________________
१११३ ]
निरंशसंवेदननिरासः स्यात्, इति *"यथादर्शनमेवेयं मानमेयफलस्थितिः" आहो 'यथातत्त्वम्' इति कुतो निश्चयः ?
स्यान्मतम्-न क्रमभाविसुखादिव्यतिरिक्तभावा (क्तोऽभाग) बुद्ध्यात्मा अनुभूयते, केवलं क्रमजन्मसुखादिवेदनात्, कथं से क्रमवानिव भाति इत्युच्यते ? अन्यथा खरविषाणं तथा भाति इति; ग्राह्याकारव्यतिरिक्तोऽपि नाऽनुभूयते 'नीलादिकमहं वेद्मि' इति सर्वदा प्रतीतेः । इति समानम् । तदाकारकल्पने सन्तानान्तरवत् प्रसङ्गः । यत्पुनरेतत्प्रसङ्गः ।
यत्पुनरेतत्-प्रज्ञा क र गुप्त स्य प्रति भा सा द्वै त सि द्धि प्र क र णे चोद्यम्*"यद्यसौ क्रमवानवभासमानोऽपि क्रमवानिव भातीत्युच्यते तर्हि असन् सन्निव अचेतनश्चेतन इव भातीति किन्नोच्यते ?" इति; तदपि प्रकृते भवति न वेति चिन्त्यम् । तन्न प्रथमं दर्शनम् ।
द्वितीयं दूषयति दर्शयित्वा-भागीव भाति वुद्ध्यात्मा बहिरन्तर्मुखादिभिः लक्ष्यते [५७ख निरंशदर्शनपृष्ठभाविविकल्पेन निश्चीयते चेद् यदि । अत्र दूषणम्-अक्रमः किन्न क्रमवानिव लक्ष्यते तेनैव विकल्पेनाव्य (नाध्य)वसीयते इति ? न्यायस्य समानत्वात् सर्वस्य ।
किञ्च, विकल्पोऽपि तथा तं व्यवसन् (स्यन् ) ग्राह्यग्राहकसंवित्तिभेदवान् भवति न वेति चक्षुषी निमील्य उन्मील्य वा चिन्तय तावत् । यदि सँ कुतश्चित् तथा भवति; तद्यश्चि १५ (तद्वत् स) एव बुद्ध्यात्मा तत एव तथा भवतु इति किं विकल्पकल्पनया ? तत्रापि पुनस्तथा कल्पने अनवस्था । न च परस्य विकल्पो नाम इत्युक्तम् । तन्न द्वितीयमपि दर्शनं श्रेयः। ।
कारिकायाः सुगमत्वाद् व्याख्यानमकृत्वा 'यद्यप्यभागबुद्ध्यात्मा भागीव क्रमवानिव वा भाति लक्ष्यते वा तथापि सौगतस्य पुरुषाद्वैतवादिनो वा मतं सिध्येत् न जैनस्य । [न] हि तथाभासनात् स तथैव भवति, न खलु जलमिव मरीचिकाचक्रं जलमेव भवति' इति चोद्यं मनसि २० निधाय दूषयन्नाह-[तत्र सद्भिः इत्यादि ।
[तत्र सद्भिरसद्भिश्च एकत्वं कस्यचिद्यदि ।
तथैव किन्नानेकान्तः क्रमवद्भिरक्रमात्मनः॥१३॥] इदमत्र तात्पर्यम्-'भागीव' इति वचनात् तत्र बुद्ध्यात्मनि भासमाना अपि ग्राह्यादयो भागा न परमार्थसन्तः, असन्तोऽपि न बुद्ध्यात्मनो भिन्ना एव । *"वित्तेविषयनिर्भास" २५ [सिद्धिवि०] इत्यादि वक्ष्यमाणदोषात् । ततः ते ततः कथञ्चिदभिन्ना अभ्युपगन्तव्या इति ।
नन्वेवमपि 'असद्भिः' इति वक्तव्यम् न्याय्यत्वात् किं 'सद्भिः' इत्यनेन विपर्ययादिति चेत् ; सत्यम् ; तथापि *" यद् यथावभासते [५८क] तत्तथैव परमार्थसद्व्यवहारावतारि
(१) अविभागबुद्ध्यात्मा । (२)चेत् । (३) ग्राह्याकारकल्पने । (४) ग्राह्याकारः ग्राहकाकारः संविदाकारश्च भिन्नसन्तानः स्यात् । (५) 'यत्पुनरेतत्प्रसङ्गः' इति द्विलिखितम् । (६) विकल्पः । (७) ग्राह्यग्राहकादिभेदवान् । (८) भागीव क्रमवानिव वा । (९) भागी क्रमवान् वा । (१०) भासमानम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org