________________
सिद्धिविनिश्चयटीकायाम् [१ प्रत्यक्षसिद्धिः यथा नीलं नीलतयावभासमानं तथैव तद्व्यवहारावतारि, अवभासन्ते च क्षणिकतया सर्वे भावाः" इत्यभिधाय यदि ग्राह्य ग्राहकसंवित्तिभागवत्तया भासमानोऽपि बुद्ध्यात्मा तथैव परमार्थसन्नभवेत् ; तेनैवे हेतोर्व्यभिचारः स्यात् , तस्मात् 'तथैवैपरमार्थसन्' इति प्रज्ञा क र स्य प्रदर्शनार्थम् ‘सद्भिः' इति वचनं व्याख्यातम् [इति] तात्पर्यार्थः ।।
शब्दार्थो व्याख्यायते-सद्भिः विद्यमानैः सच्चेतनादिवद् असद्भिः अविद्यमानैः मरीचिकातोयादिवत् [चेति] समुच्चये । कैः ? इत्याह-बहिरित्यादि । आदिशब्दः संवित्तिग्रहणार्थः । तैः किम् ? इत्याह यदि इत्यादि । कस्यचित् इति सामान्यवचनं पूर्वस्य विकल्पस्य च बुद्ध्यात्मनः संग्रहार्थम् , एकत्वं सिध्येत् । अत्र दूषणम् तथैव इत्यादि । [तथैव]
तेनैव प्रकारेण सुखदुःखादिभिः क्रमवद्भिः सद्भिः असदभिवों किन्न अक्रमात्मनः १० सिद्धिः स्याद् एकत्वस्य इति मन्यते । ततः किं सिद्धम् ? इत्याह-अनेकान्त इत्यादि ।
उभयथापि सद्भिर्वा एकत्वप्रकारेण असद्भिरपि एकत्वे एकस्य विभ्रमेतरत्वसिद्धिः नैरात्म्यसिद्धरभावः।
एवं पैरस्य अनिष्टसिद्धिं प्रदर्य अधुना अत्रैव पूर्वपक्षे इष्टाभावं कथयन्नाह-प्रत्यक्षम् इत्यादि ।
[प्रत्यक्षमविभागं चेचित्तं भागीव किं बहिः।
नान्तस्तदेव प्रत्यक्षं कल्पनापोढमञ्जसा ॥१४॥ कल्पनापोडस्याभ्रान्तस्यापि विकल्पभ्रान्तिसंभवे प्रत्यक्षतदाभासयोः किं कारणमाश्रित्य भेदं लक्षयेदिति प्रत्यक्षस्य लक्षणान्तरं शक्यं वक्तुम् , चन्द्रमेकं पश्यतोऽपि द्विचन्द्रभ्रान्तिः मानसी स्वयमविभागबुद्धौ कल्पनारचितग्राह्यग्राहकसंवित्तिभेदसंवेदन२० वत् । बहिरप्यनुमानादिनिर्णयज्ञानं सविकल्पकमिव कुतश्चित् प्रतिभाति । तन्न प्रत्यक्षपरोक्षविषयव्यवस्था, प्रमाणेतरव्यवस्थाऽभावे तत्त्वेतरव्यवस्थाऽयोगात् ।]
अविभागं भागीव सिवानिव (भागवानिव) भाति चेत् यदि चित्तं ज्ञानम् । अत्र दूषणमाह-अन्तः स्वरूपे तदेव चित्तं प्रत्यक्षं कल्पनापोदं [५८ख] कल्पनापोढत्वात् तदपि अभ्रान्तत्वात् यत् परेणोक्तं 'न लक्ष्यते' इति पूर्वकारिकाक्रियापदेन सम्बन्धः । २५ अञ्जसा परमार्थेन [न] केवलम् इच्छयैव लक्ष्यत इत्यर्थः। निरंशस्य सांशतया अवभासते (सने) विभ्रमस्य सदाकारसाधारणतया च कल्पनायाः व कल्पनाया स्वभावादसिद्धो हेतुः इत्यभिप्रायः ।
ननु च प्रथमं दर्शनम् अविभागमेव आत्मानं पश्यति तदनन्तरभाविविकल्पस्तु तत्सभागमिव व्यवस्यति ततोऽयमदोष इति चेत् ; अत्राह-किं बहिरि [ति] 'न' इत्येतदत्रापि सम्बन्ध.
(१) द्रष्टव्यम्-पृ० २ टि०१०। (२) बुद्ध्यात्मनैव । (३) ग्राह्यग्राहकादिभेदवत्त्वेन । (४) बौद्धस्य । “प्रत्यक्षं कल्पनापोढम्"-प्र०समु० श्लो० (५)"कल्पनापोढमभ्रान्तं प्रत्यक्षम्"-न्यायबि० ॥४॥ (६) 'व कल्पनाया' इति पुनरुक्तम् । (७) निर्विकल्पम्। (८) स्वरूपम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org