्विषयः स्यात् बहिरर्थवत्' यतः प्रत्यक्षमविकल्पकं भवेत् ? परतः संवेदने वा अनवस्थादः।] _अङ्गीकृता नैयायिकादिनिरासेन अभ्युपगता सौगतेन आत्मसंवित्तिः सर्वचित्तचैत्तानां स्वरूपगृहीतिः तस्या अविकल्पोपवर्णनं निर्विकल्पत्वादि, अनुमानादिः (मादिः) २० तस्यात्मा स्वरूपं तस्य अविकल्पो निर्विकल्पकत्वं तेन अर्थस्य क्षणक्षयादेः अविकल्पनाद अनिश्चयात् अविषयीकरणात् ।*"तत्र यः स्वभावो निश्चयैर्न निश्चीयते स कथं तेषां विषयः स्यात् ।" इत्यभिधानात् इति कथं तैः अनेकान्तसिद्धेः बुद्धेः बाधनमिति भावः । कारिकां विवृण्वन्नाह-स्वानुभव इत्यादि। स्वानुभवं स्वरूपग्रहणमन्तरेण बुद्ध द्वनिस्या (न स्वार्थस्य [६४क] घटादेः अनुभवो ग्रहणं यथा येन ज्ञानसत्तामात्रेण अर्थानुभवे सन्ता- २५ नान्तरज्ञानसत्तामात्रापेक्षयादि (यापि) तदनुभवे सर्वस्य सर्वदर्शित्वम् इति प्रकारेण न संभवति तथैव तेनैव अनिश्चितस्वानुभवसत्तामात्रेण अर्थनिश्चये सन्तानान्तरज्ञानतन्मात्रेणापि तन्निश्चय इति सर्वस्य सर्वनिश्चय इति प्रकारेण स्वनिश्चयमन्तरेण स्वार्थनिश्चयो न तुसंभवति इति सम्बन्धः । तथा च अनुमानम्-यत्र यस्य यदनिश्चितस्वरूपं ज्ञानं तत्र तस्य तदपेक्षया न परमार्थतो निश्चितव्यवहारः यथा घटादौ देवदत्तस्य यज्ञदत्तज्ञानापेक्षया न तथा तद्व्यवहारः, अनि-३० श्चितस्वरूपं च सौगतस्य सर्वत्र सर्वविकल्पज्ञानमिति । अथ स्वविकल्पस्य विषयीकरणम् अन्यस्य ___(१) "सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षम् ।"-न्यायबि० ॥१०। (२) आस्मान्तर । (३) अर्थनिश्चयः। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004038
Book TitleSiddhi Vinischay Tika Part 01
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages686
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy