________________
सिद्धिविनिश्चयटीकायाम्
[ १ प्रत्यक्षसिद्धिः
अत्र 'स्वयम् अविभागोऽपि बुद्धयात्मा भागीव भाति' इत्येकं दर्शनम्, 'तदनन्तरभाविनी विकल्पिक बुद्धिः तमन्यथाप्रतिभासमपि सभागमिव व्यवस्यति' इत्यपरम् । तत्र प्रथमं दर्शयित्वा तावद् दूषयति- न विद्यते भागो यस्य स चासौ बुद्ध्यात्मा च बुद्धिरेव । स किम् ? इत्याहभाति । क इव ? भागीव । कैः ? इत्याह - बहिरन्तर्मुखादिभिः आदिशब्देन संवित्ति५ परिग्रहः । तदुक्तं [५६ख] परेण * ' ग्राह्यग्राहकसंवित्तिभेदवान्" [प्र० वा० २।३५४] इति चेद् यदि; दूषणम्–अक्रमः सुखादिक्रमरहितः अविभाग (अभाग) बुद्ध्यात्मा किन्न क्रमवान् इव सुखादिक्रमवानिव भाति इति संबुद्धौ ( सम्बन्धः) । ग्राह्यग्राहकसंवित्तिभेदवत् सुखादिभेदोऽपि न तात्त्विक इति तत्संवेदनस्य प्रत्यक्षत्वदर्शनवर्णनमनर्थकम् । ननु यद्यसौ ? क्रमवान् प्रतिभाति क इवार्थ : ? न हि नीलं नीलतया प्रतिभासमानं नीलमिव युक्तम् । अथ तथा १० न प्रतिभाति, तथापि क इवार्थ : ? न खलु नीलमपीततयाऽवभासमानं पीतमिव भवितुमर्हतीति चेत्; तर्हि यदि ग्राह्यग्राहकसंवित्तिभेदवत् प्रतिभाति क इवार्थः ? अन्यथापि क इवार्थ इति
समानम् ।
किञ्च, यदि अविभागः प्रमाणतः स कदाचित् प्रतिपन्नः स्यात् ; तदा अन्यदा सविभागदर्शनात् सविभाग इव इति युक्तो व्यवहारः, अँजलस्य मरीचिकाचक्रस्य कदाचिदर्शनात् १५ तंत्र जलमिव इति व्यवहारवत् । न चैवमिति निरूपयिष्यते अनन्तरमेव ' स्वयमद्वयस्य द्वयनिर्भासप्रतीतेः' इत्यनेन । तथा च निराकृतमेतत्
२०
६८
*" अविभागोऽपि " [प्र० वा० २।३५४] इत्यादि । *"मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादयः । अन्यथैवावभासते तद्र परहिता अपि ॥ तथैवाऽदर्शनात्तेषामनुपप्लुतचक्षुषाम् ।
दूरे यथा वा मरुषु महामाल्यादि (महानल्पोऽपि दृश्यते ॥ यथादर्शनमेवेयं मानमेयफलस्थितिः । [ ५७ क]
क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम्॥" [प्र०वा०२।३५५-५७]इति [च];
कथम् ? दृष्टान्तदाष्टन्तिकयोः असाम्यात् । न हि यथा अनुपप्लुतचक्षुषां मृच्छकलादि२५ दर्शनमन्यथा तथा बुद्ध्यात्म दर्शनमिति । न च दृष्टान्तमात्रादभिमतार्थः सिद्धिमुपगच्छति, अन्यथा सर्वं सर्वस्य सिध्येत् तदविशेषात् । एतेनैतदपि निरस्तम्
*"अन्यथैकस्य भावस्य नानारूपावभासिनः ।
;.
सत्यं कथं स्युराकाराः तदेकत्वस्य हानितः || ” [प्र०वा० २।३५८] इति दृश्यमानस्य नानारूपावभासतः संत्यताविरहात्, 'परमार्थस्य च दर्शनविरहान्न किञ्चित्
Jain Education International
(१) सुखादिसंवेदनस्य । ( २ ) अविभागबुद्ध्यात्मा । (३) जलरहितस्य । (४) मरीचिकाचक्रे । (५) सुवर्णादिरूपेण । (६) सुवर्णादिरूपात् भिन्नतया मृच्छकलादित्वेनैव । (७) अविभागरूपेण न कदाचिदपि भवतीति भावः । (८) दर्शनविषयीभूतस्य संवेदनस्य । ( ९ ) असत्यत्वात् । (१०) अद्वयस्य अविभागिनः ।
For Personal & Private Use Only
www.jainelibrary.org