________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः *"किञ्चेन्द्रियं य [८] क्षाणां भावाभावानुरोधि चेत् ।
तत्तुल्यं विक्रियावच्चेत् सा चेयं न किमिष्यते ॥" [प्र० वा० २।२९६] किञ्च, द्विचन्द्रादिभ्रान्तिानसी चेत् ; तर्हि सादिभ्रान्तिवत् इन्द्रिय विकृतावपि निवर्तेत, अक्षविप्लवे निवृत्तेऽपि वा न निवर्तेत । एतदप्युक्तम्
*"सर्यादिभ्रान्तिवच्चास्याः स्यादक्षविकृतावपि ।
निवृत्तिनं निवर्तेत निवृत्तेऽप्यक्षविप्लवे ॥" [प्र० वा० २।२९७] अपि च, सर्पादिभ्रान्तिवद् एतस्याः शब्दैः तद्वाचकैः अन्यसन्ताने समर्पणं पूर्वदृष्टद्विचन्द्रादिस्मरणापेक्षणम् अपरिस्फुटप्रतिभासनञ्च स्यात् । तथा चोक्तम्
___ *"कदाचिदन्यसन्ताने तथैवार्येत वाचकैः । १० दृष्टस्मृतिमपेक्षेत न भासेत परिस्फुटम् ॥" [प्र० वा० २।२९८]
इति चेत् ; तन्न; अस्य प्रकृतेऽपि समानत्वात् । तथाहि-ग्राह्यग्राहकसंवित्तिभेदसंवेदनं भ्रान्तिश्चेत् मानसी; किम् इदानीमिन्द्रियज्ञानम् ? इन्द्रियभावा[भावा]नुरोधि चेत् ; तत्तुल्यमितरत्रापि । एवं शेषमपि वक्तव्यम् । तथापि इयं मानसी; तथा द्विचन्द्रादिभ्रान्तिरपि स्यादिति
मन्यते । १५ एतेन एतदपि निरस्तं यदुक्तं परेण-*"निरालम्बनाः सर्वे प्रत्ययाः प्रत्ययत्वात् स्वप्न
प्रत्ययवत्" [प्र. वार्तिकाल० ३।३३१] इति; कथम् ? वादिनं प्रति दृष्टान्तस्य साध्यविकलत्वात्। अथ प्रतिवादिनं प्रति न तस्य [६०क] तद्विकलतेत्यदोषः; तर्हि प्रतिवादिनोऽनुसरणे न अविभागबुद्ध्यात्मसंवेदनसिद्धिः।।
एवम् *"अविकल्पकमेकं च प्रत्यक्षम् (क्षाभं)" [प्र. वा० २।२८८] इत्येतत् २० निराकृत्य *"त्रिविधं कल्पनाज्ञानं प्रत्यक्षाभम्" [प्र० वा० २।२८८] इत्येतत् निरा
कुर्वन्नाह-बहिः इत्यादि । अन्तः परेण अनुमानादेः अविकल्पकत्वमिष्यते इति बहिर्ग्रहणम्, तंत्रापि कल्पनापोढम् । किं तत् ? इत्याह-अनुमानादिनिर्णयज्ञानम् इति । आदिशब्देन भ्रान्तिसंवृति स(सज् )ज्ञानादिपरिग्रहः । प्रत्यक्षवत् यदि अनुमानादि अविकल्पकम् ; "तद्
गृहीतेऽपि समारोपः स्यादिति तन्निरासार्थं निर्णयज्ञानं सविकल्पकमिव मानसविकल्प इव २५ कुतश्चिद् विकल्पवशात् प्रतिभाति इति निराकृतमेतत् -*"भ्रान्ति [:] संवृतिसं(सज्)
'किम्वन्द्रियं यदक्षाणां.."सैवेयं किनिषिध्यते। ..."तिमिरज्ञानं भ्रममनिच्छतोऽपि किं कीदृशमैन्द्रियज्ञानमिष्यते ? यदक्षाणां भावाभावयोरनुरोधि स्वभावाभावाभ्यामनुवर्तकं तदैन्द्रियमिति चेत : तत इन्द्रियभावाभावानुरोधित्वं तैमिरिकज्ञानस्यापि तुल्यम् । न हि इन्द्रियव्यापारमन्तरेण तैमिरिकज्ञानमुत्पद्यते । इन्द्रियविकारेण विक्रियावज्ज्ञानमैन्द्रियं चेत् ; द्विचन्द्रादिज्ञानानां तिमिरादीन्द्रियविकारेण विक्रिया। सैवेयम् अभूतार्थोपदर्शनात्मिका भ्रान्तत्वनिमित्तमुक्ताऽस्माभिः किं निषिध्यते ?'-प्र० वा० मनो. (२) यथा रजौ सर्पादिभ्रान्तिः मानसी इन्द्रियविकारे सत्यपि मानसविमर्शात् निवर्तते। (३) द्विचन्द्रादिभ्रान्तः। (४) इन्द्रियस्य अकारणत्वात् स्पष्टप्रतिभासो न स्यात् । (५) ग्राह्यग्राहकसंवित्तिभेदसंवेदनरूपा भ्रान्तिः । (६) "अत एव सर्वे प्रत्यया अनालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति प्रमाणस्य परिशुद्धिः"प्र. वार्तिकाल. पृ० ३५९ । (७) स्वरूपे । (८) बौद्धेन । (९) बहिरपि । (१०) अनुमानगृहीतेऽपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org