________________
११४ ]
निर्विकल्पक प्रत्यक्षनिरासः
७१
नीयं मध्ये करणात् । ततोऽयमर्थः बहिः चन्द्रादौ चित्तं सर्वे (सर्वं ) किन्न प्रत्यक्षं कल्पनापोढम् अभ्रान्तं लक्ष्यते किन्तु लक्ष्यत एव ।
कारिकां विवृण्वन्नाह - प्रत्यक्ष इत्यादि । प्रत्यक्षं च तदाभासं च तयोः । किम् न किञ्चिद् वत (बाह्य) कारणं निमित्तम् आश्रित्य भेदं लक्षयेत् ? आकस्मिकं लक्षयेद् इत्यर्थः । कदा ? इत्यत्राह - कल्पना इत्यादि । कल्पनापोढस्य अभ्रान्तस्यापि 'चित्तम्' ५ इत्यनुवर्तमानं जात 'ती' परिणामम् इह सम्बध्यते ' चित्तस्य' इति । अपिशब्दः पराभ्युपगमसूचकः । विकल्प भ्रान्तिसंभवे एकस्य सदसदाकार साधारणस्य भावात् विकल्पस्य निरंशस्य सांशतया अवभासभावाद् भ्रान्तेश्च संभवे सति । एतदुक्तं भवति - प्रत्यक्षत्वस्य कल्पनापोढाऽभ्रान्तत्वे व्यापके, ते च स्वविरुद्धकल्पना - भ्रान्तिव्याप्त [ ५९ ] सर्वज्ञानेभ्यो व्यावर्तमाने स्वव्याप्यं प्रत्यक्षत्वमादाय निवर्त्तेते इति न प्रत्यक्षं नाम, तदभावे न तदाभासं १० तदपेक्षत्वादस्य, इति तर्हि कल्पनापोढ (ढा) भ्रान्तत्वाऽभावेऽपि प्रत्यक्षस्य लक्षणान्तरस्मात् (न्तरमस्मात् ) शक्यं वक्तुं प्रतिपादयितुम् । किम् ? इत्याह- चन्द्रम् इत्यादि । चन्द्रम् एकग्रहणं वा उपलक्षणं तेन संख (शङ्ख) करितुरगादिशुक्लतद्वेशादिग्रहणं तं पश्यतोऽपि चक्षुर्ज्ञानेन साक्षात्कुर्वतोऽपि न केवलम् अपश्यतः । किम् ? इत्याह- द्विचन्द्रभ्रान्तिः इति । अत्रापि द्विचन्द्रग्रहणम् उपलक्षणनिमिति (क्षणमिति) स्वापादौ देशादिग्रहणं तस्य भ्रान्तिः अन्यथाग्र हणम्, साच १५ मानसी इति द्रष्टव्या । तं पश्यतो ऽन्यस्याऽसंभवात् । कस्य इव ? इत्यत्राह - स्वयम् इत्यादि । स्वयम् आत्मनः अविभागा निरंशा या बुद्धिः तस्यां कल्पनारचिता [ ग्राह्य ] ग्राहकसंवित्ति - भेदाः तेषां संवेदनस्य इव तद्वत् इति । एतदुक्तं भवति - यथा अविभागबुद्धिं पश्यतोऽपि ग्राह्यग्राहकसंवित्तिभेदसंवेदनं भ्रान्तिः मानसी तथा प्रकृताऽपि इति । तस्मात् प्रत्यक्षेत्यादि स्थितम् । पूर्वं 'प्रत्यक्षाभावात् तदाभासभेदं न लक्षयेत्' इत्युक्तम् इदानीं 'तदाभासाऽभावात् प्रत्यक्षमिदं २० न लक्षयेत्' इत्युच्यते । ततो निराकृतमेतत्
"
*“ “त्रिविधं कल्पनाज्ञानम् आश्रयोपप्लवोद्भवम् ।
अविकल्पकमेकं च प्रत्यक्षाभं चतुर्विधम् ||" [ प्र० वा० २।२८८ ] इति ।
कथम् ? प्रत्यक्षाभस्य विकल्पस्य कस्यचिदभावात् । ननु द्विचन्द्रभ्रान्तिः मानसी चेत्; किमिदानीमिन्द्रियज्ञानम् ? यद् [ ५९ ] इन्द्रियस्य भावाऽभावाभ्यां भावाभाववत् तत्त- २५ स्येति चेत्; द्विचन्द्रादिज्ञानम् अत एव तस्य अस्तु । तस्य विकारे यद् विकारवत् तत्तस्येति चेत् ; एतदपि अनेन नोत्सृष्टम् । तदुक्तम्
Jain Education International
1
(१) 'ता' इति षष्ठी । (२) प्रत्यक्षाभावे । ( ३ ) प्रत्यक्षाभासम् । ( ४ ) इन्द्रियप्रत्यक्षेण विषयी - कुर्वतः । (५) इन्द्रियभ्रान्तेः । ( ६ ) “त्रिविधं कल्पनाज्ञानं प्रत्यक्षाभं मरीचिकायां जलाध्यवसायि भ्रान्तिज्ञानम् संवृतौ विसंवादिव्यवसाय सांवृतज्ञानम् पूर्वदृष्टैकत्वकल्पनाप्रवृत्तं लिङ्गानुमेयादिज्ञानम् । अविकल्पकं चैकम् प्रत्यक्षाभम् । कीदृशम् ? आश्रयस्य इन्द्रियस्य उपप्लवः तिमिराद्युपघातः तस्माद् भवो यस्य तत्तथा । एवञ्च चतुर्विधञ्च प्रत्यक्षाभासम् ।” प्र० वा० मनो० । (७) तुलना - "यदि तावत् मानसमेतत् द्विचन्द्रादिज्ञानमिन्द्रियभावाभावानुरोधि न स्यात् ।" - प्र० वार्तिकाल० पृ० ३३६ । (८) इन्द्रियस्य ।
For Personal & Private Use Only
www.jainelibrary.org