________________
१।१६ ]
निर्विकल्पकप्रत्यक्षनिरासः ग्राह्यं ग्रहणं वा इति तद्युक्तं 'स्वयम्' इत्यादि इति चेत् ; तन्न 'अहं नीलादिकं वेद्मि' इति प्रतीतेरपलापे सर्वापलापप्रसङ्गात् ।
एतेन एतदपि निरस्तं तदुक्तं परेण-*"यन्निमित्तमस्ति अयं ग्राह्याकारः अयं ग्राहकाकारः अयं संवेदनाकार इति व्यवस्था, तस्य चेद् भेदः तर्हि तेषामपि भेद एव इति नै 'तदात्मकं युक्तम् , अन्यथा न तद्व्यवस्था।" इति; कथम् ? एवं प्रतिभागं विचारणे सर्वस्य ५ परमाणुगमने न सन्तानान्तरसिद्धिः सकलशून्यतामात्रम् अत्राणं वा। अत एव एकानेकरूप-[६२क] विकल्पशून्यप्रतिभासमात्रमपि न युक्तम् । ततः प्रतिभासमात्रमभ्युपगच्छता 'नीलमहं वेद्मि' इत्येकं ज्ञानमभ्युपगन्तव्यमिति सूक्तम्-'स्वयम्' इत्यादि । तथापि तदभ्रान्तमभ्युपगच्छतो दूषणमाह-यदि पुनः इत्यादि । इदम् अद्वयं द्वयनिर्भासवत् संवेदनं यदि पुनः प्रत्यक्षमेव संविदपि नाप्रत्यक्षम् इति एवकारार्थः। तिमिराभ्युपहतचक्षुषां किन्न स्यात् १ स्यादेव संवेदनं प्रत्यक्षमेव १० चन्द्रादिविषयम् । कुत एतत् ? इत्यत्राह-तद् इत्यादि । सुगमम् । पूर्वव्याख्यानेऽपि एतदेव योज्यम् । अयं तु विशेषः तत्र कथश्चिद् इति । तन्न माध्यमिकदर्शनेऽपि *"किं स्यात" [प्र०वा० २।२१०] इत्याद्युपपन्नम् । उक्तमर्थमुपसंहृत्य दर्शयन्नाह-स्वार्थस्वलक्षणम् इत्यादि ।
[ स्वार्थस्वलक्षणं ज्ञानं लक्षयेत् परिणामि च ।
अन्तर्बहिश्च तत्केदं प्रत्यक्ष कृतलक्षणम् ॥१६॥ अन्तः स्वलक्षणस्य परमार्थतो द्वयनि सप्रतीतेः बहिरेकस्य स्थवीयसः प्रतिभासनात् । तदेकं स्थवीयांसं परिणामिनमाकारं सकललोकसाक्षिकमभ्रान्तं सन्दर्शयन्ती बुद्धिः अनेकान्तसिद्धिः स्वयमेकान्तं निराकरोतीति किन्नश्चिन्तया ? ]
__स्वस्वलक्षणमर्थस्वलक्षणं च स्वं स्वग्रहणयोग्यं वा अर्थस्वलक्षणं कर्मतापन्नं ज्ञानं २० कर्तृ परिणामि च उक्तन्यायेन लक्षयेत् निश्चिनुयात् पराभ्यु [पगत] परिणामं च इत्युक्तम् । क ? इत्यत्राह-अन्तर्बहिश्च इति । अन्तः स्वस्वलक्षणम् बहिः अर्थस्वलक्षणम् । ततः किं जातम् ? इत्यत्राह-तत् केदम् इत्यादि । यत एवं तत् तस्मात् क [क]चित् बहिरन्तर्वा इदं सौगतेन उच्यमानम् किम् ? प्रत्यक्षम् । कथंभूतम् ? कृतलक्षणं*"कल्पनापोडमभ्रान्तम्" [न्यायबि० ११४] इति कृतं लक्षणं यस्य तत् तथोक्तम्, कचिदपि इति । यदि वा, २५ प्रत्यक्षं दर्शनप्राचं वस्तु कृतलक्षणं निश्चितस्वरूपं क इति व्याख्येयम् ।
___कारिकां विवृण्वन्नाह-अन्तः इत्यादि । [६२ख] अन्तःस्वलक्षणस्य ज्ञानस्वलक्षणस्य द्वयनिर्भासप्रतीतेः एकानेकाकारप्रतीतेः । किम् ? परमार्थतो न विपर्यासात् अन्यथाभूतस्य अन्यथाग्रहणात् । बहिः एकस्य इत्यनेन *"सञ्चितालम्बनाः पञ्च विज्ञानकायाः" इति
(1) ग्राह्याद्यात्मकम् । (२) ".."सा चित्रतैकस्यां न स्यात्तस्यां मतावपि । यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् ।"-प्र. वा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org