________________
१११२]
निरंशसंवेदननिरासः यत्पुनरुक्तम्*"यः पश्यत्यात्मानं तस्यात्मनि भवति साखतः (शाश्वतः स्नेहः)। स्नेहात् सुखेषु तृष्यति तृष्णा दोषं तिरस्कुरुते ॥" [प्र० वा० १।२१९] इत्यादि;
तदप्यनेन निरस्तम् ; यदि हि क्रमाऽक्रमानेकान्तचित्तात्मनि दृष्टे अवश्यं स्नेहादिः संसारस्य; न कदाचित् सौगतस्य मुक्तिः सर्वदा तस्यैवं दर्शनात् । ननु अंक्रमेणेव क्रमेणापि चित्तमेकं ५ चित्रमस्तु न बाह्यमिति चेत् ; अत्राह-अवयविनम् इत्यादि । कथमाक्षिपेत् निराकुर्यात् । ननु चैकत्र अवयवे गुणे वा प्रवृत्तमिन्द्रियं नाऽवयवान्तरं गुणान्तरं वेक्षितुं क्षमते, कथमतः तत्साधारणरूपस्य ग्रहणम् , न च तदात्मकम् अन्यथा वा तदुपलभ्यते इति चेत् ; अत्राह-एकत्र इत्यादि । एकत्र अभिन्ने विषयेऽपि ग्राह्येऽपि न केवलं चित्ते विषयिणि संप्लवप्रवर्तनं कथं नेच्छेत् ? इच्छेदेव सौगतादिः । कयोः ? इत्याह-अभिलापसंसर्गयोग्यम् अनेकविशेषसाधारणं सामान्यं १० तदयोग्यो विशेषः तयोः प्रतिभासौ तयोः, इति चित्तवद् विषयेऽपि सामान्यविशेष- [५६क] प्रतिभासा दित्यभिप्रायः । तथा लौकिकी प्रतीतिः 'यमहं पश्यामि तमेव स्पृशामि, यमहमद्राक्षं तमेव स्पृशामि' इति च । ___अथवा, 'अभिलापसंसर्गयोग्यायोग्ययोः प्रतिभासयोः' इति व्याख्येयम् । तदुक्तं न्या य वि निश्च ये
*"आत्मनाऽनेकरूपेण" [न्यायवि० ११९] इत्यादि । एवं तर्हि अभिलापसंसर्गयोग्यस्वभावाक्रान्तम् अन्यत् तद्विपरीतस्वभावाक्रान्तञ्च अन्यद्वस्तु स्याद् "अन्यथा कचिदपि तद्भदो" न स्यादिति चेत् ; अत्राह-वस्तुन इत्यादि । अत्रैवं मन्यते-द्वौ भेदौ वस्तुनः स्वभावभूतौ यथा ज्ञानस्य विभ्रमतरत्वादिः, अन्यश्च यथा ज्ञानान्तरस्य, स एव तत्र वस्तुनः स्वभावः स्वरूप (पे) यो भेदः तस्य वस्तुनः अभेदकत्वात् कथमाक्षिपेत् इति ? २० तन्न सौत्रान्तिकमते *"किं स्यात्" [प्र० वा० २।२१०] 'इत्यादि युक्तम् । यत्पुनरेतद् योगाचारस्य मतम्
*"अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥" [प्र० वा० २।३५४] इति ; तत्रापि तन्न युक्तमिति दर्शयन्नाह- भागीव इत्यादि ।
[भागीव भाति चेत्किन्नासत्क्रमः क्रमवानिव ।
लक्ष्यतेऽभागबुद्ध्यात्मा बहिरन्तर्मुखादिभिः ॥१२॥] (6) कथञ्चित् नित्यानित्यात्मकचित्तसन्तानरूपे आत्मनि। (२) कारणं स्यात्तदा । (३) चित्तात्मन एव । (४) सर्वज्ञत्वात् सुगतस्य । (५) युगपदिव । (६) नानावयवात्मनोऽनेकगुणात्मकस्य च अवयविनः । (७) पदार्थम् । (८) "..'बहिरर्थस्य तादृशः। विचित्रं ग्रहणं व्यक्तं विशेषणविशेष्यभाक् ॥" इति शेषः । (९) भिन्नम् । (१०) विरुद्धधर्माध्यासेऽपि भेदाभावे । (११) वस्तुभेदः । (१२)बाह्ये विभ्रमरूपस्यापि स्वरूपेऽविभ्रमात्मनः। (१३) "किं स्यात् सा चित्रकस्यां न स्यात्तस्यां मतावपि । यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम् ॥"-प्र. वा. २१२१०।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org