________________
७४
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः कारणोपलक्षणम्, तस्माद् आगतम् द्विचन्द्रादिज्ञानमिति यावत् । तत् किम् ? इत्याह-प्रत्यक्षं भेदिवत् भाति च कथञ्चित् प्रत्यक्षमित्यर्थः । केषाम् ? [६१क] अनेकान्तविद्विषाम् एव । तथा च यदुक्तं तैरेव-*"यदवभासते न तत् सत् यथा द्विचन्द्रादि, अवभासते च ज्ञानघटादि" इति ; तन्निरस्तम् ; सर्वथा विभ्रमस्य दृष्टान्तेऽपि न सिद्धिरिति भावः ।
*"एकानेकत्वाद्यशेषविकल्पशून्यं स्वसंवेदनमात्रनिष्ठं तत्त्वम्" इत्यपरः माध्यमिकः । तं प्रति आह-आत्मसंवेदनम् इत्यादि । भ्रान्तीलादिबुद्धे स्मार्थ (रयमर्थः) *"निरालम्बनाः स्वरूपालम्बनाः प्रत्ययाः" [प्र० वार्तिकाल० पृ० ३६५ ] इत्यभिधानात्
आत्मसंवेदनं स्वरूपग्रहणम् अभ्रान्तम् विभ्रमाकारशून्यम् अन्यथा सकलविकल्पशून्यताऽसिद्धेरिति मन्यते । अत्र दूषणम् भ्रान्ति (भाति) तदात्मसंवेदनं प्रतिभासते भेदिना चित्र१० पतङ्गादिना समानमिति । एतदुक्तं भवति-सर्वविकल्पातीतत्वेन निरंशस्य ग्राह्याकारैः सांशस्य
इव भासनात् कथं तदभ्रान्तम् यतः प्रकृतमर्थतत्त्वं सिध्येत् ? तथापि प्रत्यक्षत्वे दूषणमाहप्रत्यक्षं तदात्मसंवेदनम् तैमिरं चान्द्रं द्विचन्द्रादिविषयं ज्ञानम् किन्न प्रत्यक्षम् अपि तु प्रत्यक्षमेव । केषाम् ? इत्यत्राह-स्थाद्वादविद्विषां (अनेकान्तविद्विषाम्) सर्वविकल्पा
तीतैकान्तवादिनाम् । तथा च *"यद् विशददर्शनावभासिन तत् परमार्थसत् यथा द्विच१५ न्द्रादि, तदवभासि च जाग्रत्स्तम्भादि ।" इत्यत्र वादिनो दृष्टान्ते साध्यहीनता इत्यभिप्रायः ।
कारिकां विवृण्वन्नाह-नहि इत्यादि । भ्रान्तेः बहिरन्तविभ्रमैकान्तस्य स्वस्य स्वरूपस्य संवेदनं ग्रहणं नहि भ्रान्तम् शक्यं युक्तमुपपन्नम् किन्तु अभ्रान्तमेव युक्तम् इति [६१ख] अनेकान्तसिद्धिः । अस्यानभ्युपगमे दूषणमाह-तद् इत्यादि । तस्य भ्रान्तिस्वसंवेदनस्य अप्रत्य
क्षत्वे भ्रान्तत्वे इत्यर्थः विषयवत् घटादिवत् स्वभावासिद्धिप्रसङ्गात् भ्रान्तिस्वरूपासिद्धिप्रस२० ङ्गात् । तदुक्तं न्या य वि नि श्च ये
*"विभ्रमे विभ्रमे तेषां विभ्रमोऽपि न सिध्यति" [न्यायवि० ११५४] इति ।
द्वितीयमर्थं कथयन्नाह-नापि इत्यादि । पक्षान्तरसूचकः अपिशब्दः सर्वथा सर्वात्मना तत् भ्रान्तः आत्मसंवेदनम् अभ्रान्तमेवं । नापि न केवलं सर्वथा न भ्रान्तमेव । कुत एतत् ? इत्य
त्राह-स्वयम् इत्यादि । स्वयम् आत्मना सौगतोपगमाद् अद्वयस्यापि तकं (स्वसं)वेदनस्यापि २५ सर्वविकल्पातीतस्य द्वयनिर्भासप्रतीतेः संवेदनग्राह्याकारैः एकानेकाकारप्रतीतेः । ननु च यदि नीलादिशरीरसुखादि ग्राह्यम् न तँतोऽपरं [ग्राहकं] ग्रहणं वा प्रतीयते । अथ तद् ग्राहकम् ; नापरं
(१) आशुभ्रमणनौयानसंक्षोभादिकारणानामुपलक्षणम् । (२) द्विचन्द्रादौ ।। (३) “भावा येन निरूप्यन्ते तद्र पं नास्ति तत्त्वतः। यस्मादेकमनेकं च रूपं तेषां न विद्यते ॥"-प्र० वा. ३१४६० । (४) "ततो निरालम्बनाः सर्व एव प्रत्ययाः स्वप्नप्रत्ययवदिति कोऽर्थः ? स्वरूपालम्बनाः।" (पृ०३६५) "निरालम्बनशब्दस्य स्वांशालम्बाभिधेयता ।"-प्र. वार्तिकाल. पृ० ३७२ । (५) माध्यमिकस्य । (6) "स्वरूपे सर्वमभ्रान्तं पररूपे विपर्ययः।"-प्र. वार्तिकाल. पृ. ३७२।(७) नीलादिसुखादितः । तुलना"तस्मान्न नीलादिव्यतिरेकेण बोधो बुद्धिरिति निरूप्यते । नीलान्न व्यतिरेकेण विषयिज्ञानमीक्षते । ज्ञानपृष्ठेन भेदस्तु कल्पनाशिल्पिनिर्मितः॥"-प्र. वार्तिकाल.पृ०४०६ । “नहि सितासितादिव्यतिरेकेण ग्राहकादिता प्रतिभासमानोपलभ्यते ।"-प्र. वार्तिकाल पृ० ३७२।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org