________________
७६
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः परस्य मतं न युक्तमिति दर्शयति । 'स्थवीयसः' इत्यनेन 'निरंशपरमाणुमात्रं तत्त्वम्' इति निराचष्टे 'प्रतिभासनात्' इत्यतः तस्य विकल्पविषयत्वम् । ततः किम् ? इत्यत्राह-तदेकम् इत्यादि। तस्य अन्तर्बहिःस्वलक्षणस्य एकम् अनेकरूपसाधारणं स्थवीयांसम् अत एव परिणामिनम् विवक्षितेतरपर्यायवन्तम् आकारं लक्षणं सकललोकसाक्षिकम् अभ्रान्तं सन्दर्शयन्ती बुद्धिः ५ अनेकान्तसिद्धिः [अनेकान्ता सिद्धिः] निर्णीतिः यस्या सा तथोक्ता स्वयं वा तस्य सिद्धिः । सा किं करोति ? इत्यत्राह-स्वयम् इत्यादि । स्वयम् आत्मनैव न परेण एकान्तं निराकरोति, अनेकान्तसिद्धेः एकान्तनिषेधात्मकत्वादिति मन्यते । इति हेतोः किं नः अस्माकम् चिन्तया एकान्तनिषेधार्थपरीक्षयेति ?
ननु कथमेकान्तं सा निराकरोति एकान्तविषयानुमानेन बाधितत्वादिति चेत् ? अत्राह१० ज्ञानम् इत्यादि ।
[ज्ञानं स्वार्थबलोद्भूतं खलक्षणविलक्षणम् ।
सामान्यलक्षणं सिद्धिरनेकान्तात्तथेक्षणात् ॥१७॥ यथा अन्तर्बहिर्वा परपरिकल्पितलक्षणं स्वलक्षणं प्रत्यक्षलक्षणं न पुष्णाति तथैव सामान्यम् । क्वचित् 'द्रव्य...] १५ ज्ञानं स्वग्राह्यस्य अर्थस्य न लिङ्गादेः बलेन उद्भूतम् उत्पन्नम् 'अध्यक्षम्' इति
यावत् । यथा स्खलक्षणविलक्षणं निरंशक्षणिकपरमाणुग्रहणपराङ्मुखं तथा सामान्यलक्षणं सामान्य लक्ष्यते यस्य [६३क] येन वा तत्तथोक्तं ज्ञानम् 'अनुमानम्' इति यावत् 'स्वलक्षणविलक्षणम्'इति सम्बन्धः । तथा च कुतः तेन तद्बुद्धर्वा इति भावः । यथातथाशब्दावन्तरेणापि प्रतिवस्तूपमालङ्काराश्रयाणादयमों लभ्यते । कुतस्तर्हि तत्त्वसिद्धिः ? इत्यत्राह-सिद्धिः २० तत्त्वस्य आत्मलाभः निर्णीतिर्वा अनेकान्ताद् अनेकान्तमाश्रित्य तेन हेतुना वा। कुतः ? तथेक्षणात् अनेकान्तप्रकारेण सर्वस्य दर्शनादिति ।।
. कारिकां विवृण्वन्नाह-यथा इत्यादि । यथा येन प्रकारेण अन्तर्बहिर्वा खलक्षणं कर्मतापन्नं प्रत्यक्षलक्षणम् अध्यक्षप्रमाणं कर्तृ न पुष्णाति न गृह्णाति । कथंभूतं तत् ? इत्याह-परपरि
कल्पितं सौगतकल्पितं तथैव सामान्यं "विषयिणि विर्षयशब्दोपचारात् अनुमानं तत् (तन्न) २५ पुष्णाति इति । 'परपरिकल्पितम्' इत्येतदत्रापि योज्यम् । कुत एतत् ? इत्यत्राह-द्रव्य इत्यादि सुगमम् । तत्त्वं न पुष्णातीति । ___अथवा, अन्यथा कारिकेयमवतार्यते-यदि सौगतकल्पितमविकल्पकं दर्शनं न कचिदस्ति तर्हि इदमस्तु
*"अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । ३० बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥" [मी० श्लो॰प्रत्यक्ष० श्लो० ११२]
(१) बौद्धस्य । द्रष्टव्यम्-पृ० २५ टि. १० । (२) निराकरोति । (३) निराचष्टे इति सम्बन्धः । (४) बुद्धिः अनेकान्तसिद्धिः (५) सामान्यविषयके अनुमाने । (६) सामान्य । (७) मीमांसकाभिमतम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org