________________
११५ ]
निर्विकल्पक प्रत्यक्षनिरासः
ज्ञानम्” [प्र०समु० १।८] इत्यादि । तथाव्यवहाराभावः अन्यत्रापि समानः ।
४
*“ द्विविधो हि अर्थः प्रत्यक्षः परोक्षश्च, तत्र यो ज्ञानप्रतिभासं स्वान्वयव्यतिरेकावनुकारयति स प्रत्यक्षोऽर्थः अन्यः परोक्षः" इत्येतदिदानीं दूषयन्नाह - तन्न इत्यादि । तत् तस्मात् उक्तन्यायात् न प्रत्यक्षव्यवस्था कल्पनापोढस्याऽभ्रान्तस्य विकल्प भ्रान्तिसंभवे न प्रत्य - क्षार्थो लक्षणाभावादिति मन्यते । नापि परोक्षविषयव्यवस्था तैमिरिकं प्रति परोक्षत्वेन अभि- ५ मतस्य एकचन्द्रादेः आनुमानिकं च प्रति पावकादेः स्वप्रत्यक्षत्वादिति भावः । ततो निराकृतमेतत्-*"प्रमाणं द्विविधं मेयद्वैविध्यात्" [प्र० वा० २।१] इति; हेतोरसिद्धत्वात् । अत्रैव धर्मिणोऽसिद्धिं दर्शयन्नाह - प्रमाणेत्यादि । [ ६०ख ] प्रमाणमविसंवादि ज्ञानम् ' इतरद् अप्रमाणम् तयोर्व्यवस्थाने (स्थाभावे), एतदपि कुतः ? इत्यत्राह - तत्त्वेतर इत्यादि । तत्त्वं परमार्थाद्वयं ज्ञानम् इतरः अपरमार्थो द्विचन्द्रादिः तयोर्व्यवस्थायोगात् उक्तन्यायेन तन्नि [षेधात् ] । [तन्न] योगाचारमतेऽपि *" किं स्यात् " [प्र०वा०२।२१०] इत्यादि युक्तम् । केवलं “मायामरीचिप्रभृतिप्रतिभासवदसत्त्वेऽप्यदोषः " [प्र० वार्तिकाल० ३।२११] इत्येतत् *" तदेतन्नूनमायातम् " [प्र० वा० २।२०९] इत्यादि च माध्यमिकस्य दर्शनमवशिष्यते, तत्रापि तन्न युक्तमिति दर्शयन्नाह - आत्मसंवेदनम् इत्यादि ।
१०
"
[ आत्मसंवेदनं भ्रान्तेरभ्रान्तं भाति भेदिवत् । प्रत्यक्षं तैमिरं चान्द्रं किन्नानेकान्तविद्विषाम् ॥ १५ ॥
संवेदनं ग्रहणं तदभावे अर्थवत् २० व्याख्येयमेतत् ।
न हि भ्रान्तेः स्वसंवेदनं भ्रान्तं युक्तम्, तदप्रत्यक्षत्वे विषयवत्स्वभावासिद्धिप्रसङ्गात् । नापि तत् सर्वथा अभ्रान्तमेव स्वयमद्वयस्यापि द्वयनिर्भासप्रतीतेः । यदि पुनः इदं प्रत्यक्षमेव तिमिराभ्युपहतचक्षुषां किन्न स्यात् १ तद्'। ] भ्रान्तेः अन्तर्बहिर्विभ्रमस्य यदात्मनः स्वरूपस्य तदसिद्धेरिति मन्यते । तत् अभ्रान्तम् अवितथम्, काका अध्याहार्यम्, अन्यथा भ्रान्तेरसिद्धि: । अत्र दूषणमाह- भाति भेदिवत् । भाति चकास्ति तत्संवेदनं भेदी चित्रपतङ्गादिः तेन समानं तद्वत् । एतदुक्तं भवति - यथा चित्रपतङ्गादिः एकानेकरूपतया भाति तथा तत्संवेदनमपि विभ्रमेतरैकानेकरूपतया इति । केषां तदित्थम् ? इत्यत्राह-अनेकान्तविद्विषाम् विभ्रमैकान्तवादिनाम् । अत्रैव दोषान्तरमाह - प्रत्यक्षम् २५ इत्यादि । चन्द्रस्य इदं चन्द्रविषयं चान्द्रम् । किं सर्वम् ? न, तैमिरं तिमिरग्रहणं भ्रान्ति
७३
(1 ) " भ्रान्तिः संवृतिसज्ज्ञानमनुमानानुमानिकम् । स्मरणं चाभिलाषश्चेत्यक्षाभासं सतैमिरम् ॥ ८॥ मरीचिकादिषु जलादिकल्पनाद् भ्रमज्ञानं प्रत्यक्षाभासम् । संवृतिसत्यं हि स्वस्मिन् अर्थान्तरमारोप्य तत्स्वरूपकल्पनात् प्रत्यक्षाभासम् । अनुमानं तत्फलं च पूर्वानुभवकल्पनात् न प्रत्यक्षम् । " - प्र० समु० वृ० १८ । ( २ ) " न प्रत्यक्ष परोक्षाभ्यां मेयस्यान्यस्य संभवः । " - प्र०वा०३ । ६३ । “यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदः तत् स्वलक्षणम् । अन्यत् सामान्यलक्षणम् ।" - न्यायबि० १।१३, १७ । (३) सामान्यविशेषात्मन एकस्यैव प्रमेयत्वात् । ( ४ ) " प्रमाणमविसंवादिज्ञानम् । " - प्र० वा० २।१ । (५) "इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥ " - प्र० वा० । (६) 'काकु' इति प्रश्नपद्धतौ ।
Jain Education International
For Personal & Private Use Only
१५
www.jainelibrary.org